अभ्यास
कार्यम्
1. अधोलिखितप्रश्नानाम्
उत्तरम् एकपदेन लिखत-
(क) 'वार्णेय' इति सम्बोधनं कस्मै
प्रयुक्तम् ?
उत्तरम् – श्री कृष्णाय
(ख) 'न इच्छन् अपि' इत्यस्य स्थाने किं
पदं श्लोके प्रयुक्तम् ?
उत्तरम् – अनिच्छन्नपि
(ग) कामः कस्मात्
गुणात् सम्भवति ?
उत्तरम् – रजोगुणात्
(घ) 'ध्यायतः' पदं कस्य पदस्य
विशेषणम् ?
उत्तरम् – पुंसः
(ङ) कानि वशे कृत्वा
नरः कामं नाशयितुं शक्नोति ?
उत्तरम् – इन्द्रियाणि
(च) कः
ज्ञानविज्ञाननाशकः ?
उत्तरम् – कामः
(छ) मनः वशीकर्तुं किं
कर्तव्यम् ?
उत्तरम् – अभ्यासः
(ज) केषु आसक्तिः न
कर्तव्या ?
उत्तरम् – विषयेषु
/ इन्द्रियविषयेषु
2. पूर्णवाक्येन
संस्कृतभाषया उत्तराणि लिखत -
(क) कः नरः सुखी भवति ?
उत्तरम् – यः
कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः नरः सुखी भवति
(ख) क्रोधः कस्मात्
जायते ?
उत्तरम् – क्रोधः कामात्
जायते
(ग) सम्मोहात् किं भवति
?
उत्तरम् – सम्मोहात् स्मृतिविभ्रमः
भवति
(घ) कस्य निग्रहम्
अर्जुनः वायोरिव सुदुष्करं मन्यते ?
उत्तरम् – मनसः निग्रहम्
अर्जुनः वायोरिव सुदुष्करं मन्यते
(ङ) चञ्चलं मनः कथं
गृह्यते ?
उत्तरम् – चञ्चलं मनः अभ्यासेन
वैराग्येण च गृह्यते
(च) पाठे 'वार्णेय' इति पदं कस्मै
प्रयुक्तम् ?
उत्तरम् - पाठे 'वार्णेय' इति पदं श्री कृष्णाय प्रयुक्तम्
3. स्थूलपदानि
आधृत्य प्रश्ननिर्माणं कुरुत-
(क) मनुष्यः कामेन
प्रयुक्तः एव पापस्य आचरणं करोति।
उत्तरम् –केन
(ख) कामः एव क्रोधं
जनयति ।
उत्तरम् – कं
(ग) काम एव अस्माकं
शत्रुः ।
उत्तरम् – केषां
(घ) यः क्रोधस्य वेगं
जीवने सहते स सुखी नरः ।
उत्तरम् – कीदृशः
(ङ) विषयाणाम् उपभोगेन
तेषु आसक्तिः जायते।
उत्तरम् – केषाम्
(च) मनसः
निग्रहः वायोः इव कठिनः ।
उत्तरम् – कस्य
(छ) कामः
ज्ञानस्य विज्ञानस्य च नाशं करोति ।
उत्तरम् – कः
(ज) कामस्य नाशाय इन्द्रियाणि
वशे करणीयानि ।
उत्तरम् – कानि
4. अधोलिखितान्
प्रश्नान् यथानिर्देशम् उत्तरत
(क) 'अथ केन प्रयुक्तोऽयं
पापं चरति पूरुषः।' अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तरम् – चरति
(ख) 'शरीरविमोक्षणात्
प्राक् यः सोढुं शक्नोति ।' अत्र 'पूर्वम्' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तरम् – प्राक्
(ग) 'चञ्चलं हि मनः कृष्ण!' अत्र किं विशेष्यपदम् ?
उत्तरम् – मनः
(घ) 'सः युक्तः सः सुखी नरः' अस्मिन् वाक्ये 'योगी' इत्यर्थे किं पदं
प्रयुक्तम् ?
उत्तरम् – युक्तः
(ङ) 'तस्याहं निग्रहं मन्ये
वायोरिव सुदुष्करम्' अत्र सुकरम् इति पदस्य कि विलोमपदं प्रयुक्तम् ?
उत्तरम् – सुदुष्करम्
(च) 'मनो दुर्निग्रहं
कृष्ण!'
अत्र किं विशेषणपदम् अस्ति ?
उत्तरम् – दुर्निग्रहम्
5. विशेषणविशेष्यपदानाम्
उचितं मेलनं कुरुत -
(अ) (ब)
(क) सुखी (i) क्रोधः
(ख) चञ्चलम् (ii) वेगम्
(ग) रजोगुणसमुद्भवः (iii) निग्रहम्
(घ) कामक्रोधोद्भवम् (iv) नरः
(ङ) सुदुष्करम् (v) मनः
उत्तरम् –
(अ) (ब)
(क) सुखी (iv) नरः
(ख) चञ्चलम् (v) मनः
(ग) रजोगुणसमुद्भवः (i) क्रोधः
(घ) कामक्रोधोद्भवम् (ii) वेगम्
(ङ) सुदुष्करम् (iii) निग्रहम्
6. श्लोकात्
समुचितं पदं विचित्य अन्वये रिक्तस्थानानि पूरयत-
उत्तरम् –
(क) यः शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवम् वेगम् इह एव सोढुम् शक्नोति स नरः युक्तः स सुखी (भवति)
।
(ख) विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते। सङ्गात् कामः सञ्जायते । कामात् क्रोधः अभिजायते ।
(ग) कृष्ण ! मनः हि चञ्चलम्, बलवदृढम् प्रमाथि । अहम् तस्य निग्रहम् वायोः इव दुष्करम् मन्ये |
(घ) भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि ! नियम्य ज्ञानविज्ञाननाशनम् एनम् पाप्मानम् हि प्रजहि |
(ङ) महाबाहो ! असंशयम् मनः दुर्निग्रहम् चलम्
कौन्तेय !, (एतत्) तु अभ्यासेन वैराग्येण च गृह्यते |
7. रेखाङ्कितपदानां
प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत
(क) "चञ्चलं हि
मनः कृष्ण! प्रमाथि बलवदृढम् ।"
(i) मथनशीलम् (ii) चिन्तनशीलम् (iii) गुणवत्
उत्तरम् – मथनशीलम्
(ख) “ध्यायतः विषयान् पुंसः
सङ्गस्तेपूपजायते ।"
(i) मित्रस्य (ii) पुरुषस्य (iii) शिक्षकस्य
उत्तरम् – पुरुषस्य
(ग) तस्मात् त्वम् आदौ
इन्द्रियाणि नियम्य पाप्मानं प्रजहि ।
(i) सर्वप्रथमम् (ii) रात्रौ (iii) यदा कदा
उत्तरम् – सर्वप्रथमम्
(घ) अभ्यासेन तु कौन्तेय
वैराग्येण च गृह्यते ।
(i) भीमः (ii) अर्जुन (iii) नकुल
उत्तरम् – अर्जुन
(ङ) क्रोधाद् भवति सम्मोहः
।
(i) उद्विग्नता (ii) निर्धनता (iii) व्याकुलता
उत्तरम् – उद्विग्नता
8. रेखाङ्कितपदानां
समस्तपदं विग्रहं वा लिखत -
(क) अनिच्छन्
अपि वार्णेय ! बलादिव नियोजितः ।
उत्तरम् – न इच्छन् ।
(ख) एषः क्रोधः रजोगुणात्
समुद्भवः अस्ति ।
उत्तरम् – रजोगुणसमुद्भवः ।
(ग) शरीरस्य
विमोक्षणात् प्राक् यः क्रोधस्य वेगं सोढुं शक्नोति ।
उत्तरम् – शरीरविमोक्षणात् ।
(घ) असंशयं
महाबाहो ! मनो दुर्निग्रहं चलम्।
उत्तरम् – न संशयं ।
(ङ) मनो दुःखेन
निग्रहं चलम्।
उत्तरम् – दुर्निग्रहम् ।
9. मञ्जूषायाः विचित्य अधोलिखित क्रियापदानाम्
अर्थान् लिखत -
(अर्हति, जानीहि, करोति, उद्भवति, अवगच्छामि, विनाशय, वशीक्रियते, विनश्यति)
(क) विद्धि ………………… |
(ख) मन्ये ………………… |
(ग) शक्नोति ………………… |
(घ) गृह्यते ………………… |
(ङ) प्रणश्यति ………………… |
(च) चरति ………………… |
(छ) सञ्जायते ………………… |
(ज) प्रजहि ………………… |
उत्तरम् –
(क) विद्धि जानीहि |
(ख) मन्ये अवगच्छामि |
(ग) शक्नोति अर्हति |
(घ) गृह्यते वशीक्रियते |
(ङ) प्रणश्यति विनश्यति |
(च) चरति करोति |
(छ) सञ्जायते उद्भवति |
(ज) प्रजहि विनाशय |
10. अशुद्धं
कथनं (X) इति चिह्नेन
दर्शयत-
अभ्यासेन तु
कौन्तेय वैराग्येण च गृह्यते ।
(क) भोः अर्जुन! इदं
मनः चञ्चलं,
दुःखेन निग्रहीतुं शक्यम् ।
उत्तरम् – x (न)
(ख) चञ्चलमपि मनः सततम् अभ्यासेन वशीकर्तुं शक्यते । या क्रिया पुनः पुनः क्रियते सः अभ्यासः कथ्यते। मनसः वशीकरणाय निरन्तरं या साधना क्रियते सः अभ्यासः एव ।
उत्तरम् – x (न)
(ग) सांसारिकभोगाः नश्वराः अतः एतेषां पुनः पुनः चिन्तनेन तेषु विरक्तिः जायते । एषा विरक्तिः (वैराग्यम्) एव मनः \ वशीकर्तुं शक्नोति ।
उत्तरम् – x (न)
(घ) हे कुन्तीपुत्र !
सततं अभ्यासेन सांसारिकभोगान् प्रति वैराग्येण च मनः वशं गच्छति ।
11. अस्मिन्
वृक्षे कानिचित् त्याज्यानि कानिचित् च फलानि ग्राह्याणि । ग्राह्याणां फलानां
नामानि अधः लिखत-
![]() |
१.
सत्यम्
२.
परोपकारः
३.
पुण्यम्
४.
सुस्मृतिः
५.
विवेकः
६.
शान्तिः
७.
ज्ञानम्
८. जागृतिः
.png)

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें