Advertisement

10 - त्वं आपणं गच्छ

संस्कृत अभ्यास कार्यम् - वयम् अभ्यासं कुर्मः

वयम् अभ्यासं कुर्मः 📝

१. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु ।
उत्तरम्:
लिखतु लिखताम् लिखन्तु
लिख लिखतम् लिखत
लिखानि लिखाव लिखाम
क्रीडतु क्रीडताम् क्रीडन्तु
क्रीड क्रीडतम् क्रीडत
क्रीडानि क्रीडाव क्रीडाम
२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।

(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।

उत्तरम्: वर्षतु, सन्तु

मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु । एषः देशः शान्तः भवतु । सर्वे सज्जनाः भयं विना जीवनं यापयन्तु ।

उत्तरम्: वर्षन्तु, भवतु, यापयन्तु

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।

उत्तरम्: भवन्तु, सन्तु, पश्यन्तु

सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु । सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।

उत्तरम्: तिष्ठन्तु, भवन्तु, पश्यन्तु, भवतु

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ।।

उत्तरम्: सन्तु, सन्तु

जलं सर्वेषां कृतं मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु। जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।

उत्तरम्: भवतु

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरं वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।

उत्तरम्: निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु, अस्तु

नीतिकारा: प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु । न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।

उत्तरम्: कुर्वन्तु, भवतु, प्रशंसन्तु

३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
यथा- पठति – पठतु
पठति ➡ पठतु खादति ➡ खादतु
क्रीडामि ➡ क्रीडानि पश्यसि ➡ पश्य
हसति ➡ हसतु नयसि ➡ नय
नृत्यति ➡ नृत्यतु गच्छामि ➡ गच्छानि
४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
यथा- उत्तिष्ठतु – उत्तिष्ठन्तु
उत्तिष्ठतु ➡ उत्तिष्ठन्तु खादतु ➡ खादन्तु
आगच्छतु ➡ आगच्छन्तु पठतु ➡ पठन्तु
उपविशतु ➡ उपविशन्तु पततु ➡ पतन्तु
गच्छतु ➡ गच्छन्तु -
५. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।
यथा- दशमकक्षायाः छात्रा : वेदिकाम् अलङ्कुर्वन्ति । ➡ दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।
  1. (क) प्रधानाध्यापक: वार्षिकं विवरणं पठति । ➡ प्रधानाध्यापक: वार्षिकं विवरणं पठतु ।
  2. (ख) बालिकाः नृत्यन्ति । ➡ बालिकाः नृत्यन्तु ।
  3. (ग) यूयम् आसन्दान् स्थापयथ । ➡ यूयम् आसन्दान् स्थापयत ।
  4. (घ) छात्रनायक : स्वागतं करोति । ➡ छात्रनायकः स्वागतं करोतु ।
  5. (ङ) मम मित्रं धन्यवादं निवेदयति । ➡ मम मित्रं धन्यवादं निवेदयतु ।
  6. (च) संस्कृत – शिक्षिका वेदिका सञ्चालयति । ➡ संस्कृत – शिक्षिका वेदिकां संचालयतु ।
  7. (छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति । ➡ कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु ।
६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
(शृण्वन्तु, गच्छन्तु, लिखन्तु, पठन्तु, पृच्छन्तु, कुर्वन्तु, वदन्तु, उत्तिष्ठन्तु, उपविशन्तु, अभिवादयन्तु)

उत्तरम्: यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु उपचार वाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु । तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु

७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
मार्गे सूचनादीपाः फलकानि च
८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।
यथा - छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
  1. (क) अम्ब! अहं क्रीडार्थं गच्छानि । (गच्छ्)
  2. (ख) आगच्छन्तु वयं प्रार्थनागीतं गायाम । (गाय्)
  3. (ग) ज्वरः अस्ति । पुत्र! वृष्टौ न क्रीड । (क्रीड्)
  4. (घ) लते! भवती मम उपनेत्रम् आनयतु । (आ + नय्)
  5. (ङ) आर्ये! अहम् अन्तः प्रविशानि । (प्रविश्)
  6. (च) अहं पृच्छामि त्वम् उत्तरं वद । (वद्)
  7. (छ) यूयं शीघ्रं नगरम् आगच्छत । (आ + गच्छ्)
  8. (ज) तात! वयं कदा चलचित्र पश्याम ? (पश्य्)
९. चिह्नाति (? ! । ,) भावानुसारं वाक्ये योजयन्तु ।
यथा – राकेश ! कुत्र असि ? अत्र आगच्छ ।
  1. (क) पुत्र किं करोषि ➡ पुत्र ! किं करोषि ?
  2. (ख) क: श्लोकं वदति ➡ क: श्लोकं वदति ?
  3. (ग) भवान् तत्र तिष्ठतु ➡ भवान् तत्र तिष्ठतु ।
  4. (घ) आचार्यः कदा आगच्छति ➡ आचार्यः कदा आगच्छति ?
  5. (ङ) अहो रमणीयः पर्वतः ➡ अहो ! रमणीयः पर्वतः ।
Advertisement