अभ्यासः प्रश्नः – कवयामि वयामि यामि
1. एकपदेन उत्तरं लिखत -
(क) भोजराजः कस्य राज्यस्य नरेशः आसीत् ?
उत्तर – धारानगर्याः |
(ख) कः विद्वान् राजदर्शनार्थं समायातः ?
उत्तर – लक्ष्मीधरः |
(ग) लक्ष्मीधरेण कस्मै आशीर्वादः दीयते ?
उत्तर – भोजराजाय |
(घ) यत्र जलपूर्ण सरः भवति, तत्र के आगच्छन्ति ?
उत्तर – पक्षिणः |
(ङ) लक्ष्मीधरः किं समाकर्ण्य धरानगरीम् आगच्छति ?
उत्तर – विद्यानुरागं दानशीलतां च |
(च) निवासव्यवस्थायै मन्त्री कम् आदिशति ?
उत्तर – नगरपालम् |
(छ) भोजराजेन स्वराज्यात् कस्य निःसारणादेशः कृतः ?
उत्तर – अशिक्षितजनस्य |
2. पूर्णवाक्येन अधोलिखितप्रश्नानामुत्तराणि संस्कृतेन लिखत -
(क) लक्ष्मीधरेण कः आशीर्वादः राज्ञे प्रदत्तः ?
उत्तर – दिनकरदीप्तिरिव भवत्कीर्तिः दिक्षु प्रसारम् आप्नोतु | वर्धन्तां विभवाः सौख्यानि च | लसन्तु सम्पदः, विलयं व्रजन्तु च विपदः | प्रतिष्ठां लभतां विद्वद्गणः | सततम् एधतां विद्यासु कलासु च भवदनुरागः | इति आशीर्वादः लक्ष्मीधरेण राज्ञे प्रदत्तः |
(ख) लक्ष्मीधरः कस्य गृहे वासयितव्यः आसीत् ?
उत्तर – नगरे कृतनिवासम् अपठितं जनं निःसार्य तद्गृहे लक्ष्मीधरः वासयितव्यः |
(ग) तन्तुवायः केन जीविकाम् अर्जयति स्म ?
उत्तर - तन्तुवायः तन्तुवयनेन जीविकाम् अर्जयति स्म |
(घ) तन्तुवायेन यत्पद्यं रचयित्वा श्रावितं तस्य प्रथमां पङ्क्तिं लिखत ।
उत्तर – काव्यं करोमि नहि चारुतरं करोमि |
(ङ) यावद् अपरा व्यवस्था न भवति तावत् लक्ष्मीधरः कुत्र वासयितव्यः आसीत् ?
उत्तर - यावद् अपरा व्यवस्था न भवति तावत् लक्ष्मीधरः राजभवने वासयितव्यः आसीत् |
(च) तन्तुवायस्य पदयोजना कीदृशी आसीत् ?
उत्तर - तन्तुवायस्य पदयोजना लालित्यपूर्णा आसीत् |
(छ) भोजराजः सन्तुष्टो भूत्वा के प्रशंसति ?
उत्तर - भोजराजः सन्तुष्टो भूत्वा तन्तुवायं प्रशंसति |
3. स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) लक्ष्मीधरः द्वारपालेन सह प्रविशति।
उत्तर – केन
(ख) यत्र जलपूर्णं सरः भवति तत्र पक्षिणः स्वयं समायान्ति ।
उत्तर – के
(ग) अहं त्रुटितान् तन्तून् संयोजयामि।
उत्तर – कीदृशान्
(घ) तन्तुवायेन गुरुकुले शिक्षा गृहीता।
उत्तर – कुत्र
(ङ) राजा तन्तुवायाय स्वर्णमुद्राः अर्पयति।
उत्तर – कस्मै
4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'दिनकरदीप्तिरिव भवकीर्तिः दिक्षु प्रसारम् आप्नोतु।' अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर – आप्नोतु |
(ख) 'तत्र पक्षिणः स्वयं समायान्ति।' अत्र 'समायान्ति' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर – पक्षिणः |
(ग) 'महाराज! आनीतोऽयं कुविन्दः ।' अस्मिन् वाक्ये 'आनीतः' इति विशेषणपदस्य किं विशेष्यपदं प्रयुक्तम् ?
उत्तर – कुविन्दः |
(घ) 'यावद् अपरा व्यवस्था न भवति।' अस्मात् वाक्यात् विशेषणपदं चित्वा लिखत।
उत्तर – अपरा |
(ङ) 'झटिति आगच्छ मया साकम्।' अस्मात् वाक्यात् 'सह' इति पदस्य पर्यायपदं चिनुत ।
उत्तर – साकम् |
(च) 'तन्तुवायः राजानम् अभिवाद्य गृहं प्रयाति' अस्मिन् वाक्ये 'आयाति' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
उत्तर – प्रयाति |
5. कथानकक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखत -
(क) तन्तुवायः तन्तुवयनेन जीविकाम् अर्जयति स्म।
(ख) तन्तुवायः महाकवितुल्यः न आसीत्।
(ग) राजाभोजः मन्त्रिणं लक्ष्मीधरस्य आवासव्यवस्थायै आदिशति ।
(घ) एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति।
(ङ) भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति।
(च) नगरपालः नगरे कमपि निरक्षरं मूर्ख वा जनं न अपश्यत्।
(छ) भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति।
(ज) वस्तुतः तन्तुवायः अपि कविः आसीत्।
(झ) नगरपालः तन्तुवायं राजसभां नयति।
(ञ) राजा तन्तुवायस्य पदयोजनां प्रशंसति ।
उत्तर –
(घ) एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति।
(ङ) भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति।
(ग) राजाभोजः मन्त्रिणं लक्ष्मीधरस्य आवासव्यवस्थायै आदिशति ।
(च) नगरपालः नगरे कमपि निरक्षरं मूर्ख वा जनं न अपश्यत्।
(छ) भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति।
(क) तन्तुवायः तन्तुवयनेन जीविकाम् अर्जयति स्म।
(झ) नगरपालः तन्तुवायं राजसभां नयति।
(ख) तन्तुवायः महाकवितुल्यः न आसीत्।
(ज) वस्तुतः तन्तुवायः अपि कविः आसीत्।
(ञ) राजा तन्तुवायस्य पदयोजनां प्रशंसति ।
6. पर्यायवाचिनां मेलनं कृत्वा लिखत-
(क) अमात्यः (i) कुविन्दः
(ख) तन्तुवायः (ii) त्वरितम्
(ग) विद्वान् (iii) मन्त्री
(घ) झटिति (iv) पण्डितः
उत्तर -
(क) अमात्यः (iii) मन्त्री
(ख) तन्तुवायः (i) कुविन्दः
(ग) विद्वान् (iv) पण्डितः
(घ) झटिति (ii) त्वरितम्
7. अधोलिखितानां पदानां विपरीतार्थकान् शब्दान् पाठात् चित्वा लिखत-
(क) गत्वा
(ख) मूर्खः
(ग) निरक्षरः
(घ) निष्क्रम्य
(ङ) सम्पदः
उत्तर –
(क) गत्वा - प्रविश्य
(ख) मूर्खः - विद्वान्
(ग) निरक्षरः - पठितः
(घ) निष्क्रम्य - प्रविश्य
(ङ) सम्पदः - विपदः
8. अधस्तात् दत्तानि वाक्यानि केन के प्रति उक्तानि-
(क) ममैतत् सौभाग्यं यद् भवादृशाः विद्वांसः मम पण्डितपरिषदं विभूषयेयुः ।
(ख) अभिवादये भवन्तम्। दिनकरदीप्तिरिव, भवत्कीर्तिः दिक्षु प्रसारम् आप्नोतु।
(ग) राजन् ! यत्र जलपूर्ण सरः भवति तत्र पक्षिणः स्वयं समायान्ति ।
(घ) समस्ते नगरे भ्रान्त्वा कमपि निरक्षरं मूर्ख वा जनम् न अपश्यम् ।
(ङ) त्वं भूयः नगरं याहि।
(च) महाशय! अहं त्रुटितान् तन्तून संयोजयामि।
(छ) आम् ! मया गुरुकुले शिक्षा गृहीता।
(ज) राजा भोजः आत्मानं धन्यं मन्यते ।
(झ) दयस्त्र, मयि दयस्व।
(ञ) नगरपालं समाहूय आदिश्यताम्।
उत्तर -
केन कम्
(क) भोजराजेन लक्ष्मीधरम्
(ख) लक्ष्मीधरम् भोजराजम्
(ग) लक्ष्मीधरम् भोजराजम्
(घ) नगरपालेन भोजराजम्
(ङ) भोजराजेन नगरपालम्
(च) तन्तुवायेन नगरपालम्
(छ) तन्तुवायेन नगरपालम्
(ज) भोजराजेन तन्तुवायम्
(झ) तन्तुवायेन नगरपालम्
(ञ) भोजराजेन मन्त्रिणम्
0 टिप्पणियाँ