अभ्यासः प्रश्नः – कर्मणा याति संसिद्धिम्
1. अधोलिखितानां प्रश्नानामुत्तराणि एकपदेन लिखत -
(क) मुनिः कस्मात् कारणाद् अहङ्कारमुपगतः ?
उत्तर – तपः प्रभावात् |
(ख) मुनिः काम् भिक्षाम् अयाचत ?
उत्तर – गृहिणीम्
(ग) साध्वी किम् आदाय मुनेः सकाशम् आगच्छत् ?
उत्तर – भिक्षाम्
(घ) बलाकावृत्तान्तः कया ज्ञातः ?
उत्तर – पतिव्रतया
(ङ) साध्वी किं धर्मकार्य करोति स्म ?
उत्तर – भर्तृसेवाम्
(च) सा मुनिं कस्य समीपे गन्तुम् अकथयत् ?
उत्तर – धर्मव्याधस्य
(छ) धर्मव्याधः कस्य भक्तः आसीत् ?
उत्तर – मातापित्रोः
2. अधोलिखितानां प्रश्नानामुत्तराणि पूर्णवाक्येन लिखत
(क) यदा मुनिः गृहिणीं भिक्षामयाचत तदा सा किम् अवदत् ?
उत्तर – सा अवदत् – “प्रतीक्षस्व क्षणं, यावद् भर्तुः परिचर्यां समापये |” इति |
(ख) मुनिः बद्धाञ्जलिः गृहिणीं किमवदत् ?
उत्तर – मुनिः बद्धाञ्जलिः गृहिणीं अवदत् – “कथं त्वया अनन्यगोचरः बलाकावृत्तान्तः ज्ञातः इति ब्रूहि, ततः भिक्षां ग्रहीष्ये |”
(ग) धर्मव्याथः दृष्ट्वैव तं मुनिं किमभाषत ?
उत्तर – धर्मव्याधः अभाषत – “ब्रह्मन् ! किं पतिव्रतया तया इह त्वं प्रेषितः” ?
(घ) धर्मव्याधेन मुनिः कथमनुशिष्टः ?
उत्तर – धर्मव्याधेन उक्तम् यत् – हे मुने ! ज्ञानविघ्नोऽहंकारः | धर्मं चर, येन आशु परं श्रेयं अवाप्स्यसि |
(ङ) कः ज्ञाने विघ्नं जनयति ?
उत्तर – अहंकारः ज्ञाने विघ्नं जनयति |
(च) मुनिः कस्य उपदेशात् सिद्धिम् अवाप्तवान् ?
उत्तर – मुनिः धर्मव्याधस्य उपदेशात् सिद्धिम् अवाप्तवान् |
(छ) धर्मव्याधः किमर्थं मांसविक्रयणं करोति स्म ?
उत्तर – धर्मव्याधः वृत्त्यर्थं मांसविक्रयणं करोति स्म |
3. अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) पुरा महातपा नाम मुनिरासीत् ?
उत्तर – कः
(ख) वृक्षस्य उपरि बलाका आसीत्।
उत्तर – कस्य
(ग) कुद्धः मुनिः बलाकाम् अपश्वत् ।
उत्तर – काम्
(घ) मुनिः ब्राह्मणगृहं गत्वा भिक्षामयाचत।
उत्तर – कुत्र
(ङ) ब्राह्मणी भर्तुः परिचर्याम् करोति स्म।
उत्तर – कस्य
(च) 'नाहं बलाका' इति ब्राह्मण्या कथितम्।
उत्तर – कया
(छ) धर्मव्याधः मातापित्रोः भक्तः आसीत्।
उत्तर – कयोः
(ज) अहङ्कारेण ज्ञानं नश्यति।
उत्तर – केन
4. अधोलिखितप्रश्नान् बधानिर्देशम् उत्तरत -
(क) 'आसीत् पुरा कोऽपि महातपा नाम बनवासी मुनिः।' अस्मिन् वाक्ये 'आसीत्' इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर – मुनिः |
(ख) 'साध्वी भिक्षामादाय मुनेः अन्तिकम् आगता' अस्मिन् वाक्ये 'समीपे' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर – अन्तिकम् |
(ग) 'सः मुनिः बद्धाञ्जलिः तामवदत्।' अत्र 'बद्धाञ्जलिः' इति पदस्य विशेष्यपदं किम् अस्ति ?
उत्तर – मुनिः |
(घ) 'सा विहस्य अभाषत।' अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर – अभाषत।
(ङ) 'स च क्रुद्धस्तां व्यलोकवत्। अस्मिन् वाक्ये 'प्रसन्नः' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
उत्तर – क्रुद्धः |
(च) 'गृहीतातिथिसत्कारः मुनिः तां प्रणम्य निरगच्छत्' अत्र 'मुनिः' पदस्य विशेषणपदं किम् ?
उत्तर – गृहीतातिथिसत्कारः |
5. उचितपर्यायपदैः सह मेलनं कृत्वा लिखत-
(क) उपगतः (i) दृष्ट्वा
(ख) शुश्रूषाम् (ii) नत्वा
(ग) आदाय (iii) प्राप्त:
(घ) प्रणम्य (iv) सेवाम्
(ङ) अवलोक्य (V) स्वीकृत्य
उत्तर – (क) उपगतः (iii) प्राप्त:
(ख) शुश्रूषाम् (iv) सेवाम्
(ग) आदाय (V) स्वीकृत्य
(घ) प्रणम्य (ii) नत्वा
(ङ) अवलोक्य (i) दृष्ट्वा
6. विपरीतार्थकानां शब्दानां मेलनं कृत्वा लिखत-
(क) परितुष्टः (i) चिरम्
(ख) आरा (ii) आरभे
(ग) अन्तिकम् (iii) आगत्य
(घ) गत्वा (iv) असन्तुष्टः
(ङ) समापये (v) दूरम्
उत्तर – (क) परितुष्टः (iv) असन्तुष्टः
(ख) आरा (i) चिरम्
(ग) अन्तिकम् (v) दूरम्
(घ) गत्वा (iii) आगत्य
(ङ) समापये (ii) आरभे
7. अधोलिखितकथनानाम् आशयः समक्ष दत्तोऽस्ति । तन्त्र यत्सत्यमेकं तद् लिखत -
(क) न अहं बलाकेति ।
(i) त्वं महां कथं क्रुध्यसि ? मम नाम बलाका नास्ति। त्वं मम अनिष्टं कर्तुं कथमपि न पारयसि।
(ii) अहं पक्षी नास्मि यत् तव कोपेन भीता स्वाम्। गच्छ त्वम् इतः शीघ्रम्।
(iii) अहं पतिव्रता नारी अस्मि। तव क्रोधदृष्टिः मां भस्मीकर्तुं न शक्रोति ।
उत्तर – (iii) अहं पतिव्रता नारी अस्मि। तव क्रोधदृष्टिः मां भस्मीकर्तुं न शक्रोति ।
( ख) मांसानि, स्वधर्म इति मत्वा वृत्त्यर्थं विक्रीणे, न तु धनलिप्सया ।
(i) मांसविक्रयणम् एव धर्मव्याधस्य धर्म आसीत्। सः स्वधर्म श्रेष्ठं मन्यते। धनलोभात् सः सर्वं कार्य
करोति स्म।
(ii) धर्मव्याधः मांसविक्रयणं धर्मार्थं करोति। अनेन प्राप्तं सर्वं धनं दीनेभ्यः वितरति ।
(iii) मांसविक्रयणं धर्मव्याधस्य स्वाभाविकं कर्म आसीत्। तेनैव जीविकानिर्वाहः भवति। सः धनमात्रलालसवा मांसं न विक्रीणीते स्म।
उत्तर – (iii) मांसविक्रयणं धर्मव्याधस्य स्वाभाविकं कर्म आसीत्। तेनैव जीविकानिर्वाहः भवति। सः धनमात्रलालसवा मांसं न विक्रीणीते स्म।
(ग) ज्ञानविघ्नोऽहङ्कारः
(i) ज्ञानात् अहङ्कारः बाधकः जायते।
(ii) ज्ञानप्राप्ती अहङ्कारः बाधकः भवति।
(iii) अहङ्कारे ज्ञानं विघ्नं करोति ।
उत्तर – (ii) ज्ञानप्राप्ती अहङ्कारः बाधकः भवति।
8. विशेषण-विशेष्ययोजनम् -
'क' स्तम्भे विशेषणपदानि सन्ति 'ख' स्तम्भे विशेष्यपदानि दत्तानि सन्ति। तयोः यथोचितं मेलनं कुस्त।
क ख
यथा- वनवासी मुनिः
(क) अनन्यगोचरः (i) बलाका
(ख) सर्वविदा (ii) गृहिणी
(ग) एका (iii) बलाकावृत्तान्तः
(घ) ज्ञानविघ्नः (iv) पतिव्रतया
(ङ) पतिव्रता (v) अहङ्कारः
उत्तर – (क) अनन्यगोचरः (iii) बलाकावृत्तान्तः
(ख) सर्वविदा (iv) पतिव्रतया
(ग) एका (i) बलाका
(घ) ज्ञानविघ्नः (v) अहङ्कारः
(ङ) पतिव्रता (ii) गृहिणी
9. अधोलिखितैः पदैः वाक्यानि प्रपूर्य कथासूत्रं योजयत-
( तरुच्छायायाम्, मुनिः, भस्मसाद् अभूत्, महातपा नाम, मुनेः, विष्ठाम्, भिक्षाम्, प्रतीक्षस्व क्षणम्, विस्मितः, नाहं बलाकेति, क्रुद्धदृष्ट्या । )
एकदा …………….. मुनिः ……………………. उपविष्ट आसीत् । एका बलाका तस्योपरि …………………… उदसृजत् । सा बलाका ……………….. क्रोधदृष्ट्या………………………. । पुनः एकदा असी………………… एकां गृहिणीं………………. अयाचत। पतिसेवारता सा अवदत्…………………. । तदा मुनिः तां………………… अपश्यत्। सा विहस्य अवदत्……………………….. । एतच्छ्रुत्वा मुनिः अतीव………………………. जातः ।
उत्तर –
एकदा … महातपा नाम ... मुनिः ..… तरुच्छायायाम्... उपविष्ट आसीत् । एका बलाका तस्योपरि … विष्ठाम् …… उदसृजत् । सा बलाका …… मुनेः ………….. क्रोधदृष्ट्या……… भस्मसाद् अभूत् ………………. । पुनः एकदा असौ…… मुनिः …… एकां गृहिणीं…… भिक्षाम् ……. अयाचत। पतिसेवारता सा अवदत्…… प्रतीक्षस्व क्षणम् ……. । तदा मुनिः तां…… क्रुद्धदृष्ट्या …… अपश्यत्। सा विहस्य अवदत्…… नाहं बलाकेति ….. । एतच्छ्रुत्वा मुनिः अतीव…… विस्मितः …. जातः ।
10. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत -
(क) वृक्षस्य उपरि स्थिता बलाका तस्योपरि विष्ठाम् उदसृजत् ।
(ख) एकदा असौ मुनिः ब्राह्मणगृहं गत्वा भिक्षाम् अयाचत।
(ग) ब्राह्मणी भर्तुः परिचयाँ करोति स्म।
(घ) पुरा महातपा नाम मुनिरासीत् |
(ङ) मुनिः तपःप्रभावात् अहङ्कारम् उपगतः।
(च) एतत् श्रुत्वा सः मुनिः तां कोपदृष्ट्या दृष्टवान्, परं न अहं बलाकेति तया कथितम्।
(छ) मुनेः दृष्टमात्रा एव सा बलाका भस्मसात् अभवत् ।
(ज) प्रतीक्षस्व क्षणम् इति सा पतिव्रता गृहिणी तम् अवदत् ।
उत्तर -
(घ) पुरा महातपा नाम मुनिरासीत् |
(क) वृक्षस्य उपरि स्थिता बलाका तस्योपरि विष्ठाम् उदसृजत् ।
(छ) मुनेः दृष्टमात्रा एव सा बलाका भस्मसात् अभवत् ।
(ङ) मुनिः तपःप्रभावात् अहङ्कारम् उपगतः।
(ख) एकदा असौ मुनिः ब्राह्मणगृहं गत्वा भिक्षाम् अयाचत।
(ग) ब्राह्मणी भर्तुः परिचयाँ करोति स्म।
(ज) प्रतीक्षस्व क्षणम् इति सा पतिव्रता गृहिणी तम् अवदत् ।
(च) एतत् श्रुत्वा सः मुनिः तां कोपदृष्ट्या दृष्टवान्, परं न अहं बलाकेति तया कथितम्।
0 टिप्पणियाँ