01 - सङ्गच्छध्वं संवदध्वम्

अभ्यासः प्रश्नः –

१.  छात्र स्वयं करे |

२.  अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -

(क) सर्वेषां मनः कीदृशं भवेत्

उत्तर - सर्वेषां मनः समानं भवेत् 

(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः

उत्तर - सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः अस्ति यत् सर्वे मिलित्वा चलन्तु परस्परं च 

            वार्तालापं कुर्वन्तु ।

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः

उत्तर - सर्वे भेदभावं परित्यज्य ऐक्यभावेन जीवेयुः ।

(घ) अस्मिन् पाठे का प्रेरणा अस्ति

उत्तर – अस्मिन् पाठे एकतायाः, सद्भावस्य च प्रेरणा अस्ति ।

 

३.  रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति। 

उत्तर – परमेश्वरः कुत्र व्याप्तः अस्ति?

(ख) वयम् ईश्वरं नमामः । 

उत्तर – वयम् कं नमामः?

(ग) वयम् ऐक्यभावेन जीवामः । 

उत्तर – वयम् कथं जीवामः?

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते। 

उत्तर – कस्य प्रार्थनया शान्तिः प्राप्यते?
(ङ) अहं समाजाय श्रमं करोमि । 

उत्तर – अहं कस्मै श्रमं करोमि?

(च) अयं पाठः ऋग्वेदात् सङ्कलितः । 

उत्तर – अयं पाठः कुतः सङ्कलितः?

(छ) वेदस्य अपरं नाम श्रुतिः । 

उत्तर – वेदस्य अपरं नाम किम् अस्ति?

(ज) मन्त्राः वेदेषु भवन्ति । 

उत्तर – मन्त्राः केषु भवन्ति?

 

४.  पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत –

   (संवदध्वम्, समितिः, आकूतिः, भागं, मनः, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि |)

(क) सङ्गच्छध्वं ...................... सं वो .......................... जानताम् ।

देवा ...................... यथा पूर्वे सं .............................. उपासते ।

उत्तर – (क) सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम् ।

  देवा भागं यथा पूर्वे सं जानाना उपासते । |

        

(ख) समानो मन्त्रः ....................... समानी समानं ........................ सह चित्तमेषाम् ।

      ............................. मन्त्रमभिमन्त्रये वः समानेन वो ........................... जुहोमि ।

     उत्तर – (ख) समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।

           समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि । |

 

 

(ग) समानी व ............................ समाना .......................... वः ।

     समानमस्तु वो ......................... यथा वः .......................... ।

       उत्तर –  (ग) समानी व आकूतिः समाना हृदयानि वः ।

             समानमस्तु वो मनो यथा वः सुसहासति । |

 

५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत -

उत्तर –        (क) संगछध्वम्           -        मिलित्वा चलत

(ख) संवदध्वम्          -        एकस्वरेण वदत

(ग) मनः                  -        सङ्कल्पः

(घ) उपासते              -        सेवन्ते

(ङ) वसूनि                -        धनानि

(च) विश्वानि               -        समस्तानि

(छ) आकूतिः             -        चित्तम्

 

६. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-

         यथा- बालिकाः नृत्यन्ति    -       बालिकाः नृत्यन्तु   

उत्तर – (क) बालकाः हसन्ति          -        बालकाः हसन्तु

 (ख) युवां तत्र गच्छथः        -        युवां तत्र गच्छतम्

 (ग) यूयं धावथ                 -        यूयं धावत

 (घ) आवां लिखावः            -        आवां लिखाव

             (ङ) वयं पठामः                -        वयं पठाम 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

01 - सङ्गच्छध्वं संवदध्वम्

अभ्यासः प्रश्नः – १.  छात्र स्वयं करे | २.   अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत - ( क) सर्वेषां मनः कीदृशं भवेत् ?  ...