Advertisement

03 - सुभाषितरसं पीत्वा जीवनं सफलं कुरु

NCERT संस्कृत - अभ्यास प्रश्नोत्तर

NCERT संस्कृत - अभ्यास प्रश्नोत्तर 📖

प्रश्न १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) गीतानि के गायन्ति? ➡ देवाः
(ख) कः बलं न वेत्ति ? ➡ निर्बलः
(ग) कः वसन्तस्य गुणं वेत्ति ? ➡ पिकः
(घ) मूषकः कस्य बलं न वेत्ति ? ➡ सिंहस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ? ➡ तरवः
(च) केन समं सख्यं न करणीयम् ? ➡ दुर्जनेन
(छ) केन विना दैवं न सिध्यति? ➡ पुरुषकारेण
प्रश्न २. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -
(क) तरवः कदा नम्राः भवन्ति ?
उत्तरम्: तरवः फलोद्गमैः नम्राः भवन्ति ।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तरम्: समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तरम्: सत्पुरुषाणां स्वभावः परोपकाराय भवति, यथा तरवः फलोद्गमैः नम्राः भवन्ति, मेघाः जलैः नम्राः भवन्ति, तथा सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति ।

(घ) सत्यम् कदा सत्यम् न भवति ?
उत्तरम्: सत्यम् अप्रियं च अनृतं च न भवति ।

(ङ) दैवं कदा न सिध्यति ?
उत्तरम्: दैवं प्रयत्नेन विना न सिध्यति ।
प्रश्न ३. स्तम्भयोः मेलनं कुरुत -
श्लोकांशः भावार्थः / अर्थः
गायन्ति देवाः किल गीतकानिभारतभूमेः माहात्म्यवर्णनम्
गुणी गुणं वेत्तिसज्जनः एव गुणानां मर्मज्ञः
भवन्ति नम्राः तरवः फलोद्रमैःसत्पुरुषाणां स्वाभाविकी नम्रता
यथा चतुर्भिः कनकं परीक्ष्यतेसुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते
अष्टौ गुणाः पुरुषं दीपयन्तिप्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः
दुर्जनेन समं सख्यं न कारयेत्दुष्टसङ्गः दुःखदः
एकेन चक्रेण न रथस्य गतिःकेवलं दैवं प्रयत्नं विना असिद्धम्
प्रश्न ४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत -
(क) गुणी गुणं वेत्ति न वेत्ति निर्गुणः
(ख) भवन्ति नम्राः तरवः फलोद्गमैः
(ग) पुरुषः परीक्ष्यते कुलेन, शीलेन, गुणेन, कर्मणा ।
(घ) गुणाः पुरुषं दीपयन्ति - प्रज्ञा, कौल्यं, दमः, श्रुतम्
(ङ) दानं यथाशक्ति कृतज्ञता च ।
(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति
प्रश्न ५. समुचितं विकल्पं चिनुत -
(क) “गायन्ति देवाः किल गीतकानि" इत्यस्य श्लोकस्य मुख्यविषयः कः ?
उत्तरम्: (ii) भारतभूमेः गौरवम्

(ख) "गुणी गुणं वेत्ति" इत्यत्र कः गुणं न जानाति ?
उत्तरम्: (ii) निर्गुणः

(ग) “पिको वसन्तस्य गुणं न वायसः" इत्यस्य तात्पर्यं किम् ?
उत्तरम्: (ii) सुजन एव गुणं जानाति

(घ) "भवन्ति नम्राः तरवः फलोद्रमैः" इत्यस्य अर्थः कः ?
उत्तरम्: (iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति

(ङ) "न सा सभा यत्र न सन्ति वृद्धाः" इत्यत्र सभायाः महत्त्वं किम् ?
उत्तरम्: (iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः

(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
उत्तरम्: (iv) सः उष्णाङ्गारवद् हानिकरः भवति
Advertisement