अभ्यासः प्रश्नाः 📚
१. एकपदेन संस्कृतभाषया उत्तरत-
(क) राजपुत्राः प्रासादे कैः सह क्रीडन्ति स्म ?
उत्तरम्: वानरैः
उत्तरम्: वानरैः
(ख) राजगृहे कीदृशं मेषयूथम् आसीत् ?
उत्तरम्: बालवाहनयोग्यम्
उत्तरम्: बालवाहनयोग्यम्
(ग) जिह्वालोलुपतया मेषः कुत्र प्रविशति स्म ?
उत्तरम्: महानसम्
उत्तरम्: महानसम्
(घ) के पाकशालां प्रविष्टं मेषं ताडयन्ति स्म ?
उत्तरम्: सूपकाराः
उत्तरम्: सूपकाराः
(ङ) केन जाज्वल्यमानशरीरः मेषः अश्वशालां प्रविशति ?
उत्तरम्: वह्निना
उत्तरम्: वह्निना
(च) मेषस्य क्षितौ प्रलुठतः तृणेषु काः समुत्थिताः ?
उत्तरम्: वह्निज्वालाः
उत्तरम्: वह्निज्वालाः
(छ) किमर्थम् अश्वाः इतस्ततः अधावन् ?
उत्तरम्: प्राणत्राणाय
उत्तरम्: प्राणत्राणाय
(ज) केषां वह्निदोषः कपीनां मेदसा शाम्यति ?
उत्तरम्: अश्वानाम्
उत्तरम्: अश्वानाम्
(झ) कस्य आदेशं श्रुत्वा सर्वे कपयः भयत्रस्ताः जाताः ?
उत्तरम्: राज्ञः
उत्तरम्: राज्ञः
(ञ) केषाम् आज्ञा अविचारणीया भवति ?
उत्तरम्: गुरूणाम्
उत्तरम्: गुरूणाम्
२. पूर्णवाक्येन उत्तरत -
(क) जिह्वालोलुपतया मेषः अहर्निशं किं करोति स्म ?
उत्तरम्: जिह्वालोलुपतया मेषः अहर्निशं महानसं प्रविश्य यद् पश्यति तत् भक्षयति स्म ।
उत्तरम्: जिह्वालोलुपतया मेषः अहर्निशं महानसं प्रविश्य यद् पश्यति तत् भक्षयति स्म ।
(ख) सूपकाराः मेषं कैः वस्तुभिः ताडयन्ति स्म ?
उत्तरम्: सूपकाराः मेषं काष्ठं, मृण्मयं भाजनं, कास्यं ताम्रपात्रं वा यत् पश्यन्ति तेन तं ताडयन्ति स्म ।
उत्तरम्: सूपकाराः मेषं काष्ठं, मृण्मयं भाजनं, कास्यं ताम्रपात्रं वा यत् पश्यन्ति तेन तं ताडयन्ति स्म ।
(ग) मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः किम् अचिन्तयत् ?
उत्तरम्: मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः अचिन्तयत् – ‘एतेषां कलहो न वानराणां हिताय’ इति ।
उत्तरम्: मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः अचिन्तयत् – ‘एतेषां कलहो न वानराणां हिताय’ इति ।
(घ) मदोद्धताः कपयः वानरयूथपतिं किम् अवदन् ?
उत्तरम्: ‘न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षारतिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः’ इति अवदन् ।
उत्तरम्: ‘न वयं स्वर्गसमानोपभोगान् विहाय अटव्यां क्षारतिक्त-कषाय-कटु-रूक्षफलानि भक्षयिष्यामः’ इति अवदन् ।
(ङ) सविषादः राजा वैद्यान् आहूय किम् अकथयत् ?
उत्तरम्: राजा वैद्यान् – ‘हा ! दग्धाः मे घोटकाः कथं रक्षणीयाः ? सपदि उपायः क्रियताम् |’ इति अकथयत् ।
उत्तरम्: राजा वैद्यान् – ‘हा ! दग्धाः मे घोटकाः कथं रक्षणीयाः ? सपदि उपायः क्रियताम् |’ इति अकथयत् ।
(च) राजादेशं श्रुत्वा भयत्रस्ताः कपयः किम् अचिन्तयन् ?
उत्तरम्: राजादेशं श्रुत्वा ‘हा ! हताः वयम् | अवधीरिताः अस्माभिः गुरुजनोपदेशाः |’ इति अकथयन् ।
उत्तरम्: राजादेशं श्रुत्वा ‘हा ! हताः वयम् | अवधीरिताः अस्माभिः गुरुजनोपदेशाः |’ इति अकथयन् ।
(छ) केषाम् उपदेशाः नैव अवधीरणीयाः ?
उत्तरम्: गुरूणाम् उपदेशाः नैव अवधीरणीयाः ।
उत्तरम्: गुरूणाम् उपदेशाः नैव अवधीरणीयाः ।
(ज) नरः कीदृशं गृहं दूरतः परिवर्जयेत् ?
उत्तरम्: यत्र गृहे नित्यम् अकारणः कलहः भवति तादृशं गृहं दूरतः परिवर्जयेत् ।
उत्तरम्: यत्र गृहे नित्यम् अकारणः कलहः भवति तादृशं गृहं दूरतः परिवर्जयेत् ।
३. अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
यथा - कथनम्-राजपुत्राः वानरयूथं भोज्यपदार्थैः पुष्टिं नयन्ति स्म। ➡ प्रश्नः - राजपुत्राः वानरयूथं कैः पुष्टिं नयन्ति स्म ?
(क) अश्वाः प्राणत्राणाय इतस्ततः अधावन् ।
उत्तरम्: किमर्थम्
उत्तरम्: किमर्थम्
(ख) राजा वैद्यान् आहूय अश्वरक्षार्थम् अपृच्छत् ।
उत्तरम्: कान्
उत्तरम्: कान्
(ग) सूपकारेण मेषः अर्धज्वलितकाष्ठेन ताडितः ।
उत्तरम्: केन
उत्तरम्: केन
(घ) प्राज्ञः कलहयुक्तं गृहं दूरतः परिवर्जयेत् ।
उत्तरम्: कः
उत्तरम्: कः
(ङ) सूर्योदये तमः नश्यति ।
उत्तरम्: किं
उत्तरम्: किं
(च) ज्वलन् मेषः अश्वशालां प्रविशति ।
उत्तरम्: कुत्र
उत्तरम्: कुत्र
४. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत -
(क) 'कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म ।' अत्र क्रियापदं किम् ?
उत्तरम्: प्रतिवसति स्म ।
उत्तरम्: प्रतिवसति स्म ।
(ख) 'एवं विचार्य सः यूथपः सर्वान् कपीन् आहूय रहसि अवदत् ।' अत्र 'कपीन्' पदस्य किं विशेषणपदं प्रयुक्तम्?
उत्तरम्: सर्वान्
उत्तरम्: सर्वान्
(ग) 'मदोद्धताः कपयः प्रहस्य अवदन्।' अस्मिन् वाक्ये किं कर्तृपदं प्रयुक्तम्?
उत्तरम्: कपयः
उत्तरम्: कपयः
(घ) 'हा दग्धाः मे घोटकाः कथं रक्षणीयाः? ' वाक्येऽस्मिन् 'अश्वाः' इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तरम्: घोटकाः
उत्तरम्: घोटकाः
(ङ) 'मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।' अत्र 'निर्गत्य' पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तरम्: प्रविश्य
उत्तरम्: प्रविश्य
(च) 'ज्वालमालाकुलाः' पदस्य विशेष्यपदं पाठात् चित्वा लिखत ।
उत्तरम्: अश्वाः
उत्तरम्: अश्वाः
५. 'क' स्तम्भे विशेषणपदानि 'ख' स्तम्भे च विशेष्यपदानि दत्तानि, तेषां समुचितमेलनं कृत्वा लिखत -
| 'क' स्तम्भः (विशेषणम्) | 'ख' स्तम्भः (विशेष्यम्) |
|---|---|
| (क) कुवाक्यान्तम् | सौहृदम् |
| (ख) मदोद्धताः | कपयः |
| (ग) ऊर्णाप्रचुरः | मेषः |
| (घ) कुराजान्तानि | राष्ट्राणि |
| (ङ) मृण्मयम् | भाजनम् |
| (च) कलहान्तानि | हर्म्याणि |
| (छ) साश्रुनयनः | यूथपतिः |
| (ज) कुकर्मान्तम् | यशः |
६. (अ) स्थूलाक्षराणि सर्वनामपदानि कस्मै प्रयुक्तानि? समक्ष प्रदत्तस्थाने लिखत -
यथा - अस्माकं विनाशकारकः भविष्यति । ➡ वानरेभ्यः
(क) तस्य पुत्राः वानरैः सह क्रीडन्ति स्म । ➡ भूपतये (चन्द्राय)
(ख) एतेषां कलहः न वानराणां हिताय । ➡ मेषाय सूपकारेभ्यः च
(ग) सर्वेषां संक्षयः न भवेत् । ➡ वानरेभ्यः
(घ) वयम् अटव्यां रूक्षफलानि नैव भक्षयिष्यामः । ➡ वानरेभ्यः
(ङ) अहं तु वनं गच्छामि। ➡ वानरयूथपतये
(च) हा ! दग्धा मे घोटकाः । ➡ भूपतये (चन्द्राय)
(छ) अवधीरिताः अस्माभिः गुरुजनोपदेशाः । ➡ वानरेभ्यः
(ज) यूयम् अस्य कुपरिणामं न जानीथ। ➡ वानरेभ्यः
(आ) कोष्ठकात् समुचितं पदं विचित्य रिक्तस्थानानि पूरयत-
(क) कस्मिंश्चित् नगरे चन्द्रः भूपतिः प्रतिवसति स्म । (कस्याञ्चित्/कस्मिंश्चित्)
(ख) तस्मिन् एव राजगृहे मेषयूथम् अपि आसीत् । (तस्य/तस्मिन्)
(ग) अन्यस्मिन् अहनि स मेषः महानसं प्रविशति । (अन्यस्मिन् / पूर्वस्मिन्)
(घ) तस्य क्षितौ प्रलुठतः तृणेषु अग्निज्वालाः समुत्थिताः । (तस्याः / तस्य)
(ङ) सर्वे भयत्रस्ताः कपयः अचिन्तयन्। (सर्वाः/सर्वे)
७. घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि -
उत्तरम् (क्रमबद्धम्):
- भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपदार्थैः पुष्टिं नयन्ति स्म ।
- राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म ।
- सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत् ।
- रसनास्वादलुब्धाः मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः ।
- अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः ।
- ज्वलन् स मेषः अश्वशालां प्रविष्टः। परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन् ।
- राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत् ।
- भयत्रस्ता कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः ।
८. अधः समस्तपदानां विग्रहाः दत्ताः। उदाहरणम् अनुसृत्य समस्तपदानि लिखत-
| विग्रहाः | समस्तपदानि | समासः |
|---|---|---|
| (क) मेषाणां मध्ये | मेषमध्ये | षष्ठीतत्पुरुषः |
| (ख) वानराणां हिताय | वानरहिताय | षष्ठीतत्पुरुषः |
| (ग) प्राणानां त्राणाय | प्राणत्राणाय | षष्ठीतत्पुरुषः |
| (घ) कपीनां मेदसा | कपिमेदसा | षष्ठीतत्पुरुषः |
| (ङ) राज्ञः आदेशम् | राजादेशः | षष्ठीतत्पुरुषः |
| (च) जिह्वायाः लोलुपतया | जिह्वालोलुपतया | षष्ठीतत्पुरुषः |
| (छ) अश्वानां नाशः | अश्वनाशः | षष्ठीतत्पुरुषः |
| (ज) यूथस्य पतिः | यूथपतिः | षष्ठीतत्पुरुषः |
९. अधः मञ्जूषायां प्रत्येकशब्दस्य त्रीणि समानार्थकानि पदानि दत्तानि तानि चित्राणां समक्षं लिखत -
(अग्निः, वानरः, घोटकः, भूपतिः, सूपकारः, कपिः, राजा, वह्निः, अश्वः, हयः, मर्कटः, नृपः, अनलः, औदनिकः, पाचकः।)
उत्तरम्:
- वानरः, कपिः, मर्कटः
- भूपतिः, राजा, नृपः
- अग्निः, वह्निः, अनलः
- सूपकारः, औदनिकः, पाचकः
- घोटकः, अश्वः, हयः
१०. अधोलिखितानां पङ्क्तीनां शुद्धं भावार्थं (✔) चिह्नेन चिह्नीक्रियताम् -
(क) 'एतेषां कलहो न वानराणां हिताय' अर्थात् -
✔ (I) मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति ।
(ख) 'तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्' अर्थात् -
✔ (III) यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत् ।
(ग) 'रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणामं न जानीथ' अर्थात् -
✔ (II) यूयं सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति ।
(घ) 'हा हन्त ! वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः' अर्थात् -
✔ (III) वानराः पश्चात्तापं कुर्वन्ति - 'स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखाः ।'
११. अधोलिखितपङ्किषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चिनुत -
(क) मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति । ➡ (iii) पाकशालाम्
(ख) 'कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।' ➡ (i) राजभवनानि
(ग) 'अन्यस्मिन् अहनि महानसं प्रविष्टः मेषः सूपकारेण ताडितः । ➡ (iii) दिवसे
(घ) 'तस्य क्षितौ प्रलुठतः तृणेषु वह्निज्वालाः समुत्थिताः ।' ➡ (ii) भूमौ
(ङ) 'सपदि उपायः क्रियताम्।' ➡ (iii) झटिति
१२. रेखाङ्कितपदानां समस्तपदं विग्रहं वा लिखत -
(क) कस्मिंश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। ➡ भुवः + पतिः
(ख) राजपुत्राः वानरक्रीडारताः वानराणां यूथः, तम् नित्यमेव पुष्टिं नयन्ति स्म । ➡ वानरयूथः
(ग) तेषां मेषाणां मध्ये एकः मेषः जिह्वालोलुपः आसीत् । ➡ मेषमध्ये
(घ) एकः मेषः जिह्वालोलुपतया महानसं प्रविशति स्म । ➡ जिह्वायाः लोलुपतया
(ङ) एतद् राज्ञः भवनं परित्यज्य वनं गच्छामः । ➡ राजभवनम्
(च) जाज्वल्यमानं शरीरं यस्य सः मेषः अश्वशालां प्रविशति | ➡ जाज्वल्यमानशरीरः