Advertisement

08 - पश्यत कोणमैशान्यं भारतस्य मनोहरम्

अभ्यासात् जायते सिद्धिः (उत्तर-पत्रिका)
✍️ अभ्यासात् जायते सिद्धिः (उत्तर-पत्रिका)
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत :
प्रश्नः उत्तरम्
(क) अस्माकं देशे कति राज्यानि सन्ति ? अष्टाविंशतिः
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ? इमाः सप्तभगिन्यः
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ? अष्टराज्यानां
(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ? अष्ट
(ङ) सप्तभगिनी – प्रदेशे कः उद्योगः सर्वप्रमुखः ? वंशोद्योगः
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत :
(क) भ्रातृसहित – भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तरम् - भ्रातृसहित – भगिनीसप्तके इमानि राज्यानि सन्ति - अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरम्, मेघालयः, नागालैण्डः, त्रिपुरा, सिक्किमः च ।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
उत्तरम् - इमानि राज्यानि सप्तभगिन्यः कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि ।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
उत्तरम् - ऐशान्यकोणप्रदेशेषु गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।
(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति ?
उत्तरम् - पूर्वोत्तरप्रादेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः, स्वलीला-कलासु च निष्णाताः सन्ति ।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उत्तरम् - वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं क्रियते ।
३. अधोलिखितेषु पदेषु प्रकृति – प्रत्ययविभागं कुरुत : (यथा — गन्तुम् = गम् + तुमुन्)
पदम् धात / उपसर्ग प्रत्ययः
(क) ज्ञातुम् ज्ञा तुमुन्
(ख) विश्रुतः वि + श्रु क्त
(ग) अतिरिच्य अति + ऋच् ल्यप्
(घ) पठनीयम् पठ् अनीयर्
४. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत :
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः ?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः । काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?
५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु :
धातुः एकवचनम् द्विवचनम् बहुवचनम्
यथा - गम् गच्छति गच्छतः गच्छन्ति
कथ् कथयति कथयतः कथयन्ति
स्था तिष्ठति तिष्ठतः तिष्ठन्ति
कृ करोमि कुर्वः कुर्मः
जीव् जीवति जीवतः जीवन्ति
चल् चलामि चलावः चलामः
६. वर्गचित्र-जालम् (पहेली एवं उत्तर-सूची) :
जा
तिः
त्रि
खा
सी
सि
णि
पु
ना
गा
भ्रा
ता
क्कि
पु
रा
ज्या
नि
मि
जो
मः
रः
सं
स्कृ
तिः
पू
र्वो
त्त
म्
दे
स्य
प्त
गि
न्यः
गा
रो
प्रा
कृ
ति
कः
वं
वृ
क्षः
गि
नि
रु
णा
लः
भ्रा
ता
मे
घा
यः
मि
ना
गा
लै
ण्डम्
वः
जोः
उत्तरम् (अन्विष्टाः सार्थकशब्दाः):
१. जनजातिः
२. भ्राता
३. सिक्किमः
४. मणिपुरः
५. त्रिपुरा
६. राज्यानि
७. संस्कृतिः
८. पूर्वोत्तरम्
९. देशस्य
१०. प्राकृतिकः
११. वंशवृक्षः
१२. अरुणाचलः
१३. नागालैण्डम्
१४. मेघालयः
१५. भगिनि
१६. भगिन्यः
१७. गारो
१८. मिजो
१९. नागा
२०. बहवः
७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत :
(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति ।
(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते ।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – सिक्किमः, अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरम्, मेघालयः, नागालैण्डः, त्रिपुरा
(ङ) प्रदेशेऽस्मिन् जनजातिः बाहुल्यम् अस्ति ।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते ।
८. भिन्नप्रकृतिकं पदं चिनुत :
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति उत्तरम् : अहसत्
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः उत्तरम् : लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् उत्तरम् : आम्रः
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, सिंहः उत्तरम् : शाखा
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा उत्तरम् : यानम्
९. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत :
विशेषणम् विशेष्यम्
(i) अयम् प्रदेशः
(ii) संस्कृतिविशिष्टायाम् भारतभूमौ
(iii) महत्त्वाधायिनी संस्कृतिः
(iv) प्राचीने इतिहासे
(v) एकः समवायः
Advertisement