Advertisement

04 - आज्ञा गुरूणां हि अविचारणीया

संस्कृत अभ्यास कार्यम् - अभ्यासः प्रश्नाः

अभ्यासः प्रश्नाः 📚

१. एकपदेन संस्कृतभाषया उत्तरत-
(क) राजपुत्राः प्रासादे कैः सह क्रीडन्ति स्म ?
उत्तरम्: वानरैः
(ख) राजगृहे कीदृशं मेषयूथम् आसीत् ?
उत्तरम्: बालवाहनयोग्यम्
(ग) जिह्वालोलुपतया मेषः कुत्र प्रविशति स्म ?
उत्तरम्: महानसम्
(घ) के पाकशालां प्रविष्टं मेषं ताडयन्ति स्म ?
उत्तरम्: सूपकाराः
(ङ) केन जाज्वल्यमानशरीरः मेषः अश्वशालां प्रविशति ?
उत्तरम्: वह्निना
(च) मेषस्य क्षितौ प्रलुठतः तृणेषु काः समुत्थिताः ?
उत्तरम्: वह्निज्वालाः
(छ) किमर्थम् अश्वाः इतस्ततः अधावन् ?
उत्तरम्: प्राणत्राणाय
(ज) केषां वह्निदोषः कपीनां मेदसा शाम्यति ?
उत्तरम्: अश्वानाम्
(झ) कस्य आदेशं श्रुत्वा सर्वे कपयः भयत्रस्ताः जाताः ?
उत्तरम्: राज्ञः
(ञ) केषाम् आज्ञा अविचारणीया भवति ?
उत्तरम्: गुरूणाम्
२. पूर्णवाक्येन उत्तरत -
(क) जिह्वालोलुपतया मेषः अहर्निशं किं करोति स्म ?
उत्तरम्: जिह्वालोलुपतया मेषः अहर्निशं महानसं प्रविश्य यद् पश्यति तत् भक्षयति स्म ।
(ख) सूपकाराः मेषं कैः वस्तुभिः ताडयन्ति स्म ?
उत्तरम्: सूपकाराः मेषं काष्ठं, मृण्मयं भाजनं, कास्यं ताम्रपात्रं वा यत् पश्यन्ति तेन तं ताडयन्ति स्म ।
(ग) मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः किम् अचिन्तयत् ?
उत्तरम्: मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः अचिन्तयत् – ‘एतेषां कलहो न वानराणां हिताय’ इति ।
(घ) मदोद्धताः कपयः वानरयूथपतिं किम् अवदन् ?
उत्तरम्: ‘न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षारतिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः’ इति अवदन् ।
(ङ) सविषादः राजा वैद्यान् आहूय किम् अकथयत् ?
उत्तरम्: राजा वैद्यान् – ‘हा ! दग्धाः मे घोटकाः कथं रक्षणीयाः ? सपदि उपायः क्रियताम् |’ इति अकथयत् ।
(च) राजादेशं श्रुत्वा भयत्रस्ताः कपयः किम् अचिन्तयन् ?
उत्तरम्: राजादेशं श्रुत्वा ‘हा ! हताः वयम् | अवधीरिताः अस्माभिः गुरुजनोपदेशाः |’ इति अकथयन् ।
(छ) केषाम् उपदेशाः नैव अवधीरणीयाः ?
उत्तरम्: गुरूणाम् उपदेशाः नैव अवधीरणीयाः ।
(ज) नरः कीदृशं गृहं दूरतः परिवर्जयेत् ?
उत्तरम्: यत्र गृहे नित्यम् अकारणः कलहः भवति तादृशं गृहं दूरतः परिवर्जयेत् ।
३. अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
यथा - कथनम्-राजपुत्राः वानरयूथं भोज्यपदार्थैः पुष्टिं नयन्ति स्म। ➡ प्रश्नः - राजपुत्राः वानरयूथं कैः पुष्टिं नयन्ति स्म ?
(क) अश्वाः प्राणत्राणाय इतस्ततः अधावन् ।
उत्तरम्: किमर्थम्
(ख) राजा वैद्यान् आहूय अश्वरक्षार्थम् अपृच्छत् ।
उत्तरम्: कान्
(ग) सूपकारेण मेषः अर्धज्वलितकाष्ठेन ताडितः ।
उत्तरम्: केन
(घ) प्राज्ञः कलहयुक्तं गृहं दूरतः परिवर्जयेत् ।
उत्तरम्: कः
(ङ) सूर्योदये तमः नश्यति ।
उत्तरम्: किं
(च) ज्वलन् मेषः अश्वशालां प्रविशति ।
उत्तरम्: कुत्र
४. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म ।' अत्र क्रियापदं किम् ?
उत्तरम्: प्रतिवसति स्म ।
(ख) 'एवं विचार्य सः यूथपः सर्वान् कपीन् आहूय रहसि अवदत् ।' अत्र 'कपीन्' पदस्य किं विशेषणपदं प्रयुक्तम्?
उत्तरम्: सर्वान्
(ग) 'मदोद्धताः कपयः प्रहस्य अवदन्।' अस्मिन् वाक्ये किं कर्तृपदं प्रयुक्तम्?
उत्तरम्: कपयः
(घ) 'हा दग्धाः मे घोटकाः कथं रक्षणीयाः? ' वाक्येऽस्मिन् 'अश्वाः' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तरम्: घोटकाः
(ङ) 'मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।' अत्र 'निर्गत्य' पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तरम्: प्रविश्य
(च) 'ज्वालमालाकुलाः' पदस्य विशेष्यपदं पाठात् चित्वा लिखत ।
उत्तरम्: अश्वाः
५. 'क' स्तम्भे विशेषणपदानि 'ख' स्तम्भे च विशेष्यपदानि दत्तानि, तेषां समुचितमेलनं कृत्वा लिखत -
'क' स्तम्भः (विशेषणम्)'ख' स्तम्भः (विशेष्यम्)
(क) कुवाक्यान्तम्सौहृदम्
(ख) मदोद्धताःकपयः
(ग) ऊर्णाप्रचुरःमेषः
(घ) कुराजान्तानिराष्ट्राणि
(ङ) मृण्मयम्भाजनम्
(च) कलहान्तानिहर्म्याणि
(छ) साश्रुनयनःयूथपतिः
(ज) कुकर्मान्तम्यशः
६. (अ) स्थूलाक्षराणि सर्वनामपदानि कस्मै प्रयुक्तानि? समक्ष प्रदत्तस्थाने लिखत -
यथा - अस्माकं विनाशकारकः भविष्यति । ➡ वानरेभ्यः
(क) तस्य पुत्राः वानरैः सह क्रीडन्ति स्म । ➡ भूपतये (चन्द्राय)
(ख) एतेषां कलहः न वानराणां हिताय । ➡ मेषाय सूपकारेभ्यः च
(ग) सर्वेषां संक्षयः न भवेत् । ➡ वानरेभ्यः
(घ) वयम् अटव्यां रूक्षफलानि नैव भक्षयिष्यामः । ➡ वानरेभ्यः
(ङ) अहं तु वनं गच्छामि। ➡ वानरयूथपतये
(च) हा ! दग्धा मे घोटकाः । ➡ भूपतये (चन्द्राय)
(छ) अवधीरिताः अस्माभिः गुरुजनोपदेशाः । ➡ वानरेभ्यः
(ज) यूयम् अस्य कुपरिणामं न जानीथ। ➡ वानरेभ्यः
(आ) कोष्ठकात् समुचितं पदं विचित्य रिक्तस्थानानि पूरयत-
(क) कस्मिंश्चित् नगरे चन्द्रः भूपतिः प्रतिवसति स्म । (कस्याञ्चित्/कस्मिंश्चित्)
(ख) तस्मिन् एव राजगृहे मेषयूथम् अपि आसीत् । (तस्य/तस्मिन्)
(ग) अन्यस्मिन् अहनि स मेषः महानसं प्रविशति । (अन्यस्मिन् / पूर्वस्मिन्)
(घ) तस्य क्षितौ प्रलुठतः तृणेषु अग्निज्वालाः समुत्थिताः । (तस्याः / तस्य)
(ङ) सर्वे भयत्रस्ताः कपयः अचिन्तयन्। (सर्वाः/सर्वे)
७. घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि -

उत्तरम् (क्रमबद्धम्):

  1. भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म ।
  2. राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म ।
  3. सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत् ।
  4. रसनास्वादलुब्धाः मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः ।
  5. अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः ।
  6. ज्वलन् स मेषः अश्वशालां प्रविष्टः। परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन् ।
  7. राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत् ।
  8. भयत्रस्ता कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः ।
८. अधः समस्तपदानां विग्रहाः दत्ताः। उदाहरणम् अनुसृत्य समस्तपदानि लिखत-
विग्रहाःसमस्तपदानिसमासः
(क) मेषाणां मध्येमेषमध्येषष्ठीतत्पुरुषः
(ख) वानराणां हितायवानरहितायषष्ठीतत्पुरुषः
(ग) प्राणानां त्राणायप्राणत्राणायषष्ठीतत्पुरुषः
(घ) कपीनां मेदसाकपिमेदसाषष्ठीतत्पुरुषः
(ङ) राज्ञः आदेशम्राजादेशःषष्ठीतत्पुरुषः
(च) जिह्वायाः लोलुपतयाजिह्वालोलुपतयाषष्ठीतत्पुरुषः
(छ) अश्वानां नाशःअश्वनाशःषष्ठीतत्पुरुषः
(ज) यूथस्य पतिःयूथपतिःषष्ठीतत्पुरुषः
९. अधः मञ्जूषायां प्रत्येकशब्दस्य त्रीणि समानार्थकानि पदानि दत्तानि तानि चित्राणां समक्षं लिखत -
(अग्निः, वानरः, घोटकः, भूपतिः, सूपकारः, कपिः, राजा, वह्निः, अश्वः, हयः, मर्कटः, नृपः, अनलः, औदनिकः, पाचकः।)
चित्राणि - समानार्थक पदानि
उत्तरम्:
  1. वानरः, कपिः, मर्कटः
  2. भूपतिः, राजा, नृपः
  3. अग्निः, वह्निः, अनलः
  4. सूपकारः, औदनिकः, पाचकः
  5. घोटकः, अश्वः, हयः
१०. अधोलिखितानां पङ्क्तीनां शुद्धं भावार्थं (✔) चिह्नेन चिह्नीक्रियताम् -

(क) 'एतेषां कलहो न वानराणां हिताय' अर्थात् -

(I) मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति ।

(ख) 'तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्' अर्थात् -

(III) यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत् ।

(ग) 'रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ' अर्थात् -

(II) यूयं सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति ।

(घ) 'हा हन्त ! वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः' अर्थात् -

(III) वानराः पश्चात्तापं कुर्वन्ति - 'स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखाः ।'

११. अधोलिखितपङ्किषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चिनुत -
(क) मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति । ➡ (iii) पाकशालाम्
(ख) 'कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।' ➡ (i) राजभवनानि
(ग) 'अन्यस्मिन् अहनि महानसं प्रविष्टः मेषः सूपकारेण ताडितः । ➡ (iii) दिवसे
(घ) 'तस्य क्षितौ प्रलुठतः तृणेषु वह्निज्वालाः समुत्थिताः ।' ➡ (ii) भूमौ
(ङ) 'सपदि उपायः क्रियताम्।' ➡ (iii) झटिति
१२. रेखाङ्कितपदानां समस्तपदं विग्रहं वा लिखत -
(क) कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। ➡ भुवः + पतिः
(ख) राजपुत्राः वानरक्रीडारताः वानराणां यूथः, तम् नित्यमेव पुष्टिं नयन्ति स्म । ➡ वानरयूथः
(ग) तेषां मेषाणां मध्ये एकः मेषः जिह्वालोलुपः आसीत् । ➡ मेषमध्ये
(घ) एकः मेषः जिह्वालोलुपतया महानसं प्रविशति स्म । ➡ जिह्वायाः लोलुपतया
(ङ) एतद् राज्ञः भवनं परित्यज्य वनं गच्छामः । ➡ राजभवनम्
(च) जाज्वल्यमानं शरीरं यस्य सः मेषः अश्वशालां प्रविशति | ➡ जाज्वल्यमानशरीरः
Advertisement