अभ्यास कार्यम् 📝
१. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु।
यथा - गुरुवन्दनम्
उत्तरम्:
वृद्धसेवा
अतिथिसत्कारः
मातृप्रेम
पितृभक्तिः
ज्येष्ठेषु आदरः
कनिष्ठेषु प्रीतिः
बन्धुषु प्रीतिः
परोपकारः
प्रियवचनम्
प्राणिषु दया
सत्यकथनम्
सत्पात्रे दानम्
अहिंसा
सर्वेषु मैत्रीभावः
समयपालनम्
स्वच्छता
प्रकृतिरक्षणम्
भ्रातृषु भगिनीषु च स्नेहः
२. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु।
यथा - पादोन-सप्तवादनम् ➡ 06:45
| सार्ध-दशवादनम् | ➡ | 10:30 |
| दशवादनम् | ➡ | 10:00 |
| सपाद-षड्वादनम् | ➡ | 06:15 |
| सार्ध-चतुर्वादनम् | ➡ | 04:30 |
| पादोन-एकादशवादनम् | ➡ | 10:45 |
३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु।
यथा - ०६:०० ➡ षड्वादनम्
| ०५:३० | ➡ | सार्ध-पञ्चवादनम् |
| ०९:४५ | ➡ | पादोन-दशवादनम् |
| १२:०० | ➡ | द्वादशवादनम् |
| ०६:४५ | ➡ | पादोन-सप्तवादनम् |
| ११:३० | ➡ | सार्ध-एकादशवादनम् |
४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु।
यथा - सः सार्ध-सप्तवादने अध्ययनं करोति । ➡ "सः कदा अध्ययनं करोति ?"
- (क) सा सपाद-नववादने विद्यालयं गच्छति । ➡ सा कदा विद्यालयं गच्छति ?
- (ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति । ➡ सतीशः कदा भोजनं करोति ?
- (ग) यानं पञ्चवादने आगच्छति । ➡ यानं कदा आगच्छति ?
- (घ) गोपालः षड्वादने गोदोहनं करोति । ➡ गोपालः कदा गोदोहनं करोति ?
- (ङ) माता दशवादने कार्यालयं गच्छति । ➡ माता कदा कार्यालयं गच्छति ?
५. स्वस्य दिनचर्या सरलवाक्यैः लिखन्तु।
अहं प्रातः षड्वादने उत्तिष्ठामि ।
- (क) उत्थाय अहं प्रथमं धरतीं प्रणमामि ।
- (ख) तत्पश्चात् माता पितरौ च नमामि ।
- (ग) ततः कवोष्णं जलं पिबामि ।
- (घ) सपाद-षड्वादने शौचं कृत्वा दन्तधावनं करोमि ।
- (ङ) सार्ध-षड्वादने अहं भ्रमणाय उद्यानं गच्छामि ।
- (च) तत्र गत्वा व्यायामं करोमि ।
- (छ) सप्तवादने उद्यानात् आगत्य स्नानं करोमि ।
- (ज) तत्पश्चात् अहं ईशवन्दनां करोमि ।
- (झ) सपाद-सप्तवादने अहं प्रातराशं करोमि ।
- (ञ) सार्ध-सप्तवादने विद्यालयं प्रति गच्छामि ।
६. वाक्येषु शिष्टाचारपदं योजयन्तु।
यथा - युवकः मातापित्रोः सेवां करोति ।
- (क) सा दुर्बलानां साहाय्यं करोति ।
- (ख) सर्वेषु प्राणिषु दयाभावः भवतु ।
- (ग) सर्वे छात्राः पाठशालायाः नियमपालनं कुर्वन्तु ।
- (घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः ।
- (ङ) परस्परं छात्रेषु मैत्रीभावः भवतु ।