Advertisement

01 - सङ्गच्छध्वं संवदध्वम्

संस्कृत अभ्यास प्रश्न-पत्र 📜

📜 संस्कृत अभ्यास प्रश्न-पत्र 📜

१. अभ्यासः प्रश्नः -

➡ छात्र स्वयं करे।

२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -

(क) सर्वेषां मनः कीदृशं भवेत्?
उत्तरम्: सर्वेषां मनः समानं भवेत् ।

(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?
उत्तरम्: सर्वे मिलित्वा चलन्तु परस्परं च वार्तालापं कुर्वन्तु ।

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः?
उत्तरम्: सर्वे भेदभावं परित्यज्य ऐक्यभावेन जीवेयुः ।

(घ) अस्मिन् पाठे का प्रेरणा अस्ति?
उत्तरम्: अस्मिन् पाठे एकतायाः, सद्भावस्य च प्रेरणा अस्ति ।

३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
उत्तरम्: क: सर्वत्र व्याप्तः अस्ति?

(ख) वयम् ईश्वरं नमामः ।
उत्तरम्: वयम् कं नमामः?

(ग) वयम् ऐक्यभावेन जीवामः ।
उत्तरम्: वयम् कथं जीवामः?

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।
उत्तरम्: कस्य प्रार्थनया शान्तिः प्राप्यते?

(ङ) अहं समाजाय श्रमं करोमि ।
उत्तरम्: अहं कस्मै श्रमं करोमि?

(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।
उत्तरम्: अयं पाठः कुतः सङ्कलितः?

(छ) वेदस्य अपरं नाम श्रुतिः ।
उत्तरम्: कस्य अपरं नाम श्रुति:?

(ज) मन्त्राः वेदेषु भवन्ति ।
उत्तरम्: मन्त्राः केषु भवन्ति?

४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत -

(क) सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सं जानाना उपासते ।

(ख) समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।

(ग) समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति

५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत -
शब्दः भावानुसारं मेलनम्
(क) संगछध्वम्मिलित्वा चलत
(ख) संवदध्वम्एकस्वरेण वदत
(ग) मनःसङ्कल्पः
(घ) उपासतेसेवन्ते
(ङ) वसूनिधनानि
(च) विश्वानिसमस्तानि
(छ) आकूतिःचित्तम्
६. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत -

(यथा- बालिकाः नृत्यन्ति ➡ बालिकाः नृत्यन्तु)

लट्‍-लकारः (Present) लोट्‍-लकारः (Imperative/Order)
(क) बालकाः हसन्तिबालकाः हसन्तु
(ख) युवां तत्र गच्छथःयुवां तत्र गच्छतम्
(ग) यूयं धावथयूयं धावत
(घ) आवां लिखावःआवां लिखाव
(ङ) वयं पठामःवयं पठाम
Advertisement