Advertisement

02 - एषः कः ? एषा का ? एतत् किम् ?

संस्कृत अभ्यासः प्रश्नोत्तराणि

संस्कृत अभ्यासः प्रश्नोत्तराणि 📖

भाग - 1 (प्रश्नाः 1-3) 🔹
1. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु।
यथा - बालकः | बालकौ | बालकाः
उत्तर -
चषकः | चषकौ | चषकाः
देवः | देवौ | देवाः
सैनिकः | सैनिकौ | सैनिकाः
रजकः | रजकौ | रजकाः
तन्त्रज्ञः | तन्त्रज्ञौ | तन्त्रज्ञाः
2. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्तस्थानेषु संयोजयन्तु।

(शुकः, स्यूतः, अजा, फलम्, पुष्पम्, महिषी, वृक्षः, कुक्कुरः, पार्वती, पुस्तकम्)

यथा – सः शुकः।
उत्तर -
पुंलिङ्गम् (सः): सः स्यूतः | सः वृक्षः | सः कुक्कुरः
स्त्रीलिङ्गम् (सा): सा महिषी | सा अजा | सा पार्वती
नपुंसकलिङ्गम् (तत्): तत् पुस्तकम् | तत् फलम् | तत् पुष्पम्
3. चित्राणि दृष्टवा संस्कृतपदानि लिखन्तु।
चित्र
उत्तर -
(क) पुस्तकम्
(ख) बालकौ
(ग) सैनिकः
(घ) वातायनम्
(ङ) गायिका
(च) त्रिशूलम्
भाग - 2 (प्रश्नाः 4-6) 🔸
4. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्तस्थानेषु लिखन्तु।

(बालकाः, वृक्षाः, शिक्षिकाः, पुष्पम्, फलम्, अजाः, मापिकाः, गायिकाः, रजकः, फलानि, सः, लेखनी)

एकवचनम् 🎯 बहुवचनम् 📚
पुष्पम् (यथा)बालकाः (यथा)
सःवृक्षाः
फलम्शिक्षिकाः
गायिकाअजाः
रजकःमापिकाः
लेखनीफलानि
5. पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचिते घटे पूरयन्तु।

(सैनिकः, कुक्कुरः, गायिकाः, महिषी, जलम्, चषकः, द्वारम्, फलम्, वृद्धा, वृक्षः, अजा, वातायनम्, अङ्कनी, पुस्तकम्, शुकः)

एषः (पुंलिङ्गम्) 👨 एषा (स्त्रीलिङ्गम्) 👩 एतत् (नपुंसकलिङ्गम्) 🏢
सैनिकःगायिकाजलम्
कुक्कुरःमहिषीद्वारम्
चषकःवृद्धाफलम्
वृक्षःअजावातायनम्
शुकःअङ्कनीपुस्तकम्
6. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु।
यथा - सा का ? - सा पाठशाला।
उत्तर -
• सः कः ? - सः बिडालः। | तौ कौ ? - तौ युवकौ। | ते के ? - ते छात्राः।
• सा का ? - सा माला। | ते के ? - ते लेखन्यौ। | ताः काः ? - ताः मालाः।
• तत् किम् ? - तत् मुखम्। | ते के ? - ते कमले। | तानि कानि ? - तानि भवनानि।
भाग - 3 (प्रश्नाः 7-9) 🔹
7. निमन्लिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु।
यथा – सः गजः। - सः कः ?
उत्तर -
(क) सः बालकः। ➔ सः कः ?
(ख) सा लता। ➔ सा का ?
(ग) सा नदी। ➔ सा का ?
(घ) तत् फलम्। ➔ तत् किम् ?
(ङ) सः वृक्षः। ➔ सः कः ?
8. परस्परं संबद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च।
उत्तर -
(क) कमलम् ➔ कमलं विकसति।
(ख) लेखकः ➔ लेखकः लिखति।
(ग) फलम् ➔ फलम् पतति।
(घ) नर्तकः ➔ नर्तकः नृत्यति।
(ङ) चालकः ➔ चालकः चालयति।
(च) गायिका ➔ गायिका गायति।
9. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्तु।
यथा - कः / का लिखति ? ➔ लेखकः लिखति | छात्रः लिखति | सा लिखति
(क) कः / का धावति ? (बालकः, बालिका, शुनकः)
➔ बालकः धावति | बालिका धावति | शुनकः धावति

(ख) कः / का पठति ? (सुरेशः, जानकी, नलिनी)
➔ सुरेशः पठति | जानकी पठति | नलिनी पठति

(ग) किं पतति ? (फलम्, जलम्, कुसुमम्)
➔ फलम् पतति | जलम् पतति | कुसुमम् पतति

(घ) का / कः गच्छति ? (शिक्षिका, बालिका, तन्त्रज्ञः)
➔ शिक्षिका गच्छति | बालिका गच्छति | तन्त्रज्ञः गच्छति
Advertisement