03 - सुभाषितरसं पीत्वा जीवनं सफलं कुरु

 


अभ्यास प्रश्न

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) गीतानि के गायन्ति?
उत्तर:  देवाः 

(ख) कः बलं न वेत्ति ?
उत्तर: निर्बलः 

(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तर: पिकः 

(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तर: सिंहस्य 

(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तर: तरवः

(च) केन समं सख्यं न करणीयम् ?
उत्तर: दुर्जनेन

(छ) केन विना दैवं न सिध्यति?
उत्तर: पुरुषकारेण

 

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –

(क) तरवः कदा नम्राः भवन्ति ?
उत्तर: तरवः फलोद्गमैः नम्राः भवन्ति ।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तर: समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति ।

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तर: सत्पुरुषाणां स्वभावः परोपकाराय भवति, यथा तरवः फलोद्गमैः नम्राः भवन्ति, मेघाः जलैः नम्राः भवन्ति, तथा सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति ।

(घ) सत्यम् कदा सत्यम् न भवति ?

उत्तरम् - सत्यम् अप्रियं च अनृतं च न भवति । 

(ङ) दैवं कदा न सिध्यति ?

उत्तरम् - दैवं प्रयत्नेन विना न सिध्यति । 

 

३. स्तम्भयोः मेलनं कुरुत –

उत्तरम् -

गायन्ति देवाः किल गीतकानि          -        भारतभूमेः माहात्म्यवर्णनम्

गुणी गुणं वेत्ति                              -        सज्जनः एव गुणानां मर्मज्ञः

भवन्ति नम्राः तरवः फलोद्रमैः          -        सत्पुरुषाणां स्वाभाविकी नम्रता

यथा चतुर्भिः कनकं परीक्ष्यते           -        सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते

अष्टौ गुणाः पुरुषं दीपयन्ति              -        प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः

दुर्जनेन समं सख्यं न कारयेत्           -        दुष्टसङ्गः दुःखदः

एकेन चक्रेण न रथस्य गतिः             -        केवलं दैवं प्रयत्नं विना असिद्धम्

 

४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत -

(फलोद्रमैः, गुणम्, कृतज्ञता, सिद्ध्यति, श्रुतम्, शीलेन)

उत्तरम् -

(क) गुणी गुणं वेत्ति न वेत्ति निर्गुणः ।

(ख) भवन्ति नम्राः तरवः फलोद्गमैः |

(ग) पुरुषः परीक्ष्यते कुलेन, शीलेन, गुणेन, कर्मणा।  

(घ) गुणाः पुरुषं दीपयन्ति - प्रज्ञा, कौल्यं, दमः, श्रुतम् |

(ङ) दानं यथाशक्ति कृतज्ञता च ।

(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति |

 

 

५. समुचितं विकल्पं चिनुत-

(क) “गायन्ति देवाः किल गीतकानि" इत्यस्य श्लोकस्य मुख्यविषयः कः ?

(i) वसन्तस्य सौन्दर्यम्                  (ii) भारतभूमेः गौरवम्          (iii) कर्मणां फलम्          (iv) दानस्य प्रभावः

उत्तरम् - भारतभूमेः गौरवम्

 

(ख) "गुणी गुणं वेत्ति" इत्यत्र कः गुणं न जानाति ?

(i) गुणी                  (ii) निर्गुणः              (iii) पिकः               (iv) बली

उत्तरम् - निर्गुणः

 

(ग) “पिको वसन्तस्य गुणं न वायसः" इत्यस्य तात्पर्यं किम् ?

(i) पिकः मधुरं गायति न वायसः                (iii) वायसः अपि सरसं गानं करोति            

(ii) सुजन एव गुणं जानाति                      (iv) वसन्तः निर्गणः अस्ति

उत्तरम् - सुजन एव गुणं जानाति |

 

(घ) "भवन्ति नम्राः तरवः फलोद्रमैः" इत्यस्य। अर्थः कः ?

(i) वृक्षाणां कठोरता                               (ii) सत्पुरुषाणाम् उन्नतिः                      

(iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति |            (iv) परोपकारिणां दुर्बलता

उत्तरम् - फलयुक्ताः वृक्षाः नम्राः भवन्ति |

 

(ङ) "न सा सभा यत्र न सन्ति वृद्धाः" इत्यत्र सभायाः महत्त्वं किम् ?

(i) सभा मनोरञ्जनाय भवति                             (ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति

(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः          (iv) सभा केवलं राजकार्यार्थं भवति

उत्तरम् - धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः |

 

(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?

(i) सः मित्रं भवति                                (ii) सः धनं ददाति

(iii) सः शिक्षां ददाति                            (iv) सः उष्णाङ्गारवद् हानिकरः भवति

उत्तरम् - सः उष्णाङ्गारवद् हानिकरः भवति |


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

07 - ईशावास्यम् इदं सर्वम्

               अभ्यास कार्यम्   १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु - ( क) दैत्यराज: कः ? उत्तर: हिरण्यकशिपुः । (...