Advertisement

01 अविवेकः परमापदां पदम्

अभ्यासः प्रश्नः – अविवेकः परमापदां पदम्

⚡ अभ्यासः प्रश्नः – अविवेकः परमापदां पदम् ⚡

1. निम्नलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) उज्जयिन्यां किं नाम विप्रः अवसत्?
उत्तर – माधवः
(ख) माधवः केन श्राद्धार्थं निमन्त्रितः?
उत्तर – राज्ञा
(ग) अक्रियामाणस्य कर्तव्यस्य रसं कः पिबति?
उत्तर – कालः
(घ) 'किं करोमि' इति कः चिन्तयति?
उत्तर – माधवः / ब्राह्मणः
(ङ) कृष्णसर्पः केन दृष्टः ?
उत्तर – नकुलेन
(च) नकुलं कः व्यापादितवान्?
उत्तर – माधवः / ब्राह्मणः
(छ) सम्पदाः कं वृणते?
उत्तर – विमृश्यकारिणम्
2. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -
(क) ब्राह्मणः बालकस्य रक्षायै कम् उपायम् अचिन्तयत्?
उत्तर – ब्राह्मणः बालकस्य रक्षायै उपायम् अचिन्तयत् यत् – अहं इमं पुत्रनिर्विशेषं नकुलं बालरक्षायां व्यवस्थाप्य गच्छामि |
(ख) ब्राह्मणेन अविचार्य किं कृतम् ?
उत्तर – ब्राह्मणेन अविचार्य नकुलः मारितः |
(ग) कालः कस्य रसं पिबति ?
उत्तर – कालः क्षिप्रम् अक्रियमाणस्य कर्तव्यस्य रसं पिबति |
(घ) कीदृशः नकुलः ब्राह्मणस्य चरणयोः अलुठत् ?
उत्तर – रक्त-विलिप्त-मुख-पादः नकुलः ब्राह्मणस्य चरणयोः अलुठत् |
(ङ) नकुलेन कः व्यापादितः?
उत्तर – नकुलेन सर्पः व्यापादितः |
(च) परमपदां पदं किम् ?
उत्तर – परमपदां पदं अविवेकः अस्ति |
(छ) सम्पदः कीदृश्यः भवन्ति?
उत्तर – सम्पदः गुणलुब्धाः भवन्ति |
3. स्थूलपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -
(क) माधवः उज्जयिन्याम् अवसत्।
उत्तर – कुत्र
(ख) ब्राह्मणी शिशोः रक्षार्थ ब्राह्मणं नियोज्य स्नातुं गता।
उत्तर – कम्
(ग) ब्राह्मणः दारिद्र्यात् अचिन्तयत्।
उत्तर – कस्मात्
(घ) यदि कार्यं क्षिप्रं न क्रियते तदा कालः तस्य रसं पिबति।
उत्तर – कस्य
(ङ) ब्राह्मणः सः नकुलं बालरक्षायाम् व्यवस्थापयत्।
उत्तर – कम्
(च) नकुलः सीमांतम् आगच्छन्तं कृष्णसर्पम् अमरयत्।
उत्तर – कम्
(छ) नकुलस्य मुखं पादः च रक्तेन विलिप्तः।
उत्तर – केन
4. अधोलिखितप्रश्नान् यथा निर्देशम् उत्तरत -
(क) 'अस्ति उज्जयिन्यां माधवः नाम विप्रः।' अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तर – अस्ति
(ख) 'किन्तु बालस्य अत्र रक्षकः नास्ति।' अत्र किं कर्तृपदं वर्तते ?
उत्तर – रक्षकः
(ग) 'ब्राह्मणं दृष्ट्वा नकुलः रक्तविलिप्तमुखपादः तस्य चरणयोः अलुठत्।' अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम् ?
उत्तर – नकुलः
(घ) 'अत्रान्तरे ब्राह्मणोऽपि श्राद्धं गृहीत्वा गृहम् उपावृत्तः।' अत्र 'दत्त्वा' इति पदस्य किं विलोमपदं प्रदत्तम् अस्ति ?
उत्तर – गृहीत्वा
(ङ) 'बालकः सुस्थः सर्पश्च व्यापादितः तिष्ठति।' अत्र 'बालकः सुस्थः' इत्यनयोः पदयोः किं विशेषणपदम् अस्ति ?
उत्तर – सुस्थः |
(च) 'यदि सत्वरं न गच्छामि' इत्यत्र 'शीघ्रम्' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर – सत्वरम् |
5. घटनाक्रमानुसारं वाक्यानि पुस्तिकायां लिखत -
  1. (ख) उज्जयिन्यां माधवो नाम विप्रः वसति ।
  2. (घ) ब्राह्मणः श्राद्धार्थ राज्ञा निमन्त्रितः भवति।
  3. (क) ब्राह्मणः नकुलं बालरक्षार्थ व्यवस्थाप्य गच्छति।
  4. (ङ) ब्राह्मणः श्राद्धार्थ राज्ञः प्रासादं गच्छति।
  5. (च) नकुलः बालकस्य समीपम् आगच्छन्तं सर्प मारयति।
  6. (ग) ब्राह्मणः श्राद्धं गृहीत्वा प्रत्यागच्छति।
  7. (ज) नकुलस्य मुखं रक्तविलितं भवति।
  8. (झ) ब्राह्मणः रक्तविलिप्तमुखं नकुलं दृष्ट्वा चिन्तयति 'नूनं खादितः मे पुत्रः अनेन नकुलेन।'
  9. (छ) ब्राह्मणः सुस्थं पुत्रं दृष्ट्वा विषादमनुभवति ।
  10. (ञ) सहसा क्रियां न विदधीत।
6. अधोलिखितकथनयोः उचितभावार्थं (✔) इति चिह्नेन प्रदर्शयत -
(अ) सहसा विदधीत न क्रियाम् –
उत्तर – (i) कार्यं सर्वदा एव विचार्य कर्तव्यम्।
(ब) क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् –
उत्तर – (i) कालः कार्यस्य आनन्दं नाशयति ।
7. समुचितप्रतीपमेलनं कुरुत -
पदम् प्रतीपम् (विलोमपदम्)
(क) आदानम्प्रदानम्
(ख) समीपम्दूरम्
(ग) दारिद्र्यम्सम्पन्नता
(घ) विवेकःअविवेकः
(ङ) उपसृत्यअपसृत्य
8. विशेषणानि विशेष्यैः सह योजयत -
विशेष्याणि विशेषणानि (उत्तरम्)
नकुलः चिरकालपालितः, पुत्रनिर्विशेषः, रक्तविलिप्तमुखपादः, उपकारकः, मृतः
बालकः सुस्थः
सर्पः कृष्णः, व्यापादितः
Advertisement