10 - त्वं आपणं गच्छ

 



वयम् अभ्यासं कुर्मः

 १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु 

उत्तरम्:


लिखतु

लिखताम्

लिखन्तु

लिख

लिखतम्

लिखत

लिखानि

लिखाव

लिखाम

क्रीडतु

क्रीडताम्

क्रीडन्तु

क्रीड

क्रीडतम्

क्रीड

क्रीडानि

क्रीडाव

क्रीडाम



 

 

 

 


२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।

(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी
     
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।
उतरम् वर्षतु, सन्तु ।

मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु ।
एषः देशः शान्तः भवतु । सर्वे सज्जनाः भयं विना जीवनं यापयन्तु ।

(एवम् परमेश्वरं प्रति प्रार्थना अस्ति )
उत्तरम्: वर्षन्तु, भवतु, यापयन्तु ।

 

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
     
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।
उत्तरम्: भवन्तु, सन्तु, पश्यन्तु ।
सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु । सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।
उत्तरम्: तिष्ठन्तु, भवन्तु, पश्यन्तु, भवतु।

 

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
    
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः । ।
उत्तरम्: सन्तु, सन्तु

जलं सर्वेषां कृतं मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु। जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।
उत्तरम्: भवतु ।

 

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
     
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
    
अद्यैव वा मरणमस्तु युगान्तरं वा
    
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।
उत्तरम्: निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु, अस्तु ।

 

नीतिकारा: प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु । न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।
उत्तरम्: कुर्वन्तु, भवतु, प्रशंसन्तु


३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
              
यथा- पठति पठतु
उत्तरम्:
पठति पठतु                खादति खादतु
क्रीडामि क्रीडानि           पश्यसि पश्य
हसति हसतु                       नयसि नय
नृत्यति नृत्यतु             गच्छामि गच्छानि


४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
       
यथा- उत्तिष्ठतु उत्तिष्ठन्तु
उत्तरम्:
उत्तिष्ठतु उत्तिष्ठन्तु
खादतु खादन्तु                    आगच्छतु आगच्छन्तु
पठतु पठन्तु                        उपविशतु उपविशन्तु
पततु पतन्तु                       गच्छतु गच्छन्तु

 

५. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।

यथा- दशमकक्षायाः छात्रा : वेदिकाम् अलङ्कुर्वन्ति 
      
दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।

(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति 
उत्तरम्: प्रधानाध्यापक: वार्षिकं विवरणं पठतु            

(ख) बालिकाः नृत्यन्ति 
उत्तरम्: बालिकाः नृत्यन्तु

(ग) यूयम् आसन्दान् स्थापयथ 
उत्तरम्: यूयम् आसन्दान् स्थापयत

(घ) छात्रनायक : स्वागतं करोति 
उत्तरम्: छात्रनायकः स्वागतं करोतु

(ङ) मम मित्रं धन्यवादं निवेदयति 
उत्तरम्: मम मित्रं धन्यवादं निवेदयतु

(च) संस्कृत शिक्षिका वेदिका सञ्चालयति 
उत्तरम्: संस्कृत शिक्षिका वेदिकां संचालयतु

(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति 
उत्तरम्: कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु



६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
    (शृण्वन्तु, गच्छन्तु, लिखन्तु, पठन्तु, पृच्छन्तु, कुर्वन्तु, वदन्तु, उत्तिष्ठन्तु, उपविशन्तु, अभिवादयन्तु)

         यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ………… उपचारवाक्येन तम् ……… यदा सः वदति तदा एव सर्वे …….. । तस्य सूचनानुसारं पाठं …….. । गृहपाठ ……. । परस्परं वार्तालापं न ……… प्रश्नस्य उत्तरं ……… । संशयं …….. । तस्य उपदेशम् …… । बहि: मा  …….
उत्तरम्: यदा अध्यापक : कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु उपचार वाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु । तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु

 


७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु । 

उत्तरम्:


  


 

८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।

यथा - छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु (उत् + तिष्ठ्)

(क) अम्ब! अहं क्रीडार्थं ……….। (गच्छ्)
उत्तरम्: अम्ब! अहं क्रीडार्थ गच्छानि

(ख) आगच्छन्तु वयं प्रार्थनागीतं ……..। (गाय्)
उत्तरम्: आगच्छन्तु वयं प्रार्थनागीतं गायाम |

(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ………। (क्रीड्)
उत्तरम्: ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड

(घ) लते! भवती मम उपनेत्रम् ……… । (आ + नय्)
उत्तरम्: लते! भवती मम उपनेत्रम् आनयतु

(ङ) आर्ये! अहम् अन्तः ……… । (प्रविश्)
उत्तरम्: आर्ये! अहम् अन्तः प्रविशानि

(च) अहं पृच्छामि त्वम् उत्तरं ……… । (वद्)
उत्तरम्: अहं पृच्छामि त्वम् उत्तरं वद

(छ) यूयं शीघ्रं नगरम् ……… । (आ + गच्छ्)
उत्तरम्: यूयं शीघ्रं नगरम् आगच्छत

(ज) तात! वयं कदा चलचित्र ………? (पश्य्)
उत्तरम्: तात! वयं कदा चलचित्रं पश्याम

 

९. चिह्नाति (? ! ,) भावानुसारं वाक्ये योजयन्तु ।

         यथा राकेश ! कुत्र असि ? अत्र आगच्छ ।

(क) पुत्र किं करोषि
उत्तरम्: पुत्र ! किं करोषि ?                        


(ख) क: श्लोकं वदति
उत्तरम्: क: श्लोकं वदति ?

(ग) भवान् तत्र तिष्ठतु
उत्तरम्: भवान् तत्र तिष्ठतु ।

(घ) आचार्यः कदा आगच्छति
उत्तरम्: आचार्यः कदा आगच्छति ?

(ङ) अहो रमणीयः पर्वतः
उत्तरम्: अहो ! रमणीयः पर्वतः ।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

10 - त्वं आपणं गच्छ

  वयम् अभ्यासं कुर्मः   १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु   । उत्तरम्: लिखतु लिखत...