📚 अभ्यासः प्रश्नः – विजयतां स्वदेशः 📚
1. अधः प्रदत्तानां प्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) प्रतापः कां रक्षितम् असमर्थः आसीत् ?
उत्तर – मातृभूमिम्
उत्तर – मातृभूमिम्
(ख) कः दीर्घं निःश्वसिति ?
उत्तर – महाराणाप्रतापः
उत्तर – महाराणाप्रतापः
(ग) प्रतापं निराशं दृष्ट्वा के दुःखीयन्ति ?
उत्तर – भिल्लाः
उत्तर – भिल्लाः
(घ) सैनिकः स्वचक्षुषा किं द्रष्टुं न शक्रोति ?
उत्तर – स्वदेशदुर्दशाम्
उत्तर – स्वदेशदुर्दशाम्
(ङ) कीदृशे देशे जीवनं नरकायते ?
उत्तर – परतन्त्रे
उत्तर – परतन्त्रे
(च) आत्मघातिनो जनाः कीदृशान् लोकान् व्रजन्ति ?
उत्तर – असूर्यान्
उत्तर – असूर्यान्
(छ) धनराशिं कः आनयति ?
उत्तर – भामाशाहः
उत्तर – भामाशाहः
2. पूर्णवाक्येन उत्तराणि लिखत -
(क) प्रतापः किं श्रुत्वा लज्जाम् अनुभवति ?
उत्तर – प्रतापः जयघोषं श्रुत्वा लज्जाम् अनुभवति |
उत्तर – प्रतापः जयघोषं श्रुत्वा लज्जाम् अनुभवति |
(ख) कैः देशस्य उपकारः क्रियते ?
उत्तर – वीरैः धीरैः देशस्य उपकारः क्रियते |
उत्तर – वीरैः धीरैः देशस्य उपकारः क्रियते |
(ग) स्वतन्त्रतायाः उपायाः कथं चिन्तनीयाः ?
उत्तर – स्वतन्त्रतायाः उपायाः धैर्येण चिन्तनीयाः |
उत्तर – स्वतन्त्रतायाः उपायाः धैर्येण चिन्तनीयाः |
(घ) प्रतापः किमर्थं पर्याकुलः आसीत् ?
उत्तर – प्रतापः धनसेनयोः अभावे देशरक्षणाय पर्याकुलः आसीत् |
उत्तर – प्रतापः धनसेनयोः अभावे देशरक्षणाय पर्याकुलः आसीत् |
(ङ) परतन्त्रतायाः शृङ्खलाः कथं त्रोटनीयाः ?
उत्तर – परतन्त्रतायाः शृङ्खलाः स्वकीयैः लौहबाहुभिः त्रोटनीयाः |
उत्तर – परतन्त्रतायाः शृङ्खलाः स्वकीयैः लौहबाहुभिः त्रोटनीयाः |
(च) किं किं धन्यम् ?
उत्तर – राणा धन्यः, मन्त्री धन्यः, द्वयोः मेलनं धन्यम्, वयं सर्वे धन्याः, समयः धन्यः पुण्यं दर्शनं च धन्यम् अस्ति |
उत्तर – राणा धन्यः, मन्त्री धन्यः, द्वयोः मेलनं धन्यम्, वयं सर्वे धन्याः, समयः धन्यः पुण्यं दर्शनं च धन्यम् अस्ति |
3. अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) विचारमग्नः महाराणाप्रतापः शिलायाम् उपविष्टः आसीत्।
उत्तर – कुत्र
उत्तर – कुत्र
(ख) सर्वे भटाः देशरक्षायै बद्धपरिकराः आसन्।
उत्तर – कस्यै
उत्तर – कस्यै
(ग) भिल्लाः मातृभूमेः दुर्दशां नैव द्रष्टुं शक्नुवन्ति ।
उत्तर – कस्याः
उत्तर – कस्याः
(घ) भामाशाहः धनराशिम् आदाय आगच्छति ।
उत्तर – कः
उत्तर – कः
(ङ) परतन्त्रे देशे जीवनं नरकायते ।
उत्तर – कीदृशे
उत्तर – कीदृशे
(च) वीरगत्या मरणमेव कल्याणप्रदं भवति।
उत्तर – कया
उत्तर – कया
4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'सहचराः तस्य आकृतिं दृष्ट्वा व्याकुलाः भवन्ति।' अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर – सहचराः
उत्तर – सहचराः
(ख) 'अयि भ्रातः ! कथं जयघोषं कृत्वा मां लज्जयसे।' अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर – लज्जयसे
उत्तर – लज्जयसे
(ग) 'हा धिक् कीदृशः समयः आगतः।' अस्मात् वाक्यात् 'कीदृशः' इति पदस्य विशेष्यं चिनुत ।
उत्तर – समयः
उत्तर – समयः
(घ) 'न क्वापि बन्धो! गन्तुमपि न शक्यते।' अस्मिन् वाक्ये 'कुत्र' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर – क्व
उत्तर – क्व
(ङ) 'परतन्त्रे देशे जीवनं नरकायते।' अस्मात् वाक्यात् 'स्वतन्त्रे' पदस्य विलोमपदं चिनुत।
उत्तर – परतन्त्रे
उत्तर – परतन्त्रे
(च) 'मदीयेन एव खङ्गेन जहि माम्' अत्र 'खङ्गेन' पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तर – मदीयेन
उत्तर – मदीयेन
5. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत -
| पदम् | विलोमपदम् (उत्तरम्) |
|---|---|
| (क) धन्यम् | अधन्यम् |
| (ख) दयालुः | निष्ठुरः |
| (ग) प्रसीदति | दुःखीयति |
| (घ) आत्मरक्षाम् | आत्मघातम् |
| (ङ) परकीयैः | स्वकीयैः |
| (च) मदीया | त्वदीया |
| (छ) याति | आयाति |
6. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत -
(क) देशभक्तः प्रतापः |
(ख) मेवाडमन्त्री भामाशाहः |
(ग) सङ्कटापन्ने काले |
(घ) मदीयेन खङ्गेन |
(ङ) अटवीवासिनः शिक्षा |
(च) असूर्यान् लोकान् |
(छ) स्वकीयैः लौहबाहुभिः |
7. अधः दत्तानां वाक्यानां समक्षं वक्तारं श्रोतारं च निर्दिशत -
| वाक्यानि | वक्ता | श्रोता |
|---|---|---|
| (क) विजयतां महाराजः । | राजपुत्रः | प्रतापः |
| (ख) कथं मां लज्जयसे ? | प्रतापः | राजपुत्रः |
| (ग) स्वामिभाग्यानाम् अनुगन्तारो वयम् । | भटः | प्रतापः |
| (घ) मदीयेनैव खङ्गेन जहि माम् । | एकः सैनिकः | प्रतापः |
| (ङ) नाहं दत्तां सम्पत्तिं पुनः आददामि । | प्रतापः | भामाशाहः |
| (च) गृह्यताम् भगवन् । देशं धर्म च रक्षितुम् । | भामाशाहः | प्रतापः |
8. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत -
| वाक्यानि | भावः (उत्तरम्) |
|---|---|
| (क) अलं मम एतेन जीवितेन। | निराशा |
| (ख) वीरैः धीरैः बहु उपकृतं देशस्य। | धैर्यम् |
| (ग) आत्मघातिनो जनास्तु असूर्यान् लोकान् व्रजन्ति। | ग्लानिः |
| (घ) त्रोट्यतां पारतन्त्र्यशृङ्खला स्वकीयैः बाहुभिः। | ओजः |
| (ङ) धैर्येण स्वतन्त्रतायाः उपायाः चिन्तनीयाः । | उत्साहः |
9. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत -
1. महाराणा प्रतापः अरण्ये विचारमग्नः शिलायाम् उपविष्टः अस्ति।
2. सः सेनायाः भोजनसामग्रयाः अभावेन खिन्नः अस्ति।
3. अधुना सः स्वकीयैः प्राणैरेव स्वदेशं स्वतन्त्रं कर्तुम् इच्छति।
4. सहचराः महाराणाप्रतापस्य एतादृशीं स्थितिं दृष्ट्वा व्याकुलाः भवन्ति।
5. तदैव कश्चित् मेवाडराजपुत्रः तत्र प्रविशति ।
6. सः राजपुत्रः महाराणाप्रतापस्य जयघोषं करोति।
7. जयघोषं श्रुत्वा प्रतापः कथयति-अयि भ्रातः ! कथं जयघोषं कृत्वा मां लज्जयसे इति।
8. तदा राजपुत्रः वदति - स्वदेशं स्वाधीनं कर्तुं भवता किं न सोढम् ? विजेष्यते ननु भवान्।