📚 अभ्यासः प्रश्नः – विद्यया भान्ति सद्गुणाः 📚
1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) पाटलिपुत्रनामधेयं नगरं कुत्रास्ति ?
उत्तर – भागीरथीतीरे
उत्तर – भागीरथीतीरे
(ख) पाटलिपुत्रनगरस्य राजा कः आसीत् ?
उत्तर – सुदर्शनः
उत्तर – सुदर्शनः
(ग) सर्वस्य लोचनं किं भवति ?
उत्तर – शास्त्रम्
उत्तर – शास्त्रम्
(घ) हंसमध्ये कः न शोभते ?
उत्तर – बकः
उत्तर – बकः
(ङ) किं विहाय पुरुषार्थः विधेयः ?
उत्तर – आलस्यम्
उत्तर – आलस्यम्
(च) कः राजपुत्रान् शिक्षयितुं स्वीकृतवान् ?
उत्तर – विष्णुशर्मा
उत्तर – विष्णुशर्मा
(छ) महद्भिः सुप्रतिष्ठितः देवत्वं कः याति ?
उत्तर – अश्मा
उत्तर – अश्मा
2. अधोलिखितानां प्रश्नानामुत्तराणि पूर्णवाक्येन लिखत -
(क) पाटलिपुत्रे कीदृशः नरपतिः आसीत् ?
उत्तर – पाटलिपुत्रे सर्वगुणोपेतः सुदर्शनः नाम नरपतिः आसीत् |
उत्तर – पाटलिपुत्रे सर्वगुणोपेतः सुदर्शनः नाम नरपतिः आसीत् |
(ख) शास्त्रं किं करोति ?
उत्तर – शास्त्रम् अनेकसंशयानां छेदनं करोति |
उत्तर – शास्त्रम् अनेकसंशयानां छेदनं करोति |
(ग) के के अनर्थाय भवन्ति ?
उत्तर – यौवनं धनसम्पत्तिः प्रभुत्वम् अविवेकता च अनर्थाय भवन्ति |
उत्तर – यौवनं धनसम्पत्तिः प्रभुत्वम् अविवेकता च अनर्थाय भवन्ति |
(घ) विष्णुशर्मा तान् कथं शिक्षितान् अकरोत् ?
उत्तर – विष्णुशर्मा तान् पशु-पक्षी-जन्तूनां मनोरंजककथाभिः शिक्षितान् अकरोत् |
उत्तर – विष्णुशर्मा तान् पशु-पक्षी-जन्तूनां मनोरंजककथाभिः शिक्षितान् अकरोत् |
(ङ) कस्य जन्म सफल विद्यते ?
उत्तर – येन जातेन वंशः समुन्नतिं याति तस्य जन्म सफलं विद्यते |
उत्तर – येन जातेन वंशः समुन्नतिं याति तस्य जन्म सफलं विद्यते |
(च) कीटः कथं सतां शिरः आरोहति ?
उत्तर – कीटः सुमनः सङ्गात् सतां शिरः आरोहति |
उत्तर – कीटः सुमनः सङ्गात् सतां शिरः आरोहति |
(छ) राजाः निजपुत्रान् विष्णुशर्मणः करे कथं समर्पितवान् ?
उत्तर – राजाः निजपुत्रान् विष्णुशर्मणः करे बहुमानपुरः सरं समर्पितवान् |
उत्तर – राजाः निजपुत्रान् विष्णुशर्मणः करे बहुमानपुरः सरं समर्पितवान् |
3. अधोलिखितेषु वाक्येषु स्थूलपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
(क) अविवेकता अपि अनर्थाय।
उत्तर – का
उत्तर – का
(ख) राजा पुत्राणाम् आचारहीनतया उद्विग्नमनाः आसीत्।
उत्तर – केषाम्
उत्तर – केषाम्
(ग) एकः चन्द्रः तमः हन्ति ।
उत्तर – किम्
उत्तर – किम्
(घ) विद्याहीनाः पुत्राः न शोभन्ते।
उत्तर – कीदृशाः
उत्तर – कीदृशाः
(ङ) राजा पण्डितसभां कारितवान् ।
उत्तर – काम्
उत्तर – काम्
(च) हितोपदेशः नीतिकथानां सङ्कलनमेव।
उत्तर – कः
उत्तर – कः
(छ) विद्यया बालकस्य पुर्नजन्म भवति।
उत्तर – कया
उत्तर – कया
4. अधोलिखितप्रश्नान यथानिर्देशम् उत्तरत -
(क) 'तत् कथम् इदानीम् एते मम पुत्राः गुणवन्तः क्रियन्ताम्।' अस्मिन् वाक्ये 'पुत्राः' इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तर – गुणवन्तः
उत्तर – गुणवन्तः
(ख) 'अत्र तु दैवम् कारणमिति न उचितम्' अस्मिन् वाक्ये 'भाग्यम्' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर – दैवम्
उत्तर – दैवम्
(ग) 'तत्र सर्वस्वामिगुणोपेतः सुदर्शनः नाम नरपतिः आसीत्।' अस्मिन् वाक्ये किं क्रियापदम् अस्ति ?
उत्तर – आसीत्
उत्तर – आसीत्
(घ) 'अत्रान्तरे विष्णुशर्मा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञः बृहस्पतिः इव अवदत्।' अत्र 'अवदत्' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर – विष्णुशर्मा
उत्तर – विष्णुशर्मा
(ङ) 'एकश्चन्द्रस्तमो हन्ति।' अस्मिन् वाक्ये एकः इति पदस्य किं विशेषणपदम् प्रयुक्तम् ?
उत्तर – चन्द्रः
उत्तर – चन्द्रः
5. अधोलिखितशब्दानां पर्यायद्वयं प्रदत्तशब्देभ्यः चित्वा लिखत -
(क) भागीरथी - गङ्गा, जाह्नवी
(ख) नरपतिः - भूपतिः, नृपः
(ग) लोचनम् - नयनम्, अक्षि
(घ) चन्द्रः - हिमकरः, निशापतिः
(ङ) सुमनम् - प्रसूनम्, पुष्पम्
6. अधोलिखितपदानां समक्षं तद्विपरीतार्थकं पदं लिखत -
| मूल शब्दः | विपरीतार्थकं पदम् (उत्तरम्) |
|---|---|
| यौवनम् | वार्धक्यम् |
| (क) समुन्नतिम् | (iii) अवनतिम् |
| (ख) अनधिगतशास्त्राः | (v) अधिगतशास्त्राः |
| (ग) उन्मार्गगामिनः | (i) सुमार्गगामिनः |
| (घ) तमः | (ii) ज्योतिः |
| (ङ) विद्वान् | (vi) मूर्खः |
| (च) शत्रुः | (iv) मित्रम् |
7. अधोलिखितपङ्क्त्योः आशयेषु शुद्धम् आशयम् चिनुत -
(क) स जातो येन जातेन याति वंशः समुन्नतिम् ।
उत्तर – (iii) यस्य गुणैः कर्मभिः च वंशः सर्वविधाम् उन्नतिं करोति ।
उत्तर – (iii) यस्य गुणैः कर्मभिः च वंशः सर्वविधाम् उन्नतिं करोति ।
(ख) अस्ति कश्चित् नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ?
उत्तर – (i) अत्र कः एवम्भूतः विद्वान् यः नीतिशिक्षया मूर्खान् पुत्रान् व्यवहारे निपुणान् कर्तुं शक्रोति ?
उत्तर – (i) अत्र कः एवम्भूतः विद्वान् यः नीतिशिक्षया मूर्खान् पुत्रान् व्यवहारे निपुणान् कर्तुं शक्रोति ?
8. अधोदत्ते अन्वये उचितकर्तृपदाभ्यां रिक्तस्थानपूर्ति कुरुत -
कीटः अपि सुमनःसङ्गात् सतां शिरः आरोहति, महद्धिः सुप्रतिष्ठितः अश्मा अपि देवत्वं याति ।
9. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत -
1. भागीरथी तीरे पाटलिपुत्रनामधेयं नगरम् आसीत् ।
2. पाटलिपुत्रे सुदर्शनः नाम सर्वगुणोपतः राजा आसीत् ।
3. राज्ञः पुत्राः अनधिगतशास्त्राः नित्यमुन्मार्गगामिनः आचारहीनाश्च आसन् ।
4. राजा पण्डितसभां कारितवान् ।
5. भोः भोः पण्डिताः । किं कश्चित् विद्वान् अस्ति यः मम पुत्रान् शिक्षयितुं समर्थः ।
6. विष्णुशर्मा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञः बृहस्पतिः इव आसीत् ।
7. राजा निजपुत्रान् विष्णुशर्मणः करे समर्पितवान् ।