Advertisement

6_तत् त्वम् असि

अभ्यासः प्रश्नः – तत् त्वम् असि

⚡ अभ्यासः प्रश्नः – तत् त्वम् असि ⚡

1. एकपदेन संस्कृतभाषया उत्तरत -
(क) श्वेतकेतुः कस्य पुत्रः आसीत् ?
उत्तर – आरुणेः
(ख) श्वेतकेतुः कम् उपेत्य वेदान् अपठत् ?
उत्तर – आचार्यम्
(ग) पिता केन तत्त्वज्ञानं प्रतिपादयति ?
उत्तर – दृष्टान्तेन
(घ) आरुणिः श्वेतकेतुं किम् आनेतुम् आदिशत् ?
उत्तर – न्यग्रोधफलम्
(ङ) श्वेतकेतुः न्यग्रोधफले किम् अपश्यत् ?
उत्तर – बीजानि
(च) स्थूलं जगत् कस्माद् उद्भवति ?
उत्तर – अणिम्नः
(छ) पिता न्योगोधफलस्य दृष्टान्तेन किं प्रतिपादयति ?
उत्तर – तत्त्वज्ञानम्
2. पूर्णवाक्येन संस्कृतभाषया उत्तरत -
(क) श्वेतकेतुः विद्या प्राप्यं किम् अमन्यत ?
उत्तर – श्वेतकेतुः विद्या प्राप्यं अमन्यत यत् – “अहं सर्वश्रेष्ठः |”
(ख) आरुणिः श्वेतकेतुं कं प्रश्नम् अपृच्छत् ?
उत्तर – आरुणिः श्वेतकेतुं प्रश्नम् अपृच्छत् यत् – जानासि किं तत, येन श्रुतेन अन्यत् अश्रुतम् अपि श्रुतं भवति, अमतं मतम्, अविज्ञातं च विज्ञातं भवति इति |
(ग) सर्वेषु देहेषु कः अस्ति यः अजरः अमरश्च ?
उत्तर – सर्वेषु देहेषु ‘आत्मा’ अस्ति यः अजरः अमरश्च |
(घ) वस्तुतः वटबीजे कः तिष्ठति ?
उत्तर – वटबीजे महान् स्थूलः शाखादिमान् न्यग्रोधः वटः उत्पन्नः सन् तिष्ठति |
(ङ) जगति किं सत् अस्ति ?
उत्तर – जगति ‘आत्मा’ एव सत् अस्ति |
3. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत -
(क) आरुणिः श्वेतकेतोः पिता आसीत्।
उत्तर – कस्य
(ख) श्वेतकेतुः आचार्यम् उपेत्य वेदान् अपठत्।
उत्तर – कम्
(ग) द्वादशवर्षीयं तं पुत्रम् आरुणिः उवाच।
उत्तर – कः
(घ) श्वेतकेतुः वेदान् आधीत्य आगच्छत्।
उत्तर – कान्
(ङ) विद्यां प्राप्य स आत्मानं सर्वश्रेष्ठम् अमन्यत ।
उत्तर – कं
(च) उद्धतस्वभावः स पितुः सकाशम् आगच्छत्।
उत्तर – कस्य
(छ) पिता दृष्टान्तेन तत्त्वज्ञानं प्रतिपादयति ।
उत्तर – किम्
(ज) श्वेतकेतुः न्यग्रोधस्य फलम् आहरति ।
उत्तर – कस्य
(झ) श्वेतकेतुः फले बीजानि पश्यति।
उत्तर – कस्मिन्
4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'त्वं कुलाननुरूपम् उद्धतः असि'। अत्र 'असि' इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर – त्वम्
(ख) 'अणिम्नः स्थूलं जगद् उद्भवति'। वाक्येऽस्मिन् विशेषणपदं किं प्रयुक्तम् ?
उत्तर – स्थूलम्
(ग) 'गुरुं प्रति गच्छ अध्ययनार्थम्'। अत्र क्रियापदं किम् ?
उत्तर – गच्छ
(घ) 'समीपम्' इति पदस्य किं पर्यायपदं पाठे प्रयुक्तम् ?
उत्तर – सकाशम्
(ङ) 'सूक्ष्मः' इति पदस्य विलोमपदं पाठात् चित्वा लिखत।
उत्तर – स्थूलः
5. अधोलिखितवाक्यानि कथाक्रमानुसारं पुस्तिकायां लिखत -
  1. श्वेतकेतुः गुरोः सकाशाद् वेदान् अपठत्।
  2. वेदान् अधीत्य श्वेतकेतुः अमन्यत-अहं श्रेष्ठः अस्मि ।
  3. आरुणिः श्वेतकेतुः वटफलम् आनेतुम् अकथयत्।
  4. आरुणिः पुत्रं वटबीजस्य अन्तः द्रुष्टम् अकथयत्।
  5. आरुणिः श्वेतकेतुम् आत्मनः विषये उपादिशत्।
  6. आत्मज्ञानेन सर्वम् अविज्ञातं ज्ञातं भवति।
  7. वस्तुतः जगति आत्मा एव सत्।
6. शब्दानाम् अर्थः सह मेलनं कृत्वा लिखत -
शब्दः अर्थः (उत्तरम्)
(क) अधीत्यपठित्वा
(ख) आहरआनय
(ग) भिन्धिभेदनं कुरु
(घ) अणिम्नःसूक्ष्मात्
(ङ) उपेत्यसमीपं गत्वा
7. पाठात् चित्वा विपरीतार्थान् लिखत -
पदम् विलोमपदम् (उत्तरम्)
यथा - अनुरूपम्अननुरूपम्
(क) अधीत्यअनधीत्य
(ख) श्रुतम्अश्रुतम्
(ग) मतम्अमतम्
(घ) विज्ञातम्अविज्ञातम्
(ङ) दूरम्सकाशम्
Advertisement