Advertisement

3_रमणीया हि सृष्टिः एषा

अभ्यासः प्रश्नः - रमणीया हि सृष्टिः एषा (संस्कृतम्)

📚 अभ्यासः प्रश्नः - रमणीया हि सृष्टिः एषा 📚

1. अधोलिखितान् प्रश्नान् 'आम्' अथवा 'नहि' माध्यमेन उत्तरत -
(क) किं 'का का' इति राजहंसस्य ध्वनिः ?
उत्तर – नहि |
(ख) किं काकः मेध्यम् अमेध्यं वा सर्वमेव भक्षयति ?
उत्तर – आम् |
(ग) किं कुक्कुटाः नगरेषु सर्वत्र सुलभाः एव ?
उत्तर – नहि |
(घ) किं राजहंसी श्लोकद्वयं पठति ?
उत्तर – नहि |
(ङ) किं बकः श्वेतः भवति ?
उत्तर – आम् |
(च) किं वर्षाणाम् अभिनन्दनं बकः करोति ?
उत्तर – आम् |
(छ) किं मयूरः एव अस्माकं राष्ट्रपक्षी ?
उत्तर - आम् |
(ज) किं मयूरः क्रोधेन प्रविशति ?
उत्तर - आम् |
(झ) किं कोकिलः एव मधुमासे आम्रवृक्षे स्थित्वा गायति ?
उत्तर - आम् |
(ञ) किं राजहंसः एव नीरक्षीरविवेकी मन्यते ?
उत्तर – आम् |
2. अधोलिखितप्रश्नान् पूर्णवाक्येन उत्तरत -
(क) राजहंसः राजहंसी च काकध्वनिं कस्यां वेलायां शृणुतः ?
उत्तर - राजहंसः राजहंसी च काकध्वनिं प्रभातवेलायां शृणुतः |
(ख) मयूरः केन पक्षिराजः कृतः ?
उत्तर - मयूरः विधात्रा पक्षिराजः कृतः |
(ग) कोकिलः कुत्र स्थित्वा पञ्चमस्वरेण गायति ?
उत्तर - कोकिलः आम्रवृक्षे स्थित्वा पञ्चमस्वरेण गायति |
(घ) मातरः शिशून् किं कथयन्ति ?
उत्तर - मातरः शिशून् कथयन्ति यत् – अनृतं वदसि चेत काकः दशेत् |
(ङ) केषाम् ऐक्यं जगत्प्रसिद्धम् ?
उत्तर – काकानाम् ऐक्यं जगत्प्रसिद्धम् |
(च) काकपिकयोः भेदः कदा ज्ञायते ?
उत्तर - काकपिकयोः भेदः वसन्तसमये ज्ञायते |
(छ) कीदृशी सृष्टिः एषा ?
उत्तर – रमणीया सृष्टिः एषा |
(ज) केन समयः वृथा न यापयितव्यः ?
उत्तर – कलहेन समयः वृथा न यापयितव्यः |
3. अधोलिखितवाक्येषु स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुरुत -
(क) नेपथ्ये काकध्वनिः श्रूयते ।
उत्तर – कुत्र
(ख) काकः प्रभाते 'का का' ध्वनिना सुप्तान् प्रबोधयति ।
उत्तर – कान्
(ग) मयूरस्य पिच्छानां सौन्दर्यम् अद्भुतम् अस्ति।
उत्तर – केषाम्
(घ) बकः मीनान् छलेन अधिगृह्य क्रूरतया भक्षयति ।
उत्तर – कथम्
(ङ) जगत्पतेः एषा सृष्टिः रमणीया अस्ति।
उत्तर – कीदृशी
(च) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तर – कस्याः
(छ) आयुषः एकः अपि क्षणः स्वर्णकोटिकैः न लभ्यते।
उत्तर – कस्य
(ज) हंसः वर्षौं तु मानसं पलायते।
उत्तर – कदा
4. यथानिर्देशम् उत्तरत -
(क) 'जनाः प्रियस्य आगमनसङ्केतं मत्वा हष्यन्ति।' अस्मिन् वाक्ये कर्तृपदं किम् अस्ति ?
उत्तर – जनाः
(ख) 'अलम् अलं मिथः कलहेन।' वाक्येऽस्मिन् 'परस्परम्' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर – मिथः
(ग) 'आपत्काले सरांसि त्यक्त्वा दूरं व्रजसि।' वाक्येऽस्मिन् किं क्रियापदं प्रयुक्तम् ?
उत्तर – व्रजसि
(घ) 'सत्यम्' इति परस्य किं विलोमपदं पाते प्रयुक्तम् ?
उत्तर – अनृतम्
(ङ) 'दुग्धधवलाः' इति विशेषणपदस्य किं विशेष्यपदं पाठे प्रयुक्तम् ?
उत्तर – पक्षाः
(च) 'पिच्छानाम्' इति पदस्य विशेषणपदं पाठात् चित्वा लिखत ।
उत्तर – चारुवर्तुलचन्द्रिकाशोभितानाम्
(छ) 'विचित्रा खलु दैवगतिः।' अत्र विशेष्यपदं किम् अस्ति ?
उत्तर – दैवगतिः
5. अधोलिखितपदानां समुचितं पर्यायपदं पाठात् चित्वा लिखत -
(क) असत्यम् - अनृतम्
(ख) शरीरम् - गात्रम्
(ग) गृहीत्वा - अधिगृह्य
(घ) प्रात: कालः - प्रभातवेला
(ङ) प्रसीदन्ति - हृष्यन्ति
6. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत -
(क) राजहंसी राजहंसं कथयति यत् काकस्य कर्म अपि कृष्णम्।
(ख) काकः राजहंसी कथयति यत् यदि सः (काकः) कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृशः ?
(ग) राजहंसः काकं कथयति यत् एतत् कार्यं तु कुक्कुटोऽपि करोति।
(घ) बकः राजहंसं कथयति यत् तस्य किं महत्त्वम् ?
(ङ) मयूरः बकं कथयति यत् तस्य ध्यानावस्थां को न जानाति ?
(च) कोकिलः मयूरं कथयति यत् अलम् 'अतिविकत्थनेन' ।
(छ) काकः कोकिलं कथयति यत् सः एव करुणापरः पक्षिसम्राट् !
7. अधोलिखितेषु वाक्येषु समुचितं पदं लिखत -
(क) राजहंसः काकस्य ध्वनिं श्रुत्वा व्याकुलः भवति।
(ख) काकः राजहंस्याः कथनं श्रुत्वा तु क्रुद्धः भवति परं राजहंसस्य वचनं श्रुत्वा विहसति ।
(ग) राजहंसी काकस्य वचनं श्रुत्वा तं 'वाचाल' इति कथयति।
(घ) मयूरः बकस्य वचांसि श्रुत्वा प्रविशति ।
(ङ) कोकिलः मयूरस्य वाचांसि श्रुत्वा प्रविशति।
(च) अन्ते प्रकृतिमाता प्रविशति ।
8. पाठगतश्लोकानां भावस्पष्टीकरणम् उचितपदैः कुरुत -
(क) यदि काकस्य चञ्चुदेशे माणिक्यरत्नम् अपि भवेत् तथापि सः राजहंसः न मन्यते अपितु काकः एव। एवमेव यदि काकस्य पक्षाः मणिभिः ग्रथिताः भवेयुः तथापि सः काकः एव न राजहंसः
(ख) हंसः श्वेतवर्णः बकस्य अपि च वर्णः श्वेत एव। अतः बकहंसयोः वर्णदृष्ट्या कोऽपि न भेदः परं हंसः एव विवेकशीलः मन्यते न तु बकः
(ग) काकस्य वर्णः कृष्णः पिकस्य अपि वर्णः कृष्णः । एतयोः भेदः तु वसन्तकाले एव ज्ञायते यत् काकः काकः पिकः च पिकः अस्ति।
9. निम्नलिखितकथनेषु स्थूलानि सर्वनामपदानि 'कस्मै प्रयुक्तानि' इति लिखत -
कथनानि कस्मै प्रयुक्तं सर्वनामपदम्
सर्वथा जागरूकः अहम्।काकाय
(क) सरस्तीरे विहरति मयि ।राजहंसाय
(ख) कथं माम् अधिक्षिपसि ?बकाय
(ग) अहम् एव ते अभिनन्दनं करोमि ।बकाय
(घ) मम नृत्यं तु प्रकृतेः आराधना ।मयूराय
(ङ) अहं पञ्चमस्वरेण गायामि ।कोकिलाय
(च) अहमेव सर्वशिरोमणिः ।बकाय
(छ) सर्वैः एव मे शोभा ।प्रकृत्यै
(ज) अहमेव नीरक्षीरविवेकी ।राजहंसाय
10. केन कथितानि एतानि कथनानि ?
कथनानि वक्ता
(क) अहं तु अतीव कर्तव्यपरायणः।काकः
(ख) नीरक्षीरविवेके तु हंसो हंसः बको बकः।राजहंसः
(ग) दुग्धधवलाः मे पक्षाः।बकः
(घ) अहमेव सर्वशिरोमणिः ।बकः
(ङ) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।प्रकृतिमाता
11. अधोलिखितवाक्येषु समस्तपदैः रिक्तस्थानानि पूरयत -
(क) राजहंसः हंसी च (सरसः तीर) सरस्तीरे विहरतः ।
(ख) तत्र (काकस्य ध्वनिः) काकध्वनिः अपि श्रूयते ।
(ग) काकः (क्रोधेन सहितम्) सक्रोधम् प्रविशति ।
(घ) काकः आत्मानं (सत्यं प्रियं यस्य तम्) सत्यप्रियम् कथयति ।
(ङ) काकस्य चञ्चुदेशे (माणिक्यानि च रत्नानि च तेषां समाहारः) माणिक्यरत्नम् भवेत् तथापि सः राजहंसः न भवति ।
(च) बकः (स्थिता प्रज्ञा यस्य सः) स्थितप्रज्ञः इव जले बहुकालपर्यन्तं तिष्ठति ।
(छ) (समयम् अनतिक्रम्य) यथासमयम् सर्वेषां महत्त्वं विद्यते ।
12. अधोलिखितवाक्येषु स्थूलाक्षरपदानां प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत -
(क) मेध्यम् अमेध्यं सर्वमेव भक्षयति ।
उत्तर – (iii) विशुद्धम्
(ख) अस्माकम् ऐक्यं तु जगत्प्रसिद्धम्।
उत्तर – (i) एकता
(ग) काकस्य गात्रं यदि काञ्चनस्य ।
उत्तर – (iii) शरीरम्
(घ) आपत्काले सरांसि त्यक्त्वा दूरं व्रजसि ।
उत्तर – (iii) गच्छसि
(ङ) बकः मीनान् छलेन अधिगृह्य क्रूरतया भक्षयति ।
उत्तर – (i) गृहीत्वा
Advertisement