8_लौहतुला

 

लौहतुला-प्रश्नोत्तराणि

प्रश्न: 1. एकपदेन उत्तरं लिखत-
(
क) वणिक्पुत्रस्य किं नाम आसीत्?

उत्तर: (क) धनदेवः


(
ख) तुला कैः भक्षिता आसीत्?
उत्तर: (ख) मूषकैः

 

(ग) तुला कीदृशी आसीत्?
उत्तर: (ग) लौहघटिता

 

(घ) पुत्रः केन हृतः इति जीर्णधनः वदति?

उत्तर: (घ) श्येनेन


(
ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर: (ङ) राजकुलम्

 

प्रश्न: 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(
क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?

उत्तर: (क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् यत् यस्मिन् देशे स्ववीर्यतः भोगाः भुक्ताः तत्र विभवहीनः यः वसेत् सः पुरुषाधमः।


(
ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
उत्तर: (ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत् यत् तुला मूषकैः भक्षिता।

 

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
उत्तर: (ग) जीर्णधनः गिरिगुहाद्वारं बृहत्शिलया आच्छाद्य गृहम् आगतः।

 

(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
उत्तर: (घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं अवदत् यत् नदीतटात् शिशुः श्येनेन हृतः।

 

(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर: (ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

 

प्रश्न: 3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(
क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तर: (क) कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
 

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
उत्तर: (ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?

 

(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।
उत्तर: (ग) वणिक् गिरिगुहां कया आच्छादितवान्?

 

(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर: (घ) सभ्यैः तौ परस्परं संबोध्य केन/कथम् सन्तोषितौ?

 


प्रश्न: 4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत-
(
क) यत्र देशे अथवा स्थाने …….. भोगाः भुक्ता ……….. विभवहीनः यः …….. स पुरुषाधमः।

उत्तर: (क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।


(
ख) राजन्! यत्र लौहसहस्रस्य …….. मूषकाः …….. तत्र श्येनः ……..हरेत् अत्र संशयः न।
उत्तर: (ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकः हरेत् अत्र संशयः न।

 

प्रश्नः 5. तत्पदं रेखाङ्कितं कुरुत यत्र-
(
क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

उत्तर: (क) लोहसहस्रस्य

 

(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्

उत्तर: (ख) सत्त्वरम्

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्
उत्तर: (ग) स्ववीर्यतः

 


प्रश्न: 6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-


उत्तर:

          



प्रश्न: 7. समस्तपदं विग्रहं वा लिखत-



उत्तर:   विग्रहः                        समस्तपदम्
(
क) स्नानस्य उपकरणम्              स्नानोपकरणम्
(
ख) गिरेः गुहायाम्                   गिरिगुहायाम्
(
ग) धर्मस्य अधिकारी                धर्माधिकारी
(
घ) विभवैः हीनाः                    विभवहीनाः

 

 

(अ)       यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया-
 
      

उत्तर: जीर्णधनः नाम वणिक्पुत्रः धनाभावात् देशान्तरं गन्तुम् इच्छति स्म। सः स्वलौहतुला श्रेष्ठिनः गृहे निक्षेप भूतां कृत्वा प्रस्थितः। स्वपुरम् पुनः आगत्य सः श्रेष्ठिनं लौहतुलां दातुम् अकथयत्। लौहतुला मूषकैः भक्षिता इति ज्ञात्वा सः श्रेष्ठिनः पुत्रं आदाय स्नानार्थं गतः। गिरिगुहायां च तम् शिशुम् प्रक्षिप्य गृहम् आगतः। कथितः च यत् शिशुः श्येनेन हृतः। कलहं कुर्वन्तौ उभौ राजकुलं गतौ। वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तौ तुला-शिशु-प्रदानेन सन्तोषितौ।

6 - भ्रान्तो बालः

 

भ्रान्तो बालः – प्रश्नोत्तराणि

प्रश्न: 1. एकपदेन उत्तरं लिखत--
(क) कः तन्द्रालुः भवति?

उत्तर: (क) बालकः


(
ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?

उत्तर: (ख) उद्याने

(
ग) के मधुसंग्रहव्यग्राः अवभवन्?

उत्तर: (ग) मधुकराः

(
घ) चटकः कया तृणशलाकादिकम् आददाति?
उत्तर: (घ) चञ्चवा

(ङ) चटकः कस्य शाखायां नीड रचयति?
उत्तर: (ङ) वटदुमस्य
 

(च) बालकः कीदृशं श्वानं पश्यति?
उत्तर: (च) पलायमानम्
 

(छ) श्वानः कीदृशे दिवसे पर्यटति?
उत्तर: (छ) निदाघदिवसे

 

 

प्रश्न: 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत--
(
क) बालः कदा क्रीडितुं अगच्छत्?

उत्तर: (क) बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।

(
ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?
उत्तर: (ख) बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन्।

(ग) मधुकरः बालकस्य आह्वान केन कारणेन तिरस्कृतवान्?
उत्तर: (ग) मधुसंग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।

 

(घ) बालकः कीदृशं चटकम् अपश्यत्?
उत्तर: (घ) बालकः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्।

 

(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
उत्तर: (ङ) “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।

 

(च) खिन्नः बालकः श्वानं किम् अकथयत्?
उत्तर: (च) खिन्नः बालकः श्वानं अकथयत्, “अस्मिन् निदाघदिवसे किं पर्यटसि? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”

(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?
उत्तर: (छ) भग्नमनोरथः बालः अचिन्तयत्, “अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे तन्द्रालुतायाम् कुत्सा समापादिता।”

08 - तिरुक्कुलरल् - सूक्ति - सौरभम्

  अभ्यास कार्यम् १.      प्रश्नानाम् उत्तरम् एकपदेन लिखत- (क)        पिता पुत्राय बाल्ये किं यच्छति ? उत्तरम् – विद्याधनं । (ख)    ...