Advertisement

05 - सेवा हि परमो धर्मः

NCERT संस्कृत - अभ्यासः प्रश्नोत्तर

NCERT संस्कृत - अभ्यास कार्यम् 📜

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु -

1. कः प्रसिद्धः चिकित्सकः आसीत् ?
उत्तरम्: नागार्जुनः ।

2. अन्यस्मिन् दिवसे कौ आगतौ ?
उत्तरम्: द्वौ युवकौ ।

3. कः खिन्नः आसीत् ?
उत्तरम्: द्वितीयः युवकः ।

4. रुग्णस्य परिस्थितिः कथम् आसीत् ?
उत्तरम्: शोचनीया ।

5. नागार्जुनः सहायक रूपेण कं चितवान् ?
उत्तरम्: द्वितीयं युवकम् ।

6. कां विना चिकित्सकः न भवति ?
उत्तरम्: सेवाभावनाम् ।

7. नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?
उत्तरम्: राजमार्गेण ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु -

1. अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
उत्तरम्: नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म ।

2. नागार्जुनः महाराजं किं निवेदितवान् ?
उत्तरम्: नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति ।

3. प्रथमः युवकः कथं कार्यं कृतवान् ?
उत्तरम्: प्रथमः युवकः औषधनिर्माणार्थं रसायनं नागार्जनाय दत्तवान्, तस्मै किमपि कष्टं न अभवत् ।

4. द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?
उत्तरम्: द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीत्वा तस्य सेवां कृतवान् ।

5. सेवायाः भावनां विना किं न भवेत् ?
उत्तरम्: सेवायाः भावनां विना चिकित्सकः न भवेत् ।

प्रश्न 3. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग रूपाणि लिखन्तु -
पदम् एकवचनम् (स्त्रीलिङ्ग) बहुवचनम् (स्त्रीलिङ्ग)
गतवान्गतवतीगतवत्यः
लिखितवान्लिखितवतीलिखितवत्यः
खादितवान्खादितवतीखादितवत्यः
क्रीडितवान्क्रीडितवतीक्रीडितवत्यः
हसितवान्हसितवतीहसितवत्यः
निवेदितवान्निवेदितवतीनिवेदितवत्यः
सूचितवान्सूचितवतीसूचितवत्यः
प्रश्न 4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंल्लिङ्ग रूपाणि लिखन्तु -
पदम् एकवचनम् (पुंल्लिङ्ग) बहुवचनम् (पुंल्लिङ्ग)
पठितवतीपठितवान्पठितवन्तः
कृतवतीकृतवान्कृतवन्तः
दृष्टवतीदृष्टवान्दृष्टवन्तः
दत्तवतीदत्तवान्दत्तवन्तः
प्रक्षालितवतीप्रक्षालितवान्प्रक्षालितवन्तः
धावितवतीधावितवान्धावितवन्तः
प्रश्न 5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु (क्तवतु-प्रत्ययस्य प्रयोगः) -

(क) युवकः आपणं गच्छति । ➡ युवकः आपणं गतवान् ।
(ख) सः रोटिकां खादति । ➡ सः रोटिकां खादितवान् ।
(ग) महिला वस्त्रं ददाति । ➡ महिला वस्त्रं दत्तवती ।
(घ) बालकः द्विचक्रिकातः पतति । ➡ बालकः द्विचक्रिकातः पतितवान् ।
(ङ) पितामही चलचित्रं पश्यति । ➡ पितामही चलचित्रं दृष्टवती ।
(च) अहं गृहपाठं लिखामि । ➡ अहं गृहपाठं लिखितवान् / लिखितवती ।
(छ) त्वं कुत्र गच्छसि ? ➡ त्वं कुत्र गतवान् / गतवती ?
(ज) अश्वाः वने धावन्ति । ➡ अश्वाः वने धावितवन्तः ।
(झ) बालिकाः शीघ्रम् आगच्छन्ति । ➡ बालिकाः शीघ्रम् आगतवत्यः ।
(ञ) वयं समुद्र तीरे पयोहिमं खादामः । ➡ वयं समुद्र तीरे पयोहिमं खादितवन्तः / खादितवत्यः ।

प्रश्न 6. 'स्म' इति अव्ययपदस्य उपयोगेन अनुच्छेदः -

शीर्षकम्: आदर्शः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म । जलसेचनं करोति स्म । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः 'अहं कृषकः भूमिपुत्रः' इति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः" इति ।

Advertisement