Advertisement

7_तरवे नमोऽस्तु

अभ्यासः प्रश्नः – तरवे नमोऽस्तु

🌿 अभ्यासः प्रश्नः – तरवे नमोऽस्तु 🌿

1. संस्कृतभाषया एकपदेन उत्तरं लिखत -
(क) सत्पुरुषाः इव के सन्ति ?
उत्तर – वृक्षाः
(ख) अर्थिनः केभ्यो निराशाः न यान्ति ?
उत्तर – वृक्षेभ्यः
(ग) वृक्षः कस्य सुखस्य हेतोः सर्वमर्पयति ?
उत्तर – अन्यस्य
(घ) आम्रः जनानाम् अतितापं कया दलयति ?
उत्तर – छायया
(ङ) कस्य तरोः कटुता दाहहन्त्री ?
उत्तर – निम्बवृक्षस्य
(च) चन्दनस्य शाखा: कैराश्रिताः ?
उत्तर – विहङ्गैः
(छ) कस्य मूलं भुजङ्गः आश्रितम् ?
उत्तर – चन्दनपादपस्य
2. संस्कृतभाषया पूर्णवाक्येन उत्तरं लिखत -
(क) वृक्षाः परेभ्यः किं कुर्वन्ति ?
उत्तर – वृक्षाः परेभ्यः छायां कुर्वन्ति |
(ख) महीरुहाः किमर्थं धन्याः ?
उत्तर – महीरुहेभ्यः अर्थिनः निराशाः न यान्ति | अतः ते धन्याः |
(ग) तरवः कैः साधनैः अपरेषां कामान् वितन्वते ?
उत्तर – पत्र–पुष्प-फल-छाया-मूल-वल्कलदारुभिः गन्ध-निर्यास-भस्म-अस्थि-तोक्मैः तरवः अपरेषां कामान् वितन्वते |
(घ) चन्दनपादस्य विविधानि अङ्गानि कै: आश्रितानि ?
उत्तर – चन्दनपादपस्य मूलं भुजङ्गैः, शिखरं प्लवङ्गैः, कुसुमानि च भृङ्गैः आश्रितानि |
(ङ) मूढमनुजाः किं गायन्ति ?
उत्तर – मूढमनुजाः निम्बवृक्षस्य दोषगाथाः गायन्ति |
(च) वृक्षः अन्यसुखस्य हेतोः किं धत्ते ?
उत्तर – वृक्षः अन्यसुखस्य हेतोः कुसुमपत्रफलावलिनां भरं धत्ते |
3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) वृक्षाणां फलानि अपि परार्थाय भवन्ति ।
उत्तर – वृक्षाणां फलानि अपि कस्मै भवन्ति ?
(ख) तरवः स्वविभूतिभिः सर्वेषां कामान् पूरयन्ति ।
उत्तर – तरवः स्वविभूतिभिः केषां कामान् पूरयन्ति ?
(ग) चन्दनपादपः समन्तात् सत्त्वैः आश्रितः वर्तते ।
उत्तर – चन्दनपादपः समन्तात् कैः आश्रितः वर्तते ?
(घ) वृक्षाः स्वयम् आतपे तिष्ठन्ति ।
उत्तर – वृक्षाः स्वयम् कुत्र तिष्ठन्ति ?
(ङ) चन्दनस्य मूलं भुजङ्गैः आश्रितम् ।
उत्तर – चन्दनस्य मूलं कैः आश्रितम् ?
(च) तरवे नमः अस्तु ।
उत्तर – कस्मै नमः अस्तु ?
(छ) महारुहेभ्यः अर्थिनः निराशाः न यान्ति ।
उत्तर – महारुहेभ्यः के निराशाः न यान्ति ?
4. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'धन्या महीरुहा वेभ्यो निराशा यान्ति नार्थिनः।' अस्मिन् वाक्ये कर्तृपदं किम् ?
उत्तर – अर्थिनः |
(ख) 'गायन्तु मूढमनुजास्तव दोषगाथाः' अस्मिन् वाक्ये 'मूढमनुजाः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?
उत्तर – गायन्तु |
(ग) 'निम्ब ! त्वदीय-कटुता यदि दाहहन्त्री।' अस्मिन् वाक्ये 'मधुरता' इति पदस्य किं विलोमपदं प्रयुक्तम् अस्ति ?
उत्तर – कटुता |
(घ) 'अहो! एषां वरं जन्म सर्वप्राण्युपजीवनम्।' अस्मिन् वाक्ये 'वरम्' इति पदस्य किं विशेष्यपदं प्रयुक्तम् अस्ति ?
उत्तर – जन्म |
(ङ) पाठात् 'याचकाः' इति पदस्य पर्यायपदं चित्वा लिखत ।
उत्तर – अर्थिनः |
5. समुचितान् विपर्ययान् चित्वा लिखत -
पदम् विपर्ययः (उत्तरम्)
(क) कटुता(v) मधुरता
(ख) दोषगाथाः(i) गुणगाथाः
(ग) जन्म(iv) मरणम्
(घ) आतपः(ii) छाया
(ङ) निराशा(iii) आशा
6. कोष्ठकात् शुद्धम् अर्थं चित्वा लिखत -
(क) धर्मः - आतपः
(ख) दारुभिः - काष्टैः
(ग) महीरुहाः - वृक्षाः
(घ) समन्तात् - सर्वतः
(ङ) प्लवङ्गः - वानरैः
7. अधोलिखितस्य श्लोकस्य शीर्षकं मेलनं च -
(अ) श्लोकस्य शीर्षकं चिनुत:
(i) आश्रयदाता चन्दनपादपः
(आ) 'कैः किम् आश्रितम्' इति विचार्य समुचितमेलनम्:
प्राणी आश्रितम् (उत्तरम्)
(क) भुजङ्गः(ii) मूलम्
(ख) प्लवङ्गः(iii) शिखरम्
(ग) विहङ्गः(iv) शाखाः
(घ) भृङ्गः(i) कुसुमानि
8. कथनमाधृत्य वृक्षस्य नाम लिखत -
यथा - अहं छायारहितः सन्नपि मधुरफलैः सर्वान् तर्पयामि ।
उत्तर – खजूरवृक्षः
(क) मम कटुता दाहहन्त्री परं पित्तत्तापान् दूरीकरोमि ।
उत्तर – निम्बवृक्षः
(ख) वसन्ते प्राप्ते पुष्प-सौरभ फलप्रचुराः मे शाखाः सन्ति ।
उत्तर – आम्रवृक्षः
(ग) मम मूले भुजङ्गाः सन्ति तथापि परतापं नाशयामि ।
उत्तर – चन्दनवृक्षः
9. अन्वयकार्यम् -
(अ) अधोलिखितानां पङ्क्तीनाम् अन्वयं कुरुत -
(क) गायन्तु मूढमनुजास्तव दोषगाथाः।
उत्तर – मूढमनुजाः तव दोषगाथाः गायन्तु ।

(ख) यः सर्वमर्पयति चान्यसुखस्य हेतोः ।
उत्तर – यः अन्यसुखस्य हेतोः च सर्वम् अर्पयति ।

(ग) नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ।
उत्तर – चन्दनपादपस्य तत् न एव अस्ति यत् समन्तात् सत्त्वभरैः न आश्रितम् ।
(आ) उचिताव्ययपदैः क्रियापदैश्च अन्वयस्य पूर्तिः -
(क) आम्र ! यद्यपि ते दिवसा गताः ये पुष्प सौरभ फल प्रचुराः (भवन्ति स्म), हन्त ! तथापि सम्प्रति छायया एव जनानाम् अतितापं दलयसि।

(ख) यः (वृक्षः) कुसुमपत्रफलावलीनां भरं धत्ते, धर्मव्यथां वहति शीतभवां रुजं च, (यः) अन्यसुखस्य हेतोः च सर्वम् अर्पयति, तस्मै वदान्यगुरवे तरवे नमः अस्तु
Advertisement