अभ्यासः प्रश्नः - भारतेनास्ति मे जीवनं जीवनम्
1. संस्कृतभाषया एकपदेन उत्तरं लिखत -
(क) मम भारतं कुत्र भाति ?
उत्तर - भूतले |
(ख) भारतं कस्य हासप्रभया पूरितम् अस्ति ?
उत्तर - शुभ्रहैमाद्रिहासप्रभया |
(ग) धरण्यां किं मोदताम् ?
उत्तर - भारतम् |
(घ) मम अखिलं चेष्टितं कस्मै अर्पितं भवेत् ?
उत्तर - भारताय |
(ङ) अन कोऽपि कां न व्रजेत् ?
उत्तर - दीनताम् (हीनताम्) |
(च) भारतं कया लालितं वर्तते ?
उत्तर - सत्कलया |
(छ) अहं किं नित्यमेव स्मरामि 7
उत्तर - भारतम् |
(ज) भारतं जगत् कीदृशैः चरित्रैः पावयति ?
उत्तर - विश्ववन्द्यैः |
2. संस्कृतभाषया पूर्णवाक्येन उत्तरं लिखत -
(क) अस्मिन् पाठे केषां पर्वतानाम् उल्लेखः अस्ति ?
उत्तर - अस्मिन् पाठे विन्ध्य-सह्य-नील-अर्बुद-अरावली पर्वतानाम् उल्लेखः अस्ति |
(ख) भारतस्य पञ्चनदीनां नामानि लिखत ।
उत्तर - भारतस्य पञ्चनदीनां नामानि जाह्नवी, चन्द्रभागा, तुङ्गभद्रा, विपाशा, भानुजा (यमुना), च |
(ग) भारतदेशः संसारं कैः पावयति ?
उत्तर - भारतदेशः संसारं विश्ववन्द्यैः चरित्रैः पावयति |
(घ) भारतं कैः झङ्कृतं वर्तते ?
उत्तर - भारतं भारतीवल्लकीझङ्कृतैः झङ्कृतं वर्तते |
(ङ) मम भारतं कैः अन्वितं वर्तते ?
उत्तर – मम भारतं धर्म-अर्थ-काम-मोक्ष-अन्वितं, भक्ति-भाव-अन्वितं, ज्ञान-कर्म-अन्वितं च वर्तते | (धर्मार्थकाममोक्ष-भक्तिभाव-ज्ञानकर्मभिः)
3. अधोलिखितेषु कथनेषु स्थूलाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
(क) मम भारतं पर्वतश्रेणिभिः सम्पूजितं वर्तते।
उत्तर – काभिः
(ख) भारते गङ्गायमुनादयः नद्यः वहन्ति।
उत्तर – काः
(ग) भारतं सत्कलाभिः लालितम् अस्ति।
उत्तर – काभिः
(घ) भारतं विश्वं कुटुम्बवत् आलोकयति ।
उत्तर – किम्
(ङ) भारते भिन्नाः संस्कृतयः सन्ति तथापि भारतम् अभिन्नम् अस्ति।
उत्तर – काः
(च) भारते जनाः अनेकमार्गैः प्रभुम् आराधयन्ति ।
उत्तर – कैः
(छ) अत्र जनाः व्याधिना पीडिताः न भवेयुः ।
उत्तर – केन
(ज) भारतेन मह्यं शुभाः प्रेरणाः प्रदत्ताः ।
उत्तर – कस्मै
(झ) अहम् अनेककर्माणि कुर्वन् भारतस्य गीतानि गायामि।
उत्तर – कानि
ञ) मम सर्वाणि चेष्टितानि भारताय अर्पितानि।
उत्तर – कस्मै
4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'भूतले भाति मेऽनारतं भारतम्।' अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर – भाति
(ख) 'मोदतां राजतर्ता पावनं भारतम्।' अस्मिन् वाक्ये 'राजताम्' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर – भारतम्
(ग) 'भारतं वर्तते मे परं सम्बलम्।' अत्र 'मम' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर – मे
(घ) 'भारतं नित्यमेव स्मरामि प्रियम्।' अत्र 'यदा-कदा' इत्यनयोः पदयोः किं विलोमपदं प्रयुक्तम् ?
उत्तर – नित्यम्
(ङ) 'भारतायार्पितं मेऽखिलं चेष्टितम्।' अन्न 'चेष्टितम्' इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तर – अखिलम्
(च) 'भूतले भाति तन्मामकं भारतम्' अत्र 'मामकम्' इति पदस्य कि विशेष्यपदं प्रयुक्तम् ?
उत्तर – भारतम्
5. अधोलिखितवाक्यानाम् अर्थत्रयात् सर्वोचितम् अर्थ चिनुत-
(क) भारतं वर्तते मे परं सम्बलम्
(i) भारतं मह्यं पर बलं ददाति ।
(ii) मम भारतदेशः अतीव शक्तिशाली वर्तते।
(iii) भारतं मम परमः आश्रयः अस्ति।
उत्तर - (iii) भारतं मम परमः आश्रयः अस्ति ।
(ख) नात्र कोऽपि व्रजेत् दीनताम्
(i) अस्मिन् भारते कोऽपि नरः दीनः न भवेत्।
(ii) अस्मिन् भारते कोऽपि दीनस्य समीपे न गच्छेत्।
(iii) भारतदेशे दुष्टः दैन्यं प्राप्नुयात्।
उत्तर – (i) अस्मिन् भारते कोऽपि नरः दीनः न भवेत् ।
(ग) येन मां प्रदत्ताः शुभाः प्रेरणाः
(i) भारताय अहं प्रेरणां दास्यामि।
(ii) भारतं महां सदा शोभनाः प्रेरणाः ददाति ।
(iii) भारतेन सुन्दराः प्रेरणाः विदेशेभ्यः दत्ताः ।
उत्तर - (ii) भारतं महां सदा शोभनाः प्रेरणाः ददाति ।
6. मञ्जूषायां प्रदत्तानां विशेषणविशेष्यपदानां मेलनं कृत्वा शब्दयुग्मानि लिखत -
यथा - भारतं सम्बलम्
(भारतं, पावनम्, एकं, चेष्टितं, सम्बलं, केनचित्, अखिलं, व्याधिना, विश्ववन्द्यैः, प्रभुम्, विश्वबन्धुत्वम् ।)
विशेषणानि विशेष्याणि
....................... ..............................
....................... ..............................
....................... ..............................
....................... ..............................
....................... ..............................
....................... ..............................
उत्तर – विशेषणानि विशेष्याणि
पावनम् विश्वबन्धुत्वम्
सम्बलं भारतम्
एकं प्रभुम्
अखिलम् चेष्टितम्
केनचित् व्याधिना
विश्ववन्द्यैः चरित्रैः
7. शब्दार्थैः सह मेलनं कृत्वा लिखत-
(क) अनारतम् (i) संवर्धनस्थली
(ख) भानुजा (ii) पवित्रीकृतम्
(ग) सौहित्यभूः (iii) प्रकाशितम्
(घ) वल्लकी (iv) सततम्
(ङ) भासितम् (iv) वीणा
(च) पावितम् (iv) यमुना
उत्तर –
(क) अनारतम् (iv) सततम्
(ख) भानुजा (iv) यमुना
(ग) सौहित्यभूः (i) संवर्धनस्थली
(घ) वल्लकी (iv) वीणा
(ङ) भासितम् (iii) प्रकाशितम्
(च) पावितम् (ii) पवित्रीकृतम्
8. अधोलिखिताः श्लोकपङ्क्तीः पूरयत
(क) विश्वमेकं ........................ समालोकयत् ।
(ख) वेदभा ...................... सत्कला ............................ |
(ग) अर्बुद ....................... श्रेणि .................... |
(घ) जाह्रवी ....................... जलैः ................... |
(ङ) .......................... भाति मे .................... भारतम् ।
उत्तर –
(क) विश्वमेकं .......कुटुम्बं......... समालोकयत् ।
(ख) वेदभा .......भाषितं......... सत्कला ........लासितं.......... |
(ग) अर्बुद ......अरावलि......... श्रेणि .....सम्पूजितम्......... |
(घ) जाह्रवी ......चन्द्रभागा........ जलैः ......पूरितम्........ |
(ङ) ......भूतले........ भाति मे ......अनारतं....... भारतम् ।
9. अधोदत्तं अन्वयं शतृप्रत्ययान्तपदैः पूरयत -
पावनं विश्वबन्धुत्वम् ....................... विश्ववन्द्यैः चरित्रैः जगत् .................... विश्वम् एकम् कुटुम्बकम् .......................... मे भारतम् भूतले अनारतम् भाति।
उत्तर –
पावनं विश्वबन्धुत्वम् ........उद्घोषयत्.......... विश्ववन्द्यैः चरित्रैः जगत् ......पावयत्....... विश्वम् एकम् कुटुम्बकम् .....समालोकयत्...... मे भारतम् भूतले अनारतम् भाति।
0 टिप्पणियाँ