अभ्यासः प्रश्नः - नास्ति त्यागसम सुखम्
1. एकपदेन उत्तरत -
(क) भगवान् बोधिसत्त्वः कथं शिवीनां राजा अभवत् ?
उत्तर – बहुजन्मार्जितपुण्यफलैः |
(ख) सकलं ब्रह्माण्ड कीदृशं सब्जताम् ?
उत्तर – व्याकुलम् |
(ग) के सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि याचन्ते ?
उत्तर – दानवीराः |
(घ) राजा वैद्योक्तविधिना नीलोत्पलम् इव किम् अक्षतम् उदपाटयत् ?
उत्तर – नेत्रम् |
(ङ) राजा कस्य समीपे विहरति स्म ?
उत्तर – सरोवरस्य |
(च) राज्ञः काम् आकर्ण्य देशान्तरेभ्योऽपि जनाः आयान्ति स्म ?
उत्तर – दानशीलता |
(छ) भूयः प्रीतः शक्रः किम् अयच्छत् ?
उत्तर – वरम् |
2. पूर्णवाक्येन उत्तरत -
(क) बोधिसत्त्वः शैशवात् एव कीदृशः आसीत् ?
उत्तर – बोधिसत्त्वः शैशवात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत् |
(ख) शिवेः राज्ये याचकाः किं लब्ध्वा सन्तुष्टाः अभवन् ?
उत्तर – शिवेः राज्ये याचकाः धनं लब्ध्वा सन्तुष्टाः अभवन् |
(ग) नेत्रहीनयाचकस्य रूपं धृत्वा शक्रः बोधिसत्त्वं किम् अवदत् ?
उत्तर – शक्रः अवदत् – रविशशि – तारामण्डलभूषितं एतत् जगत् कथं पश्येयं चक्षुर्हीनः |
(घ) सकलं ब्रह्माण्डं किं ज्ञात्वा व्याकुलं जातम् ?
उत्तर – राज्ञः स्वगात्रेषु निरासक्तिं ज्ञात्वा सकलं ब्रह्माण्डं व्याकुलं जातम् |
(ङ) राजा प्रीत्या याचकाय किं समर्पितवान् ?
उत्तर – राजा प्रीत्या याचकाय स्व नेत्रद्वयम् समर्पितवान् |
(च) शक्रः किं वरम् अयच्छत् ?
उत्तर – शक्रः वरम् अयच्छत् – “शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भवः |”
3. अधोलिखित-कथनेषु स्थूलपदानि आधृत्य उदाहरणानुसार प्रश्ननिर्माणं क्रियताम्-
यथा- राजा नगरस्य समन्ततः दानशाला: अकारयत् ।
राजा कस्य समन्ततः दानशालाः अकारयत् ?
(क) अभीष्टवस्तूनि प्राप्य याचकाः सन्तुष्टाः आसन्।
उत्तर – केः |
(ख) दानशालासु विचरन् राजा अचिन्तयत्।
उत्तर – कुत्र |
(ग) राजा पुत्रवत् प्रजाः पालयति स्म।
उत्तर – काः |
(घ) स राजा तान् अकथयत् ।
उत्तर – कान् |
(ङ) राजा याचकेंभ्यः दानं ददाति स्म।
उत्तर – केभ्यः |
4. अधोलिखित-प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'शक्रः तत्रैव अन्तर्हितः अभवत्।' अस्मिन् वाक्ये विशेषणपदं किम् ?
उत्तर – अन्तर्हितः |
(ख) 'सत्यबलेन तस्य चक्षुः प्रतिष्ठितम् अभवत्।' अस्मिन् वाक्ये कर्तृपदम् किम् ?
उत्तर – चक्षुः |
(ग) 'जनाः तं देशम् आयान्ति स्म।' अस्मिन् वाक्ये विशेष्यपदं किम् ?
उत्तर – देशम् |
(घ) 'अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते।' अत्र 'परितोषः' अस्मिन् अर्धे किं पदं प्रयुक्तम् ?
उत्तर – सन्तोषम् |
(ङ) 'शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव।' अत्र 'असमर्थः' अस्य विलोमपदं किं प्रयुक्तम् ?
उत्तर – समर्थः |
(च) 'बोधिसत्त्वः शिवीनां राजा अभवत्।' अत्र क्रियापदं किम् ?
उत्तर – अभवत् ।
5. समुचितम् अर्थ मेलयत -
(क) शैलानाम् - नेत्रम्
(ख) शक्रः - स्वस्य
(ग) आत्मनः - पर्वतानाम्
(घ) चभुः - इन्द्रः
(ङ) उत्पाट्य - भूपतिः
(ङ) महीपालः - निष्कास्य
उत्तर –
(क) शैलानाम् - पर्वतानाम्
(ख) शक्रः - इन्द्रः
(ग) आत्मनः - स्वस्य
(घ) चक्षुः - नेत्रम्
(ङ) उत्पाट्य - निष्कास्य
(ङ) महीपालः - भूपतिः
6. अधोलिखितानि वाक्यानि कथाक्रमानुसारं लिखत -
(क) स वाल्यात् एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्।
(ख) राज्ञः दानशीलताम् आकण्यं देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म।
(ग) कारुण्य-औदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशाला: अकारयत्।
(घ) मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते।
(ङ) अथ कदाचित् दानशालासु विचरन् स राजा बहुचनलाभेन सन्तुष्टानाम् अर्थिनां विरलसङ्ख्यां विलोक्य अचिन्तयत् |
(च) जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म।
(छ) तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत् ।
(ज) अथ एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत् ।
उत्तर -
(ज) अथ एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत् ।
(क) स वाल्यात् एव वृद्धोपसेवी, विनयशीलः शास्त्रपारङ्गतः च आसीत्।
(च) जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म।
(ग) कारुण्य-औदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशाला: अकारयत्।
(छ) तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत् ।
(ख) राज्ञः दानशीलताम् आकण्यं देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म।
(ङ) अथ कदाचित् दानशालासु विचरन् स राजा बहुचनलाभेन सन्तुष्टानाम् अर्थिनां विरलसङ्ख्यां विलोक्य अचिन्तयत् |
(घ) मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते।
7. प्रसङ्गानुसारम् अर्थ चिनुत -
(क) राज्ञः दानशीलताम् आकर्ण्य जनाः तं देशम् आयान्ति स्म ।
(i) श्रुत्वा (ii) मत्वा (iii) प्राप्य
उत्तर – (i) श्रुत्वा
(ख) राज्ञः नेत्रदानार्थं निश्चयं ज्ञात्वा अमात्याः विषण्णाः भूत्वा अवदन्।
(i) विमुखाः (ii) खिन्नाः (iii) प्रसन्नाः
उत्तर – (ii) खिन्नाः
(ग) यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि।
(i) श्रोत्रस्य (ii) गात्रस्य (iii) नेत्रस्य
उत्तर – (iii) नेत्रस्य
(घ) एकदा राजा सरोवरस्य समीपे विहरति ।
(i) तडागस्य (ii) नगरस्य (iii) नद्याः
उत्तर – (i) तडागस्य
( ङ) न अयं चिरं परिक्लेशम् अनुभवितुम् अर्हति।
(i) एषः (ii) सः (iii) तत्
उत्तर – (i) एषः
(च) सकलं ब्रह्माण्ड व्याकुलं सन्जातम्।
(i) सम्पूर्णम् (ii) परिपूर्णम् (iii) गभीरम्
उत्तर - (i) सम्पूर्णम्
8. अध: केचन विग्रहाः दत्ताः । कोष्ठकात् चित्वा क्रमानुसारं समस्तपदानि लिखत-
(वृद्धोपसेवी, विनयशीलः, धान्यसमृद्धाः, निर्बाधा, शक्रप्रभावेण, शास्त्रपारङ्गतः)
समास-विग्रहाः - समस्तपदानि
(क) निर्गता बाधा यस्याः सा - .............................
(ख) धान्येन समृद्धाः - .............................
(ग) विनयः शीलं यस्य सः - .............................
(घ) वृद्धान् उपसेवितुं शीलं यस्य सः - .............................
(ङ) शक्रस्य प्रभावेण - .............................
(च) शास्त्रेषु पारङ्गतः यः सः - .............................
उत्तर –
समास-विग्रहाः - समस्तपदानि
(क) निर्गता बाधा यस्याः सा - निर्बाधा
(ख) धान्येन समृद्धाः - धान्यसमृद्धाः
(ग) विनयः शीलं यस्य सः - विनयशीलः
(घ) वृद्धान् उपसेवितुं शीलं यस्य सः - वृद्धोपसेवी
(ङ) शक्रस्य प्रभावेण - शक्रप्रभावेण
(च) शास्त्रेषु पारङ्गतः यः सः - शास्त्रपारङ्गतः
9. अधोलिखितानां सूक्तिनाम् अधः सम्बद्धाः पाठान्तर्गतपङ्क्तयः लिख्यन्ताम् -
(क) न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्।
उत्तर – नाहं स्वर्गं मोक्षं वा कामये |
(ख) हुतं च दत्तं च सदैव तिष्ठति।
उत्तर – निधानतां याति दीयमानम् |
(ग) क्षयम् आयाति सञ्चयात् ।
उत्तर – अदीयमानं निधनैकनिष्ठम् |
10. अधोलिखितानां वाक्यानां सम्मुखे दत्तेषु भावेषु उचित-भावस्य सम्मेलनं क्रिचताम् -
वाक्यानि - भावः
(क) असी पुत्रवत् प्रजाः पालयति स्म । - दानवीरता
(ख) सः नगरस्य समन्ततः दानशाला: अकारयत्। - दुःखम्
(ग) ममार्थिनस्तु धनलाभमात्रेण सन्तोषं लभन्ते । - स्नेहः
(घ) राज्ञः नेत्रदाननिश्चयं ज्ञात्वा अमात्याः विषण्णाः जाताः।- उदारता
(ङ) अहं भवते चक्षुर्द्वयमेव प्रयच्छामि। - निराशा
उत्तर -
वाक्यानि - भावः
(क) असी पुत्रवत् प्रजाः पालयति स्म । - स्नेहः
(ख) सः नगरस्य समन्ततः दानशाला: अकारयत्। - उदारता
(ग) ममार्थिनस्तु धनलाभमात्रेण सन्तोषं लभन्ते । - निराशा
(घ) राज्ञः नेत्रदाननिश्चयं ज्ञात्वा अमात्याः विषण्णाः जाताः।- दुःखम्
(ङ) अहं भवते चक्षुर्द्वयमेव प्रयच्छामि। - दानवीरता
0 टिप्पणियाँ