अभ्यास प्रश्न -
१. पाठस्य
आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं
चलति स्म ?
उत्तरम्: कूर्दमाना ।
(ख) गृहे कति
अतिथयः सन्ति ?
उत्तरम्: पञ्च ।
(ग) कां
दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्: राधिकाम्
।
(घ)
मार्जार्याः कति शावकाः ?
उत्तरम्: चत्वारः ।
(ङ) राधिका
मार्जार्ये किं ददाति ?
उत्तरम्: क्षीरं /
दुग्धम् ।
(च) चित्रवर्णः
कः अस्ति ?
उत्तरम्: शबलः ।
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि
पूर्णवाक्येन लिखन्तु ।
(क) मार्जारीशावकानां
नामानि कानि ?
उत्तरम्: मार्जारीशावकानां नामानि सन्ति - तन्वी,
मृद्वी, शबलः, भीमः च इति ।
(ख) राधिका मार्जारीशावकान् किं
पाठयति ?
उत्तरम्: राधिका मार्जारीशावकान् – ‘अतिथि देवो भव’ पाठयति
।
(ग) विशिष्टाः अतिथयः के ?
उत्तरम्: मार्जारी चत्वारः शावकाः च विशिष्टाः
अतिथयः सन्ति ।
(घ) पितामही राधिकां किं वदति ?
उत्तरम्: पितामही राधिकां वदति – राधिके ! अतिथयः कदा
आगच्छति इति न जानीमः ।
(ङ) मार्जारी कदा राधिकायाः
पृष्ठतः आगच्छति ?
उत्तरम्: यदा शावकानां
समीपं राधिका गच्छति मार्जारी मन्दं – मन्दं पृष्ठतः आगच्छति |
(च) मार्जार्याः शावकाः कीदृशाः
सन्ति ?
उत्तरम्: तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव
कोमला | शबलः चित्रवर्णः तथा भीमः किञ्चित् स्थूलः सन्ति ।
३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखन्तु ।
यथा - लेखनी अत्र अस्ति ।
लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति ।
उत्तरम्: वृक्षः कुत्र अस्ति ?
(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्: देवालयः कुत्र अस्ति ?
(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्: वायुः कुत्र अस्ति ?
(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्: बालकाः कुत्र तिष्ठन्ति ?
(ङ) माता अत्र अस्ति ।
उत्तरम्: माता कुत्र अस्ति ?
४.
उत्पीठिकायां किम् अस्ति? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु ।
यथा
- उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां
घटी नास्ति ।
(पुस्तकम्, घटी, लेखनी,
चषकः, कूपी, स्यूतः,
सङ्गणकम्, वृक्षः, फलम्,
कन्दुकः)
उत्तरम्:
१.
उत्पीठिकायां
सङ्गणकम् अस्ति
|
२.
उत्पीठिकायां
लेखनी नास्ति |
३.
उत्पीठिकायां
कन्दुकम् अस्ति
|
४.
उत्पीठिकायां
वृक्षः नास्ति |
५.
उत्पीठिकायां
घटी नास्ति |
६.
उत्पीठिकायां
फलम् नास्ति |
७.
उत्पीठिकायां
चषकः नास्ति |
८.
उत्पीठिकायां
कूपी अस्ति
|
९.
उत्पीठिकायां
स्यूतः अस्ति
|
१०.
उत्पीठिकायां
पुस्तकम् अस्ति |
५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा -
मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवकः तत्र अस्ति ।
उत्तरम्: - वाक्यानि – अत्र
1. छात्रः कुत्र अस्ति ?
छात्रः अत्र अस्ति ।
2. काकः कुत्र अस्ति ?
काकः अत्र अस्ति ।
3. दीपकः कुत्र अस्ति ?
दीपकः अत्र अस्ति ।
4. घटः कुत्र अस्ति ?
घटः अत्र अस्ति ।
5. सुधाखण्डः कुत्र अस्ति ?
सुधाखण्डः अत्र अस्ति ।
6. शिक्षकः कुत्र अस्ति ?
शिक्षकः अत्र अस्ति ।
7. बालिका कुत्र अस्ति ?
बालिका अत्र अस्ति ।
8. लेखनी कुत्र अस्ति ?
लेखनी अत्र अस्ति ।
9. माला कुत्र अस्ति ?
माला अत्र अस्ति ।
तत्र
10. विद्यालयः कुत्र अस्ति ?
विद्यालयः तत्र अस्ति ।
11. गायकः कुत्र अस्ति ?
गायकः तत्र अस्ति ।
12. घटी कुत्र अस्ति ?
घटी तत्र अस्ति ।
13. फलम् कुत्र अस्ति ?
फलम् तत्र अस्ति ।
14. गृहम् कुत्र अस्ति ?
गृहम् तत्र अस्ति ।
15. वाटिका कुत्र अस्ति ?
वाटिका तत्र अस्ति ।
16. हरिणः कुत्र अस्ति ?
हरिणः तत्र अस्ति ।
17. अजः कुत्र अस्ति ?
अजः तत्र अस्ति ।
18. मूषकः कुत्र अस्ति ?
मूषकः तत्र अस्ति ।
सर्वत्र
19. प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।
20. परमेश्वरः कुत्र अस्ति ?
परमेश्वरः सर्वत्र अस्ति ।
21. ज्ञानम् कुत्र अस्ति ?
ज्ञानम् सर्वत्र अस्ति ।
22. आकाशः कुत्र अस्ति ?
आकाशः सर्वत्र अस्ति ।
23. अणवः कुत्र सन्ति ?
अणवः सर्वत्र सन्ति ।
24. प्रकृतिः कुत्र अस्ति ?
प्रकृतिः सर्वत्र अस्ति ।
25. पुष्पाणि कुत्र सन्ति ?
पुष्पाणि सर्वत्र सन्ति ।
26. वायुः कुत्र अस्ति ?
वायुः सर्वत्र अस्ति ।
27. प्रेम कुत्र अस्ति ?
प्रेम सर्वत्र अस्ति ।
एकत्र
28. बालकौ कुत्र स्तः ?
बालकौ एकत्र स्तः ।
29. मयूरौ कुत्र स्तः ?
मयूरौ एकत्र स्तः ।
30. मित्रौ कुत्र स्तः ?
मित्रौ एकत्र स्तः ।
31. पुत्रौ कुत्र स्तः ?
पुत्रौ एकत्र स्तः ।
32. महिलाः कुत्र सन्ति ?
महिलाः एकत्र सन्ति ।
33. सेविकाः कुत्र सन्ति ?
सेविकाः एकत्र सन्ति ।
34. चटकाः कुत्र सन्ति ?
चटकाः एकत्र सन्ति ।
35. दोला कुत्र अस्ति ?
दोला एकत्र अस्ति ।
६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।
यथा - भोजनशालायां पाचकः अस्ति ।
(सूचकपदानि
- पाचकः, पात्रम्, तण्डुलाः, शाकानि, अग्निः,
जलम्)
उत्तरम्: - भोजनशालायां पाचकः अस्ति ।
भोजनशालायां पात्रम् अस्ति ।
भोजनशालायां तण्डुलाः सन्ति ।
भोजनशालायां शाकानि सन्ति ।
भोजनशालायां अग्निः अस्ति ।
भोजनशालायां जलम् अस्ति ।
७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ।
(क) अमितः गृहात् बहिः गच्छति ।
उत्तरम्: - बहिः
(ख) एकः वानरः वृक्षस्य उपरि
तिष्ठति ।
उत्तरम्: - उपरि
(ग) सः फलानि अधः क्षिपति ।
उत्तरम्: - अधः
(घ) तत्र एकः बिडालः अस्ति ।
उत्तरम्: - तत्र
(ङ) बिडालः गृहस्य अन्तः प्रविशति
।
उत्तरम्: - अन्तः
८. उदाहरणानुसारं कः कुत्र अस्ति? कुत्र नास्ति ? इति लिखन्तु ।
यथा –
उत्तरम्: -
१. सिंहः वने अस्ति । सिंहः कार्यालये नास्ति ।
२. छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति ।
३. मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।
४. मधुरता लड्डुके अस्ति । मधुरता कषाये नास्ति ।
५. उष्णता सूर्ये अस्ति । उष्णता चन्द्रे नास्ति ।
६. वानरः नद्यां नास्ति । वानरः वृक्षे अस्ति ।
७. नौका जले अस्ति । नौका पर्वते नास्ति ।
८. अज्ञानं पण्डिते नास्ति । अज्ञानं मूर्खे अस्ति ।
९. चन्द्रः अमावस्यायां नास्ति । चन्द्रः पूर्णिमायां अस्ति ।
१०. अवकाशः सोमवासरे नास्ति । अवकाशः रविवासरे अस्ति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें