Advertisement

2_पाथेयम्

अभ्यासः प्रश्नः – पाथेयम् (संस्कृतम्)

📚 अभ्यासः प्रश्नः – पाथेयम् 📚

1. संस्कृतभाषया एकपदेन उत्तराणि लिखत -
(क) पृथिव्यां कति रत्नानि ?
उत्तर – त्रीणि
(ख) केषाम् उद्गमैः तरवः नसाः भवन्ति ?
उत्तर – फलानाम्
(ग) के समृद्धिभिः अपि अनुद्धताः भवन्ति ?
उत्तर – सत्पुरुषाः
(घ) परं भूषणं किम् ?
उत्तर – शीलम्
(ङ) पयोदाः कैः भूरिविलम्बिनः जायन्ते ?
उत्तर – नवाम्बुभिः
(च) कः कल्पितमेव जनयति ?
उत्तर – कल्पतरुः
(छ) कस्मिन् परितुष्टे दरिद्र धनिकयोः भेदः नश्यति ?
उत्तर – मनसि
2. पूर्णवाक्येन संस्कृतभाषया उत्तराणि लिखत -
(क) गौरवं कथं प्राप्यते ?
उत्तर – गौरवं दानात् प्राप्यते |
(ख) परोपकारिणां स्वभावः कीदृशः वर्तते ?
उत्तर – परोपकारिणां स्वभावः नम्रः वर्तते |
(ग) शोकः किं किं नाशयति ?
उत्तर – शोकः धैर्यं, श्रुतं, सर्वं च नाशयति |
(घ) दरिद्रः कः भवति ?
उत्तर – यस्य तृष्णा विशाला सः दरिद्रः भवति |
(ङ) कस्य किं विभूषणम् ? त्रीणि उदाहरणानि लिखत।
उत्तर – ऐश्वर्यस्य विभूषणं सुजनता, शौर्यस्य विभूषणं वाक्संयमः, ज्ञानस्य च विभूषणम् उपशमः भवति |
(च) कः सर्वं प्रसूते ?
उत्तर – सतां सङ्गः सर्वं प्रसूते |
(छ) कीदृशी भूमिः तोयं ददाति ?
उत्तर – खन्यमाना भूमिः तोयं ददाति |
3. अधोलिखितवाक्येषु स्थूलाक्षरपदानि आधृत्य प्रश्नान् रचयत -
(क) मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
उत्तर – कुत्र / केषु
(ख) सद्धिः लीलया प्रोक्तं शिलालिखितमक्षरम्।
उत्तर – कैः
(ग) मध्यमानात् काष्ठात् अग्निर्जायते ।
उत्तर – कीदृशात्
(घ) वैनतेयः अगच्छन् एकं पदं न गच्छति।
उत्तर – कः
(ङ) ऐश्वर्यस्य विभूषणं सुजनता।
उत्तर – कस्य
(च) उत्साहवर्ता किञ्चिद् असाध्यं नास्ति ।
उत्तर – केषां
(छ) शोकः धैर्यं नाशयति।
उत्तर – किम्
(ज) महान् भवितुं सत्सङ्गतिः अपेक्षिता।
उत्तर – का
4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'गच्छन् पिपीलको याति योजनानां शतान्यपि' अस्मिन् 'पिपीलकः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?
उत्तर – याति
(ख) 'नास्ति शोकसमो रिपुः' अस्मिन् वाक्ये 'मित्रम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
उत्तर – रिपुः
(ग) 'मार्गारब्धाः सर्वयत्नाः फलन्ति' अस्मिन् वाक्ये किं कर्तृपदं प्रयुक्तम् ?
उत्तर – सर्वयत्नाः
(घ) 'स तु भवति दरिद्रो यस्य तृष्णा विशाला' अस्मिन् वाक्ये 'विशाला' इति पदस्य किं विशेष्यपदं प्रयुक्तम् ?
उत्तर – तृष्णा
(ङ) 'भूमिस्तोयं खन्यमाना ददाति' अत्र किं विशेषणपदं वर्तते ?
उत्तर – खन्यमाना
(च) 'स्थितिरुच्चैः पयोदानां पयोधीनामथः स्थितिः' अस्मिन् वाक्ये 'मेघानाम्' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर – पयोदानाम्
5. स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां समुचितमेलनं कृत्वा लिखत -
अ-स्तम्भः ब-स्तम्भः (उत्तरम्)
(क) अर्थवान्(iii) दरिद्रः
(ख) उच्चैः(i) अधः
(ग) तृष्णा(ii) परितोषः
(घ) सज्जनः(v) दुर्जनः
(ङ) वल्कलैः(vii) दुकूलैः
(च) शोकः(vi) हर्षः
(छ) रिपुः(iv) मित्रम्
6. अधोलिखितेषु द्वे शुद्धे पर्यायपदे चित्वा लिखत -
(क) तरुः - वृक्षः, महीरुहः
उत्तर – वृक्षः, महीरुहः
(ख) पयोदः - मेषः, वारिदः
उत्तर – मेषः, वारिदः
(ग) पयोधिः - उदधिः, जलधिः
उत्तर – उदधिः, जलधिः
(घ) आपः - जलम्, वारि
उत्तर – जलम्, वारि
(ङ) भूमिः - पृथ्वी, वसुन्धरा
उत्तर – पृथ्वी, वसुन्धरा
7. अधोलिखितेषु सूक्तेः शुद्धम् अर्थ चिनुत -
(क) सद्धिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्।
उत्तर – (iii) सज्जनाः यत् किञ्चित् सामान्येन अपि कथयन्ति तत् पाषाणे लिखितम् इव भवति।
(ख) मार्गारब्धाः सर्वयत्नाः फलन्ति ।
उत्तर – (ii) ताः एव चेष्टाः फलदायिकाः भवन्ति याः उचितमार्गे सोददेश्यं प्रारभ्यन्ते ।
(ग) अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति।
उत्तर – (iii) तीव्रगामी अपि गरुडः यदि न चलति तर्हि एकं पदमपि न सरति ।
8. भावानां समक्षं तेन भावेन सम्बद्धां पङ्क्ति लिखत -
भावः श्लोकपङ्क्तिः
दानम्गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात् ।
(क) उत्साहःसोत्साहानां नास्त्यसाध्यं नराणाम् |
(ख) सन्तोषःवयमिह परितुष्टाः वल्कलैस्त्वं दुकूलैः |
(ग) क्षमाक्षमा बलवतां भूषणम् |
(घ) सत्सङ्गतिःसतां हि सङ्गः सकलं प्रसूते |
(ङ) परोपकारःस्वभाव एवैष परोपकारिणाम् |
(च) शीलम्सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् |
9. समुचितपदैः रिक्तस्थानानि पूरयत -
(क) अनुद्धताः सत्पुरुषाः समृद्धिभिः।
(ख) पृथिव्यां त्रीणि रत्नानि जलम्, अन्नम् सुभाषितम्।
(ग) सोत्साहानां नराणां नास्ति असाध्यम् |
(घ) नास्ति शोकसमः रिपुः।
(ङ) स्थितिरुच्यैः पयोदानाम् अधः स्थितिः पयोधीनाम् |
(च) वयमिह परितुष्टाः वल्कलैः त्वम् दुकूलैः |
(छ) सद्धिः लीलया प्रोक्तं शिलालिखितमक्षरम् |
10. अधोलिखितम् अन्वयं पूरयत -
तरवः फलाद्गमैः नम्राः भवन्ति, नवाम्बुभिः घनाः भूरिविलम्बिनः (भवन्ति), सत्पुरुषाः समृद्धिभिः अनुद्धताः (भवन्ति), परोपकारिणाम् एष एव स्वभावः (भवति) ।
Advertisement