✍️ अभ्यास प्रश्नाः (उत्तर-पत्रिका)
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु :
| प्रश्नः | उत्तरम् |
|---|---|
| (क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ? | शशकाः । |
| (ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ? | गजानाम् । |
| (ग) शशकराजः कस्य समीपं गच्छति ? | गजराजस्य । |
| (घ) के स्वमतं प्रकाशयन्ति ? | शशकाः । |
| (ङ) कः चन्द्रं नमति ? | गजराजः । |
| (च) के सुखेन तिष्ठन्ति ? | शशकाः । |
२. पूर्णवाक्येन उत्तराणि लिखन्तु :
(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम् - यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
उत्तरम् - यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
(ख) सायङ्काले केषां सभा भवति ?
उत्तरम् - सायङ्काले शशकानां सभा भवति ।
उत्तरम् - सायङ्काले शशकानां सभा भवति ।
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम् - शशकाः स्वराक्षार्थम् / स्वर्क्षार्थम् उपायं चिन्तयन्ति ।
उत्तरम् - शशकाः स्वराक्षार्थम् / स्वर्क्षार्थम् उपायं चिन्तयन्ति ।
(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम् - चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।
उत्तरम् - चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।
(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति कः कथयति ?
उत्तरम् - “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति शशकः कथयति ।
उत्तरम् - “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति शशकः कथयति ।
३. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु : (निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)
(क) किं चन्द्रः सरोवरे तिष्ठति ।
(ख) सर्वे शशकाः उपायं चिन्तयन्ति ।
(ग) सायंकाले शशकानां सभा भवति ।
(घ) शशकाः सरोवरस्य तीरे निवसन्ति ।
(ङ) सः गजराजं कथयति ।
४. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु :
| पदम् | पुरुषः | वचनम् |
|---|---|---|
| यथा - चिन्तयति | प्रथमपुरुषः | एकवचनम् |
| तिष्ठन्ति | प्रथमपुरुषः | बहुवचनम् |
| जीवन्ति | प्रथमपुरुषः | बहुवचनम् |
| नमति | प्रथमपुरुषः | एकवचनम् |
| कथयति | प्रथमपुरुषः | एकवचनम् |
| गच्छति | प्रथमपुरुषः | एकवचनम् |
५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु :
| धातुः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| यथा - गम् | गच्छति | गच्छतः | गच्छन्ति |
| कथ् | कथयति | कथयतः | कथयन्ति |
| स्था | तिष्ठति | तिष्ठतः | तिष्ठन्ति |
| कृ | करोमि | कुर्वः | कुर्मः |
| जीव् | जीवति | जीवतः | जीवन्ति |
| चल् | चलामि | चलावः | चलामः |
६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु :
(क) एतत् चित्रम् उपवनस्य अस्ति ।
(ख) एषः वृक्षः सेवफलस्य अस्ति ।
(ग) वृक्षस्य अधः सेवफलानि सन्ति ।
(घ) सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति ।
(ङ) सेवफलस्य वर्णः रक्तः अस्ति ।
७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु :
(क) गजः – हस्ती
(ख) पदम् – चरणः
(ग) चन्द्रः – शशाङ्कः
(घ) सरोवरः – जलाशयः
(ङ) प्रजा – जनता