Advertisement

8_न धर्मवृद्धेषु वयः समीक्ष्यते

अभ्यासः प्रश्नः - न धर्मवृद्धेषु वयः समीक्ष्यते

📚 अभ्यासः प्रश्नः - न धर्मवृद्धेषु वयः समीक्ष्यते 📚

1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत -
(क) मित्रैः सह क्रीडित्वा कः गृहम् प्रत्यावृत्तः ?
उत्तर – अष्टावक्रः
(ख) अष्टावक्रस्य पिता किमर्थं राजसभां गतः आसीत् ?
उत्तर – शास्त्रार्थाय
(ग) 'त्वं बालोऽसि ! राजसभायां तव प्रवेशो न सुलभः' इति कस्य वचनम् ?
उत्तर – मातुः
(घ) 'ईदृशीं तादृशीं वा आशङ्कां मा विधेहि' इति आश्वासनं कस्मै दीयते ?
उत्तर – मात्रे
(ङ) अष्टावक्रं दृष्ट्वा के उच्चैः अहसन् ?
उत्तर – पण्डिताः
(च) अष्टावक्रः किं कृत्वा पण्डितान् अजयत् ?
उत्तर – शास्त्रार्थम्
(छ) राजसभायां मिथ्याज्ञानगर्विताः के ?
उत्तर – पण्डिताः
(ज) अष्टावक्रः कस्य विषये कथयति 'अस्थि-रुधिर-मांस-मेदोभरिते चर्मवेष्टिते' इति-
उत्तर – शरीरस्य
(झ) 'यदि नदी वक्रा, किं तस्याः जलमपि वक्रम्' इति केन पृष्टम् ?
उत्तर – अष्टावक्रेण
(ञ) किं वस्तु वंशपरम्पराप्राप्तम् ?
उत्तर – राज्यम्
2. पूर्णवाक्येन संस्कृतभाषया उत्तरत -
(क) मातुः चिन्तां ज्ञात्वा कः राजसभां गन्तुम् उद्यतः आसीत् ?
उत्तर – मातुः चिन्तां ज्ञात्वा अष्टावक्रः राजसभां गन्तुम् उद्यतः आसीत् |
(ख) राजसभायां कस्य उपहासः अभवत् ?
उत्तर – राजसभायां अष्टावक्रस्य उपहासः अभवत् |
(ग) राजा जनकः अष्टावक्राय किम् अयच्छत् ?
उत्तर – राजा जनकः अष्टावक्राय स्वमनः अयच्छत् |
(घ) मनसः किं कार्यम् ?
उत्तर – ‘संकल्पविकल्पौ’ मनसः कार्यम् |
(ङ) राजा जनकः कस्य पादयोः पतति किमर्थं च ?
उत्तर – राजा जनकः ज्ञानप्राप्त्यर्थम् अष्टावक्रस्य पादयोः पतति |
3. एतादृशाम् प्रश्नानां निर्माणं कुरुत येषाम् उत्तराणि अधोलिखितवाक्येषु स्युः -
(क) अष्टावक्रः प्रत्यवदत् 'जननि ! अलं चिन्तया'।
उत्तर – अष्टावक्रः किं प्रत्यवदत् ?
(ख) राजसभायां बालकस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ।
उत्तर – राजसभायां कस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ?
(ग) अष्टावक्रः पितरम् आदाय क्षिप्रम् आगमिष्यति ।
उत्तर – अष्टावक्रः कम् आदाय क्षिप्रम् आगमिष्यति ?
(घ) मात्रा अनुज्ञातः स राजसभां गतः।
उत्तर – कया अनुज्ञातः स राजसभां गतः ?
(ङ) पण्डितानां चेष्टितं दृष्ट्वा अष्टावक्रः हसितुमारभत ।
उत्तर – किं दृष्ट्वा अष्टावक्रः हसितुमारभत ?
(च) राज्ञा हास्यकरणं पृष्टम् ।
उत्तर – राज्ञा किं पृष्टम् ?
(छ) अष्टावक्रः मिथ्याज्ञानगर्वितान् दृष्ट्वा हसति ।
उत्तर – अष्टावक्रः कान् दृष्ट्वा हसति ?
(ज) राजर्षिः जनकः आत्मानं धन्यं मन्यते ।
उत्तर – राजर्षिः जनकः कं धन्यं मन्यते ?
4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'बालः अष्टावक्रः मित्रैः सह क्रीडित्वा गृहं प्रत्यावृत्तः।' अस्मिन् वाक्ये 'अष्टावक्रः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?
उत्तर – प्रत्यावृत्तः |
(ख) 'तं हसन्तं विलोक्य सर्वे सभास्थिताः विद्वांसः स्तब्धाः अभवन्।' अस्मात् वाक्यात् 'स्तब्धाः' इति पदस्य विशेष्यपदं चिनुत ।
उत्तर – विद्वांसः |
(ग) 'अहं भवद्दर्शनैः आत्मानं धन्यं मन्ये।' अत्र 'मन्ये' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर – अहम् |
(घ) 'मात्रा अनुमतः अष्टावक्रः राजसभां गतः।' अस्मिन् वाक्ये 'अष्टावक्रः' इत्यस्य विशेषणं चिनुत ।
उत्तर – अनुमतः |
(ङ) 'तस्य वक्रदेहं वीक्ष्य पण्डिताः तारस्वरेण अहसन्।' अत्र 'दृष्ट्वा' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर – वीक्ष्य |
(च) 'इच्छामि भवद्भ्यः किञ्चिद् दातुम्' अस्मिन् वाक्ये 'स्वीकर्तुम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
उत्तर – दातुम् |
5. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखत -
1. (क) अष्टावक्रस्य पिता राजर्षेः जनकस्य सभां विद्वद्धिः सह शास्त्रार्थाय गतः आसीत् ।
2. (ख) अष्टावक्रः मातरम् अपृच्छत्-मातः ! क्व आस्ते मे पिता ?
3. (ग) मात्रा अनुमतः अष्टावक्रः राजसभां गतः ।
4. (ङ) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुम् प्रारभन्त ।
5. (घ) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत् ।
6. (छ) जनकः अपृच्छत्-भो अष्टावक्र ! किमर्थं हससि ?
7. (झ) अष्टावक्रः उवाच - एते मे देहं दृष्ट्वा हसन्ति, अहम् एतेषां मूर्खतां दृष्ट्वा हसामि ।
8. (च) हे राजन् ! किं वक्रे देहे आत्माऽपि वक्रः भवति ?
9. (ज) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः अभवन् ।
10. (ट) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुम् इच्छति ।
11. (ञ) जनकः स्वमनः अष्टावक्राय यच्छति ।
12. (ठ) जनकः पराजितः भूत्वा अष्टवक्रस्य पादयोः पतति ।
6. समुचितं पर्यायपदं पाठात् अन्विष्य लिखत -
पदम् पर्यायपदम् (उत्तरम्)
(क) कुत्रक्व
(ख) विस्मिताःस्तब्धाः
(ग) विलोक्यवीक्ष्य
(घ) समीपात्सकाशात्
(ङ) अधुनाइदानीम्
7. उचितविपरीतपदं चित्वा लिखत -
पदम् विपरीतार्थकम् (उत्तरम्)
(क) सुलभःदुर्लभः
(ख) क्षिप्रम्शनैः
(ग) अर्पयगृहाण
(घ) प्रविश्यनिर्गत्य
(ङ) लौकिकम्अलौकिकम्
8. अधोलिखितानां वाक्यानां पूर्तिः उचितैः विशेषणैः कुरुत -
(क) अष्टावक्रः सर्वशास्त्रपारङ्गतः आसीत् ।
(ख) अहो बालस्य ईदृशी निपुणता ।
(ग) एतत् धनम् भवदीयम् नास्ति ।
(घ) ये मिथ्याज्ञानगर्विताः ते सम्मानं न लभन्ते ।
(ङ) राजसभा विद्वद्भिः अलङ्कृता अस्ति।
(च) मित्रस्य कटुव्यवहारं दृष्ट्वा अहं स्तब्धः अभवम्।
(छ) आत्मा निराकारः उच्यते |
(ज) उदारतागुणः न सुलभः |
Advertisement