Advertisement

08 - हितं मनोहारि च दुर्लभं वचः

अभ्यास प्रश्न (उत्तर-पत्रिका)
✍️ अभ्यास प्रश्न (उत्तर-पत्रिका)
१. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च :
वाक्यम् उत्तरम्
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म: ?आम्
(ख) किं रत्नम् अन्विष्यति ?
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति ?आम्
(घ) किं शरीरम् आद्यं धर्मसाधनम् ?आम्
(ङ) किं गुणानां सर्वदा एव आदरः भवति ?आम्
(च) किं क्रियाशीलः एव विद्वान् भवति ?आम्
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि ?
(ज) यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति ?
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु :
(क) आद्यं धर्मसाधनं किम् ?
उत्तरम् - शरीरम्
(ख) कीदृशं वचः मा ब्रूहि ?
उत्तरम् - दीनम्
(ग) श्रेष्ठम् आभूषणं किम् अस्ति ?
उत्तरम् - शीलम्
(घ) सर्वेषां मनुष्याणां माता का अस्ति ?
उत्तरम् - पृथ्वी
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ?
उत्तरम् - ग्राहकाः
३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु :
(क) कः विद्वान् अस्ति?
उत्तरम् - अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण च एव मनुष्यः वास्तविकः विद्वान् भवति न तु केवलम् अध्ययनेन एव ।
(ख) गुणिषु पूजास्थानं किम् ?
उत्तरम् - गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।
(ग) कः विद्यां न प्राप्नोति ?
उत्तरम् - यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।
(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत् ?
उत्तरम् - मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः कुर्यात्, एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव धनस्य संग्रहं कर्तुम् अपि निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात् ।
(ङ) कीदृशं वचनं दुर्लभम् ?
उत्तरम् - तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।
४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु :
(क) शीलं परं भूषणम् । किं परं भूषणम् ?
(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति । मनुष्यः कस्याः सन्तानः अस्ति ?
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम् । केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?
(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति । हितकारकं मनोहारि च किम् दुर्लभं भवति ?
५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु :
प्रथमः भागः उचितमेलजम् (उत्तरम्)
(क) क्षणशः कणशः साधयेत्विद्याम् अर्थं च
(ख) सर्वश्रेष्ठम् आभूषणम्शीलम्
(ग) रत्नं न अन्विष्यति, तत्मृग्यते
(घ) आद्यं धर्मसाधनम्शरीरम्
(ङ) हितकारकं मनोहारि च वचःदुर्लभम्
(च) पूजास्थानम्गुणाः
६. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु :
(क) सुतः ➔ पुत्रः
(ख) प्रथमम् ➔ आद्यम्
(ग) धनम् ➔ अर्थम्
(घ) अवस्था ➔ वयः
(ङ) वचनम् ➔ वचः
(च) आचरणम् ➔ शीलम्
७. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु :
(क) माता भूमिः पुत्रोऽहं पृथिव्याः षष्ठी विभक्तिः
(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः । सप्तमी विभक्तिः
(ग) शीलं परं भूषणम् । प्रथमा विभक्तिः
(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् । द्वितीया विभक्तिः
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् । प्रथमा विभक्तिः
(च) हितं मनोहारि च दुर्लभं वचः प्रथमा विभक्तिः
८. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु :
(क) न रत्नं अन्विष्यति । न रत्नम् अन्विष्यति ।
(ख) शरीरं आद्यं खलु धर्मसाधनम् । शरीरम् आद्यं खलु धर्मसाधनम् ।
(ग) वयं अद्यतनं पाठं पठामः । वयम् अद्यतनं पाठं पठामः ।
(घ) त्वं अस्माकं गृहं आगच्छ । त्वम् अस्माकं गृहम् आगच्छ ।
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि । अहम् एकं प्रश्नं प्रष्टुम् इच्छामि ।
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु । गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।
Advertisement