Advertisement

07 - अतिथिदेवो भव

संस्कृत-अभ्यास-कार्यम् (उत्तर-पत्रिका)
✍️ अभ्यास प्रश्न (संस्कृत-उत्तर-पत्रिका)
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु :
प्रश्नः उत्तरम्
(क) राधिका कथं चलति स्म ? कूर्दमाना ।
(ख) गृहे कति अतिथयः सन्ति ? पञ्च ।
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ? राधिकाम् ।
(घ) मार्जार्याः कति शावकाः ? चत्वारः ।
(ङ) राधिका मार्जार्ये किं ददाति ? क्षीरं / दुग्धम् ।
(च) चित्रवर्णः कः अस्ति ? शबलः ।
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु :
(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम् - मार्जारीशावकानां नामानि सन्ति - तन्वी, मृद्वी, शबलः, भीमः च इति ।
(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम् - राधिका मार्जारीशावकान् – ‘अतिथि देवो भव’ पाठयति ।
(ग) विशिष्टाः अतिथयः के ?
उत्तरम् - मार्जारी चत्वारः शावकाः च विशिष्टाः अतिथयः सन्ति ।
(घ) पितामही राधिकां किं वदति ?
उत्तरम् - पितामही राधिकां वदति – राधिके ! अतिथयः कदा आगच्छति इति न जानीमः ।
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम् - यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं – मन्दं पृष्ठतः आगच्छति ।
(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?
उत्तरम् - तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला | शबलः चित्रवर्णः तथा भीमः किञ्चित् स्थूलः सन्ति ।
३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखन्तु : (यथा - लेखनी अत्र अस्ति । ➔ लेखनी कुत्र अस्ति ?)
(क) वृक्षः तत्र अस्ति । वृक्षः कुत्र अस्ति ?
(ख) देवालयः अन्यत्र अस्ति । देवालयः कुत्र अस्ति ?
(ग) वायुः सर्वत्र अस्ति । वायुः कुत्र अस्ति ?
(घ) बालकाः एकत्र तिष्ठन्ति । बालकाः कुत्र तिष्ठन्ति ?
(ङ) माता अत्र अस्ति । माता कुत्र अस्ति ?
४. उत्पीठिकायां किम् अस्ति? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु :
उत्पीठिकायाः चित्रम्
१. उत्पीठिकायां सङ्गणकम् अस्ति ।
२. उत्पीठिकायां लेखनी नास्ति ।
३. उत्पीठिकायां कन्दुकम् अस्ति ।
४. उत्पीठिकायां वृक्षः नास्ति ।
५. उत्पीठिकायां घटी नास्ति ।
६. उत्पीठिकायां फलम् नास्ति ।
७. उत्पीठिकायां चषकः नास्ति ।
८. उत्पीठिकायां कूपी अस्ति ।
९. उत्पीठिकायां स्यूतः अस्ति ।
१०. उत्पीठिकायां पुस्तकम् अस्ति ।
५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु :
रेखाचित्रम् - कुत्र?
वाक्यानि – अत्र
1. छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।
2. काकः कुत्र अस्ति ? काकः अत्र अस्ति ।
3. दीपकः कुत्र अस्ति ? दीपकः अत्र अस्ति ।
4. घटः कुत्र अस्ति ? घटः अत्र अस्ति ।
5. सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति ।
6. शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।
7. बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।
8. लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति ।
9. माला कुत्र अस्ति ? माला अत्र अस्ति ।
तत्र
10. विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।
11. गायकः कुत्र अस्ति ? गायकः तत्र अस्ति ।
12. घटी कुत्र अस्ति ? घटी तत्र अस्ति ।
13. फलम् कुत्र अस्ति ? फलम् तत्र अस्ति ।
14. गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति ।
15. वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।
16. हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।
17. अजः कुत्र अस्ति ? अजः तत्र अस्ति ।
18. मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति ।
सर्वत्र
19. प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।
20. परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।
21. ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति ।
22. आकाशः कुत्र अस्ति ? आकाशः सर्वत्र अस्ति ।
23. अणवः कुत्र सन्ति ? अणवः सर्वत्र सन्ति ।
24. प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।
25. पुष्पाणि कुत्र सन्ति ? पुष्पाणि सर्वत्र सन्ति ।
26. वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति ।
27. प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति ।
एकत्र
28. बालकौ कुत्र स्तः ? बालकौ एकत्र स्तः ।
29. मयूरौ कुत्र स्तः ? मयूरौ एकत्र स्तः ।
30. मित्रौ कुत्र स्तः ? मित्रौ एकत्र स्तः ।
31. पुत्रौ कुत्र स्तः ? पुत्रौ एकत्र स्तः ।
32. महिलाः कुत्र सन्ति ? महिलाः एकत्र सन्ति ।
33. सेविकाः कुत्र सन्ति ? सेविकाः एकत्र सन्ति ।
34. चटकाः कुत्र सन्ति ? चटकाः एकत्र सन्ति ।
35. दोला कुत्र अस्ति ? दोला एकत्र अस्ति ।
६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु :
१. भोजनशालायां पाचकः अस्ति ।
२. भोजनशालायां पात्रम् अस्ति ।
३. भोजनशालायां तण्डुलाः सन्ति ।
४. भोजनशालायां शाकानि सन्ति ।
५. भोजनशालायां अग्निः अस्ति ।
६. भोजनशालायां जलम् अस्ति ।
७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु :
(क) अमितः गृहात् बहिः गच्छति । उत्तरम् : बहिः
(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति । उत्तरम् : उपरि
(ग) सः फलानि अधः क्षिपति । उत्तरम् : अधः
(घ) तत्र एकः बिडालः अस्ति । उत्तरम् : तत्र
(ङ) बिडालः गृहस्य अन्तः प्रविशति । उत्तरम् : अन्तः
८. उदाहरणानुसारं कः कुत्र अस्ति? कुत्र नास्ति ? इति लिखन्तु :
तालिका - कः कुत्र अस्ति? कुत्र नास्ति?
१. सिंहः वने अस्ति । सिंहः कार्यालये नास्ति ।
२. छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति ।
३. मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।
४. मधुरता लड्डुके अस्ति । मधुरता कषाये नास्ति ।
५. उष्णता सूर्ये अस्ति । उष्णता चन्द्रे नास्ति ।
६. वानरः नद्यां नास्ति । वानरः वृक्षे अस्ति ।
७. नौका जले अस्ति । नौका पर्वते नास्ति ।
८. अज्ञानं पण्डिते नास्ति । अज्ञानं मूर्खे अस्ति ।
९. चन्द्रः अमावस्यायां नास्ति । चन्द्रः पूर्णिमायां अस्ति ।
१०. अवकाशः सोमवासरे नास्ति । अवकाशः रविवासरे अस्ति ।
Advertisement