Advertisement

02 - नित्यं पिबामः सुभाषितरसम्

सुभाषितानि - अभ्यास प्रश्न-पत्र 📜

📜 अभ्यास प्रश्न-पत्र: सुभाषितानि 📜

१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु -
क्र.सं. प्रश्नः उत्तरम्
(क)नरः कतिभिः वकारैः पूजितः भवति?षड्भिः
(ख)पुरुषेण कति दोषाः हातव्याः?षट्
(ग)बुद्धिः केन शुध्यति?ज्ञानेन
(घ)जलबिन्दुनिपातेन क्रमशः कः पूर्यते?घटः
(ङ)आलस्यं केषां महान् रिपुः अस्ति?मनुष्याणाम्
२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -

(क) नरः कथं पूजितो भवति?
उत्तरम्: नरः विद्या, वाणी, विनय, वपुः, वित्तं, वेशः इति षड्भिः वकारैः पूजितो भवति।

(ख) पुरुषेण के दोषाः हातव्याः?
उत्तरम्: पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षट् दोषाः हातव्याः।

(ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तरम्: सत्सङ्गेन मनुष्यस्य बुद्धिः विस्तारिता भवति।

(घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तरम्: उद्यमेन कार्यं कृत्वा मनुष्यः नावसीदति।

(ङ) व्यासस्य वचनद्वयं किम्?
उत्तरम्: व्यासस्य वचनद्वयं परोपकारः पुण्याय, पापाय परपीड़नम् इति अस्ति।

३. उदाहरनानुसारं श्लोकांशान् यथोचितं योजयन्तु -
पूर्वभागः उत्तरभागः (सही मेल)
(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः ।।
(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छतानिद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।
(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।विद्यातपोभ्यां भूतात्मा बुद्धिज्ञानेन शुध्यति ।।
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥
(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
४. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु –

(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति ।
श्लोकांशः: प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः |

(ख) परिश्रमेण तुल्यः बान्धवः नास्ति ।
श्लोकांशः: नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति |

(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति ।
श्लोकांशः: परोपकारः पुण्याय पापाय परपीडनम् |

(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम् ।
श्लोकांशः: उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र संततिः ||

५. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु -

(यथा – वपुः – शरीरम्)

पदम् पर्यायपदम्
(क) जलम्वारि (या जलम्)
(ख) लोचनम्नेत्रम्
(ग) धनम्वित्तम्
(घ) बुद्धिःमतिः
(ङ) रिपुःशत्रुः
६. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु -
एकवचनम् द्विवचनम् बहुवचनम्
सुधाखण्डेनसुधाखण्डाभ्याम्सुधाखण्डैः
वृक्षेणवृक्षाभ्याम्वृक्षैः
लतयालताभ्याम्लताभिः
देशेनदेशाभ्याम्देशैः
पुण्येनपुण्याभ्याम्पुण्यैः
विनयेनविनयाभ्याम्विनयैः
७. सुभाषित पूरयन्तु (भाग १)

उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र संततिः ॥

७. सुभाषित पूरयन्तु (भाग २)

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता ॥

८. रिक्तस्थानम् (मुख्य श्लोकांश)

• आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः
• मधुरं वचने का दरिद्रता
• यः पठति लिखति पृच्छति च।

Advertisement