Advertisement

1_वाङ्मयं तपः

अभ्यासः प्रश्नः - प्रथमः पाठः * वाङ्मयं तपः (संस्कृतम्)

📚 अभ्यासः प्रश्नः - प्रथमः पाठः * वाङ्मयं तपः 📚

1. निम्नलिखितप्रश्नानाम् उत्तराणि एकपदेन उत्तरत -
(क) का अस्माकं सन्निधिं कुर्यात् ?
उत्तर – शारदा
(ख) कोशः कथम् अस्ति ?
उत्तर – अपूर्वः
(ग) सत्यसमं किम् अस्ति ?
उत्तर – तपः
(घ) कीदृशी वाणी पुरुषं प्रह्लादयति ?
उत्तर – मधुरभाषिणी
(ङ) पाठकानां कति गुणाः श्लोके वर्णिताः ?
उत्तर – षट्
(च) स्वस्य मेधया कः पादम् आदत्ते ?
उत्तर – शिष्यः
2. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -
(क) भारत्याः कोशः कीदृशः विद्यते ?
उत्तर – भारत्याः कोशः अपूर्वः विद्यते | यः व्ययतः वृद्धिम् आयाति संचयात् च क्षयम् आयाति |
(ख) के पाठकाः गुणाः सन्ति ?
उत्तर – माधुर्यं, अक्षरव्यक्तिः, पदच्छेदः, सुस्वरः, धैर्यं लयसमर्थः च पाठकाः गुणाः सन्ति |
(ग) धियः गुणाः के के सन्ति ?
उत्तर – शुश्रूषा, श्रवणं, ग्रहणम्, धारणम्, ऊहः, अपोहः, अर्थविज्ञानम् तत्त्वज्ञानम् च धियः गुणाः सन्ति |
(घ) शिष्यः विद्यायाः अर्जनं कथं करोति ?
उत्तर – शिष्यः आचार्यात् पादं, स्वमेधया पादं, कालेन पादं सब्रह्मचारिभिः च पादम् अर्जनं करोति |
(ङ) कीदृशी शारदा सन्निधिं क्रियात् ?
उत्तर – शारद-अम्भोज-वदना सर्वदा शारदा सन्निधिं क्रियात् |
(च) वाङ्मयं तपः किम् उच्यते ?
उत्तर – वाक्यम् अनुद्वेगकरम्, सत्यम्-प्रियहितं, स्वाध्याय-अभ्यसनं च वाङ्मयं तपः उच्यते |
3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) शारदा सर्वदा अस्माकं समीपे वसेत्।
उत्तर – का
(ख) भारत्याः कोशः अपूर्वः।
उत्तर – कस्याः
(ग) मधुरभाषिणी वाणी पुरुषं प्रह्लादयति ।
उत्तर – कम्
(घ) पाठकस्य षट् गुणाः सन्ति ।
उत्तर – कति
(ङ) सत्येन समं सुखं नास्ति।
उत्तर – केन
(च) अनुद्वेगकरं वाक्यं वाङ्मयं तपः उच्यते ।
उत्तर – कीदृशं
(छ) रागस्य विलोमः त्यागः ।
उत्तर – कस्य
4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'अपूर्वः कोशोऽयं विद्यते तव भारति।' अत्र क्रियापदं किम् ?
उत्तर – विद्यते
(ख) प्रथमे श्लोके कर्तृपदं किम् ?
उत्तर – शारदा
(ग) 'शीतला छाया' अनयोः पदयोः विशेष्यपदं किम् ?
उत्तर – छाया
(घ) 'उद्वेगकरम्' इति पदस्य विलोमपदं पाठात् चित्वा लिखत।
उत्तर – अनुद्वेगकरम्
(ङ) 'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।' अस्मिन् वाक्ये 'श्रोतुम् इच्छा' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर – शुश्रूषा
(च) 'व्ययतः' इति पदस्य विलोमपदं पाठात् चित्वा लिखत।
उत्तर – संचयात्
5. स्तम्भद्वये लिखितानां समानार्थकशब्दानां समुचितं मेलनं कृत्वा लिखत -
अ-स्तम्भः ब-स्तम्भः (उत्तरम्)
(क) शुश्रूषाश्रोतुमिच्छा
(ख) ऊहःपक्षे तर्कः
(ग) अपोहःशङ्कानिवारणम्
(घ) पादम्चतुर्थांशम्
(ङ) सन्निधिम्निवासम्
(च) वदनम्मुखम्
(छ) वाक्वाणी
(ज) भारतीसरस्वती
6. उपयुक्तं विशेषणं चित्वा विशेष्येण सह योजयित्वा लिखत -
(क) मधुरभाषिणी वाणी
(ख) शीतला छाया
(ग) सर्वदा शारदा
(घ) विद्यासमम् चक्षुः
(ङ) शीतलम् सलिलम्
(च) वाङ्मयम् तपः
(छ) अपूर्वः कोशः
(ज) प्रियहितम् वाक्यम्
7. समानभावमयीः पङ्क्तिः योजयत -
प्रथमपङ्क्तिः समानभावमयी पङ्क्तिः
(i) नास्ति विद्यासमं चक्षुः ।(ग) सर्वस्य लोचनं शास्त्रम् ।
(ii) व्ययतः वृद्धिमायाति ।(ङ) दत्ता भवति विस्तृता ।
(iii) वदनाम्बुजे सन्निधिं क्रियात्।(क) मुखकमले निवासं कुर्यात्।
(iv) मधुरभाषिणी वाणी पुरुषं प्रह्लादयति।(ख) वाङ्माधुर्यात् नान्यदस्ति प्रियत्वम्।
(v) पादं सब्रह्मचारिभिः(घ) शिक्ष्यते सहपाठिभिः।
8. रेखाचित्रं पूरयत (विद्यायाः अर्जनं / पाठकाः गुणाः / धियः गुणाः) -
शिष्यः पादं प्राप्नोति:
1. आचार्यात्
2. स्वमेधया
3. कालेन
4. सब्रह्मचारिभिः
पाठकानां गुणाः:
1. माधुर्यम्
2. अक्षरव्यक्तिः
3. पदच्छेदः
4. सुस्वरः
5. धैर्यम्
6. लयसमर्थम्
बुद्धेः गुणाः:
1. शुश्रूषा
2. श्रवणम्
3. ग्रहणम्
4. धारणम्
5. ऊहः, 6. अपोहः,
7. अर्थविज्ञानम्, 8. तत्त्वज्ञानम्
9. वाक्यांशं पूरयत -
(क) व्ययतः वृद्धिमायाति
उत्तर – क्षयमायाति संचयात् |
(ख) नास्ति रागसमं दुःखम्
उत्तर – नास्ति त्यागसमं सुखम् |
(ग) नास्ति विद्यासमं चक्षुः
उत्तर – नास्ति सत्यसमं तपः |
(घ) आचार्यात्पादमादत्ते
उत्तर – पादं शिष्यः स्वमेधया |
10. श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूरयत -
(क) हे भारति! तव अयम् कोशः कः अपि अपूर्वः विद्यते। (अयम्) व्ययतः वृद्धिम् आयाति सञ्चयात् च क्षयम् आयाति ।
(ख) विद्यासमम् चक्षुः न अस्ति, सत्यसमम् तपः न अस्ति, रागसमम् दुःखम् न अस्ति त्यागसमं सुखम् न अस्ति।
(ग) यत् वाक्यम् अनुद्वेगकरम् सत्यम् प्रियहितम् च (तथा) स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते।
11. अधोलिखितपङ्क्तिषु स्थूलाक्षरपदानां प्रसङ्गानुसारं शुद्धम् अर्थ चिनुत -
(क) स्वाध्यायाभ्यसनं चैव वाङ्मयं तपः उच्यते।
उत्तर – (ii) वाचिकम्
(খ) आचार्यात् पादम् आदत्ते ।
उत्तर – (iii) चतुर्थांशम्
(ग) माधुर्यम् अक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
उत्तर – (ii) कोमलतया वर्णोच्चारणम्
(घ) सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्।
उत्तर – (i) सर्वं ददाति इति
12. रेखाङ्कित्तपदानां समस्तपदं विग्रहं वा लिखत -
(क) नास्ति विद्यासमं चक्षुः ।
उत्तर – विद्यया समम्
(ख) नास्ति त्यागेन समं सुखम्।
उत्तर – त्यागसमम्
(ग) न तथा शीतलसलिलं पुरुषं प्रह्लादयति ।
उत्तर – शीतलं च तत् सलिलम्
(घ) न चन्दनस्य रसः मानवं तथा तर्पयति ।
उत्तर – चन्दनरसः
(ङ) सर्वदा शारदा अस्माकं सन्निधिं क्रियात् ।
उत्तर – सर्वं ददाति इति
(च) शारदाम्भोजम् इव वदनं यस्याः सा अस्माकं वदनाम्बुजे सन्निधिं क्रियात् ।
उत्तर – शारदाम्भोजवदना
(छ) अनुद्वेगकरं वाक्यं वाङ्मयं तपः उच्यते।
उत्तर – न उद्वेगकरम् इति
13. वाल्मीकिवर्गः व्यासवर्गश्च (प्रश्न-उत्तर क्रीडा)
वाल्मीकिवर्गः व्यासवर्गः
(क) 'अम्भोजः' इति शब्दस्य पर्यायः कः ? अम्बुजः / नीरजः
शरद् (ख) 'शरत्कालीन' इति कस्य अर्थः ?
(ग) सरस्वत्याः कोशः कथं वर्धते ? व्ययतः
विद्यया समम् (घ) कया समं चक्षुर्न विद्यते ?
(ङ) कीदृशी वाणी पुरुषं प्रसन्नं करोति ? मधुरभाषिणी वाणी
अस्माकं वदनाम्बुजे (च) शारदा सर्वदा कुत्र निवसेत् ?
(छ) उद्वेगकरम् इत्यस्य कः विलोमः ? अनुद्वेगकरम्
पादम् (ज) सप्तमे श्लोके 'चतुर्थांशः' कस्य अर्थः ?
(झ) 'ऊहः' शब्दस्य कः विलोमः ? अपोहः
शुश्रूषा (ञ) बुद्धेः प्रथमः गुणः कः ?
Advertisement