8_न धर्मवृद्धेषु वयः समीक्ष्यते

 


अभ्यासः प्रश्नः - न धर्मवृद्धेषु वयः समीक्ष्यते

1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत -

(क) मित्रैः सह क्रीडित्वा कः गृहम् प्रत्यावृत्तः ?

उत्तर – अष्टावक्रः

(ख) अष्टावक्रस्य पिता किमर्थं राजसभां गतः आसीत् ?

उत्तर – शास्त्रार्थाय

(ग) 'त्वं बालोऽसि ! राजसभायां तव प्रवेशो न सुलभः' इति कस्य वचनम् ?

उत्तर – मातुः

(घ) 'ईदृशीं तादृशीं वा आशङ्कां मा विधेहि' इति आश्वासनं कस्मै दीयते ?

उत्तर – मात्रे

(ङ) अष्टावक्रं दृष्ट्वा के उच्चैः अहसन् ?

उत्तर – पण्डिताः

(च) अष्टावक्रः किं कृत्वा पण्डितान् अजयत् ?

उत्तर – शास्त्रार्थम्

(छ) राजसभायां मिथ्याज्ञानगर्विताः के ?

उत्तर – पण्डिताः

(ज) अष्टावक्रः कस्य विषये कथयति 'अस्थि-रुधिर-मांस-मेदोभरिते चर्मवेष्टिते' इति-

उत्तर – शरीरस्य

(झ) 'यदि नदी वक्रा, किं तस्याः जलमपि वक्रम्' इति केन पृष्टम् ?

उत्तर – अष्टावक्रेण

(ञ) किं वस्तु वंशपरम्पराप्राप्तम् ?

उत्तर – राज्यम्

 

2. पूर्णवाक्येन संस्कृतभाषया उत्तरत-

(क) मातुः चिन्तां ज्ञात्वा कः राजसभां गन्तुम् उद्यतः आसीत् ?

उत्तर - मातुः चिन्तां ज्ञात्वा अष्टावक्रः राजसभां गन्तुम् उद्यतः आसीत् |

(ख) राजसभायां कस्य उपहासः अभवत् ?

उत्तर - राजसभायां अष्टावक्रस्य उपहासः अभवत् |

(ग) राजा जनकः अष्टावक्राय किम् अयच्छत् ?

उत्तर - राजा जनकः अष्टावक्राय स्वमनः अयच्छत् |

(घ) मनसः किं कार्यम् ?

उत्तर – ‘संकल्पविकल्पौमनसः कार्यम् |

(ङ) राजा जनकः कस्य पादयोः पतति किमर्थं च ?

उत्तर - राजा जनकः ज्ञानप्राप्त्यर्थम् अष्टावक्रस्य पादयोः पतति |

 

3. एतादृशाम् प्रश्नानां निर्माणं कुरुत येषाम् उत्तराणि अधोलिखितवाक्येषु स्युः-

यथा- (i) अष्टावक्रः जननीम् अपृच्छत् मातः क्व आस्ते मम पिता |

प्रश्न- अष्टावक्रः जनीं किम् अपृच्छत् ?

        (ii) अष्टावक्रस्य पिता जनकस्य सभायां विद्वद्भिः सह शास्त्रार्थं गतः आसीत् |

प्रश्न- अष्टावक्रस्य पिता जनकस्य सभायां कैः सह शास्त्रार्थं गतः आसीत् ?

(क) अष्टावक्रः प्रत्यवदत् 'जननि ! अलं चिन्तया'।

उत्तर - अष्टावक्रः किं प्रत्यवदत् ?

(ख) राजसभायां बालकस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ।

उत्तर - राजसभायां कस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ?

(ग) अष्टावक्रः पितरम् आदाय क्षिप्रम् आगमिष्यति ।

उत्तर - अष्टावक्रः म् आदाय क्षिप्रम् आगमिष्यति ?

(घ) मात्रा अनुज्ञातः स राजसभां गतः।

उत्तर - कया अनुज्ञातः स राजसभां गतः।

(ङ) पण्डितानां चेष्टितं दृष्ट्वा अष्टावक्रः हसितुमारभत ।

उत्तर – किं दृष्ट्वा अष्टावक्रः हसितुमारभत ?

(च) राज्ञा हास्यकरणं पृष्टम्

उत्तर - राज्ञा किं पृष्टम् ?

(छ) अष्टावक्रः मिथ्याज्ञानगर्वितान् दृष्ट्वा हसति

उत्तर - अष्टावक्रः कान् दृष्ट्वा हसति ?

(ज) राजर्षिः जनकः आत्मानं धन्यं मन्यते ।

उत्तर - राजर्षिः जनकः कं धन्यं मन्यते ?

 

4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत

(क) 'बालः अष्टावक्रः मित्रैः सह क्रीडित्वा गृहं प्रत्यावृत्तः।' अस्मिन् वाक्ये 'अष्टावक्रः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?

उत्तर – प्रत्यावृत्तः |

(ख) 'तं हसन्तं विलोक्य सर्वे सभास्थिताः विद्वांसः स्तब्धाः अभवन्।' अस्मात् वाक्यात् 'स्तब्धाः' इति पदस्य विशेष्यपदं चिनुत ।

उत्तर – विद्वांसः |

(ग) 'अहं भवद्दर्शनैः आत्मानं धन्यं मन्ये।' अत्र 'मन्ये' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?

उत्तर – अहम् |

(घ) 'मात्रा अनुमतः अष्टावक्रः राजसभां गतः।' अस्मिन् वाक्ये 'अष्टावक्रः' इत्यस्य विशेषणं चिनुत ।

उत्तर – अनुमतः |

(ङ) 'तस्य वक्रदेहं वीक्ष्य पण्डिताः तारस्वरेण अहसन्।' अत्र 'दृष्ट्वा' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?

उत्तर – वीक्ष्य |

(च) 'इच्छामि भवद्भ्यः किञ्चिद् दातुम् अस्मिन् वाक्ये 'स्वीकर्तुम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?

उत्तर – दातुम् |

 

5. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखत -

(क) अष्टावक्रस्य पिता राजर्षेः जनकस्य सभां विद्वद्धिः सह शास्त्रार्थाय गतः आसीत्

(ख) अष्टावक्रः मातरम् अपृच्छत्-मातः ! क्व आस्ते मे पिता ?

(ग) मात्रा अनुमतः अष्टावक्रः राजसभां गतः

(घ) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्

(ङ) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुम् प्रारभन्त ।

(च) हे राजन् ! किं वक्रे देहे आत्माऽपि वक्रः भवति ?

(छ) जनकः अपृच्छत्-भो अष्टावक्र ! किमर्थं हससि ?

(ज) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः अभवन्

(झ) अष्टावक्रः उवाच - एते मे देहं दृष्ट्वा हसन्ति, अहम् एतेषां मूर्खतां दृष्ट्वा हसामि

(ञ) जनकः स्वमनः अष्टावक्राय यच्छति

(ट) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुम् इच्छति

(ठ) जनकः पराजितः भूत्वा अष्टवक्रस्य पादयोः पतति ।

उत्तर –

(क) अष्टावक्रस्य पिता राजर्षेः जनकस्य सभां विद्वद्धिः सह शास्त्रार्थाय गतः आसीत्

(ख) अष्टावक्रः मातरम् अपृच्छत्-मातः ! क्व आस्ते मे पिता ?

(ग) मात्रा अनुमतः अष्टावक्रः राजसभां गतः

(ङ) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुम् प्रारभन्त ।

(घ) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्

(छ) जनकः अपृच्छत्-भो अष्टावक्र ! किमर्थं हससि ?

(झ) अष्टावक्रः उवाच - एते मे देहं दृष्ट्वा हसन्ति, अहम् एतेषां मूर्खतां दृष्ट्वा हसामि।

(च) हे राजन् ! किं वक्रे देहे आत्माऽपि वक्रः भवति ?

(ज) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः अभवन्

(ट) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुम् इच्छति

(ञ) जनकः स्वमनः अष्टावक्राय यच्छति

(ठ) जनकः पराजितः भूत्वा अष्टवक्रस्य पादयोः पतति ।

 

 

6. समुचितं पर्यायपदं पाठात् अन्विष्य लिखत-

(क) कुत्र                               ..............................

(ख) विस्मिताः                       ..............................

(ग) विलोक्य                          ..............................

(घ) समीपात्                         ..............................

(ङ) अधुना                            ..............................

उत्तर –

(क) कुत्र                                .........क्व ...........

(ख) विस्मिताः                       .........स्तब्धाः........

(ग) विलोक्य                          ..........वीक्ष्य............

(घ) समीपात्                          ........सकाशात्.........

(ङ) अधुना                            ...........इदानीम्..........

 

 

 

7. उचितविपरीतपदं चित्वा लिखत-

(अ)                                     (आ)

(क) सुलभः                                    (i) शनैः

(ख) क्षिप्रम्                                     (ii) निर्गत्य

                 (ग) अर्पय                                      (iii) अलौकिकम्

(घ) प्रविश्य                                    (iv) दुर्लभः

(ङ) लौकिकम्                                (v) गृहाण

उत्तर –

(अ)                                     (आ)

(क) सुलभः                                    (iv) दुर्लभः

(ख) क्षिप्रम्                                     (i) शनैः

                 (ग) अर्पय                                      (v) गृहाण

(घ) प्रविश्य                                    (ii) निर्गत्य

(ङ) लौकिकम्                                (iii) अलौकिकम्

 

 

8. अधोलिखितानां वाक्यानां पूर्तिः उचितैः विशेषणैः कुरुत -

(निराकारः, ईदृशी, अलङ्कृता, भवदीयम्, सुलभः, सर्वशास्त्रपारङ्गतः, स्तब्धः, मिथ्याज्ञानगर्विताः)

(क) अष्टावक्रः ............................. आसीत् ।

(ख) अहो बालस्य ............................. निपुणता ।

(ग) एतत् धनम् ............................. नास्ति ।

(घ) ये ............................. ते सम्मानं न लभन्ते ।

(ङ) राजसभा विद्वद्भिः ............................. अस्ति।

(च) मित्रस्य कटुव्यवहारं दृष्ट्वा अहं ............................. अभवम्।

(छ) आत्मा ............................. उच्यते |

(ज) उदारतागुणः न ............................. |

 

उत्तर –

(क) अष्टावक्रः ............. सर्वशास्त्रपारङ्गतः................ आसीत् ।

(ख) अहो बालस्य .......... ईदृशी................... निपुणता ।

(ग) एतत् धनम् .............. भवदीयम्............... नास्ति ।

(घ) ये ......... मिथ्याज्ञानगर्विताः.................... ते सम्मानं न लभन्ते ।

(ङ) राजसभा विद्वद्भिः ........... अलङ्कृता.................. अस्ति।

(च) मित्रस्य कटुव्यवहारं दृष्ट्वा अहं .......... स्तब्धः................... अभवम्।

(छ) आत्मा .......... निराकारः................... उच्यते |

(ज) उदारतागुणः न .......... सुलभः................... |

 

 

 

 

 

 

 

 

 


एक टिप्पणी भेजें

0 टिप्पणियाँ