अभ्यास प्रश्न
१. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च ।
(क) किं वयं पृथिव्याः पुत्राः
पुत्र्यः च स्म: ।
उत्तरः आम्
(ख) किं रत्नम् अन्विष्यति ।
उत्तरः न
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति ।
उत्तरः आम्
(घ) किं शरीरम् आद्यं धर्मसाधनम् ।
उत्तरः आम्
(ङ) किं गुणानां सर्वदा एव आदरः भवति ।
उत्तरः आम्
(च) किं क्रियाशीलः एव विद्वान् भवति ।
उत्तरः आम्
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि
वाक्यानि वक्तव्यानि ।
उत्तरः न
(ज) यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति ।
उत्तरः न
२. पाठस्य आधारेण अधोलिखितानां
प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(पाठ के आधार पर प्रश्नों के उत्तर एक पद
में दीजिए।)
(क) आद्यं धर्मसाधनं किम् ?
उत्तरः शरीरम्
(ख) कीदृशं वचः मा ब्रूहि ?
उत्तरः दीनम्
(ग) श्रेष्ठम् आभूषणं किम् अस्ति ?
उत्तरः शीलम्
(घ) सर्वेषां मनुष्याणां माता का अस्ति
?
उत्तरः पृथ्वी
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ?
उत्तरः ग्राहकाः
३. पाठस्य आधारेण अधोलिखितानां
प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)
(क) कः विद्वान् अस्ति?
उत्तरः अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण च एव मनुष्यः वास्तविकः बिद्वान् भवति न तु
केवलम् अध्ययनेव ।
(ख) गुणिषु पूजास्थानं किम् ?
उत्तरः गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।
(ग) कः विद्यां न प्राप्नोति ?
उत्तरः यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।
(घ) मनुष्य: विद्याम् अर्थं च कथं
साधयेत् ?
उत्तरः मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य
अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः
निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात् ।
(ङ) कीदृशं वचनं दुर्लभम् ?
उत्तरः तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।
४. रेखाङ्कितपदानि आधृत्य
प्रश्ननिर्माणं कुर्वन्तु । (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
(क) शीलं परं भूषणम् ।
उत्तरः किं परं भूषणम् ?
(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति ।
उत्तरः मनुष्यः कस्याः सन्तानः अस्ति ?
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्।
उत्तरः केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?
(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति । उत्तरः
उत्तरः हितकारकं मनोहारि च किम् दुर्लभं भवति ?
५. पाठस्य आधारेण उदाहरणानुसारं
समुचितं मेलनं कुर्वन्तु ।
(पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)
उत्तरः
(क) क्षणशः कणशः साधयेत् - विद्याम् अर्थं च
(ख) सर्वश्रेष्ठम् आभूषणम् - शीलम्
(ग) रत्नं न अन्विष्यति, तत् - मृग्यते
(घ) आद्यं धर्मसाधनम् - शरीरम्
(ङ) हितकारकं मनोहारि च
वचः - दुर्लभम्
(च) पूजास्थानम् - गुणाः
६. पाठात् अधोलिखितानां पदानां
समानार्थकपदानि चित्वा लिखन्तु ।
(पाठ से निम्नलिखित पदों के सामानार्थक पदों को चुनकर लिखिए |)
उत्तरः
(क) सुतः - पुत्रः
(ख) प्रथमम् - आद्यम्
(ग) धनम् - अर्थम्
(घ) अवस्था - वयः
(ङ) वचनम् - वचः
(च) आचरणम् - शीलम्
७. उदाहरणानुसारम् अधोलिखितेषु
वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु ।
(उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)
(क) माता भूमिः पुत्रोऽहं पृथिव्याः ।
उत्तरः षष्ठी विभक्तिः
(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।
उत्तरः सप्तमी विभक्ति
(ग) शीलं परं भूषणम्।
उत्तरः प्रथमा विभक्ति
(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।
उत्तरः द्वितीया विभक्ति
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।
उत्तरः प्रथमा / द्वितीया विभक्ति
(च) हितं मनोहारि च दुर्लभं वचः ।
उत्तरः प्रथमा विभक्ति
८. यत्र अग्रे स्वरः अस्ति तत्र
अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु ।
(जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर ‘म्’ लिखकर वाक्य पुनः लिखिए।)
(कं) न रत्नं अन्विष्यति ।
उत्तरः न रत्नम् अन्विष्यति ।
(ख) शरीरं आद्यं खलु धर्मसाधनम् ।
उत्तरः शरीरम् आद्यं खलु धर्मसाधनम् ।
(ग) वयं अद्यतनं पाठं पठामः ।
उत्तरः वयम् अद्यतनं पाठं पठामः ।
(घ) त्वं अस्माकं गृहं आगच्छ।
उत्तरः त्वम् अस्माकं गृहम् आगच्छ ।
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि
।
उत्तरः अहम् एकं प्रश्नं प्रष्टुम् इच्छामि ।
(च) गुणं अर्जयितुं अधिकं प्रयत्नं
करोतु ।
उत्तरः गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।