Advertisement

06 - क्रीडाम वयं श्लोकान्त्याक्षरीम्

✍️ अभ्यास कार्यम्
1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु :
प्रश्नः उत्तरम्
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ? निर्गन्धाः
(ख) धीमतां कालः कथं गच्छति ? काव्यशास्त्रविनोदेन
(ग) केषां कालः निद्रया कलहेन वा गच्छति ? मूर्खाणाम्
(घ) खलस्य विद्या किमर्थम् ? विवादाय
(ङ) सज्जनस्य विद्या किमर्थम् ? ज्ञानाय
(च) चन्द्रः केषां भूषणम् अस्ति ? ताराणाम्
(छ) सर्वधनप्रधानं किम् ? विद्याधनम्
२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु :
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ?
उत्तरम् - निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते ।
(ख) मूर्खाणां कालः कथं गच्छति ?
उत्तरम् - मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन वा गच्छति ।
(ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति ?
उत्तरम् - दुर्जनः विद्यायाः उपयोगं विवादाय, धनस्य उपयोगं मदाय, शक्तेः उपयोगं परेषाम् पीडनाय च करोति ।
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?
उत्तरम् - ये मनुष्याः न विद्यां, न तपो, न दानं, न ज्ञानं, न शीलं, न गुणं, न धर्मं च जानन्ति, ते भुवि भारभूताः भवन्ति ।
(ङ) शनैः शनैः कानि साधनीयानि ?
उत्तरम् - शनैः शनैः विद्या, वित्तं, गिरिषु आरोहणं, पञ्चैतानि च साधनीयानि ।
३. उचितान् वाक्यांशान् परस्परं संयोजयन्तु :
(क) तदा वृत्तिश्च कीर्तिश्च यदा विद्या भवेत्तव
(ख) खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय
(ग) शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः
(घ) विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः
(ङ) न चोरहार्यं न च राजहार्यम् न भातृभाज्यं न च भारकारि
(च) विद्या राजसु पूज्यते न हि धनम्
(छ) अतो धर्मार्थमोक्षेभ्यः विद्याभ्यासं समाचरेत्
४. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु :
(क) राजा पृथिव्याः भूषणं भवति । राजा कस्याः भूषणं भवति ?
(ख) साधोः विद्या ज्ञानाय भवति । कस्य विद्या ज्ञानाय भवति ?
(ग) विद्या गुरूणां गुरुः । विद्या केषाम् गुरुः ?
(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति । ते मर्त्यलोके भुवि कीदृशाः भवन्ति ?
(ङ) विद्याहीनाः न शोभन्ते । के न शोभन्ते ?
(च) सर्वस्य लोचनं शास्त्रम् । सर्वस्य लोचनं किम् ?
(छ) विद्या राजसु पूज्यते । का राजसु पूज्यते ?
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । केन कालो गच्छति धीमताम् ?
५. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु :
मञ्जूषा: (रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय)
सज्जनस्य दुर्जनस्य
शक्तिः - रक्षणाय शक्तिः - परिपीडनाय
विद्या - ज्ञानाय विद्या - विवादाय
धनम् - दानाय धनम् - मदाय
६. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु :

यथा – ताराणाम् ➔ षष्ठी विभक्तिः, बहुवचनम्

पदम् विभक्तिः वचनम्
(क) विद्याम् द्वितीया विभक्तिः एकवचनम्
(ख) धनस्य षष्ठी विभक्तिः एकवचनम्
(ग) कलहेन तृतीया विभक्तिः एकवचनम्
(घ) नराणाम् षष्ठी विभक्तिः बहुवचनम्
(ङ) मर्त्यलोके सप्तमी विभक्तिः एकवचनम्
(च) ज्ञानाय चतुर्थी विभक्तिः एकवचनम्
(छ) राजसु सप्तमी विभक्तिः बहुवचनम्
Advertisement