Advertisement

06 - राष्ट्रं संरक्ष्यमेव हि

संस्कृत अभ्यास कार्यम् - महाभारत प्रसंगः

अभ्यास कार्यम् 🏹

१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) द्रौपद्याः पुत्राः केन हताः ?
उत्तरम्: द्रौणिना / द्रोणपुत्रेण
(ख) वारणावते पाण्डवान् कः अरक्षत् ?
उत्तरम्: भीमः
(ग) नकुलः कस्य सारथिः अभवत् ?
उत्तरम्: भीमस्य
(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम् ?
उत्तरम्: मानुषेषु
(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत ?
उत्तरम्: चक्रम्
(च) आकाशात् काः पतन्ति स्म?
उत्तरम्: उल्काः
(छ) कः न भासते स्म ?
उत्तरम्: सहस्रांशुः
२. पूर्णवाक्येन उत्तरं लिख्यताम् –
(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रम् अशिक्षयत् ?
उत्तरम्: द्रोणाचार्यः प्रीतः भूत्वा अर्जुनम् ब्रह्मास्त्रम् अशिक्षयत्।
(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति ?
उत्तरम्: अश्वत्थामा पाण्डवानाम् विनाशाय ब्रह्मास्त्रं मोचयति।
(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति ?
उत्तरम्: भीमसेनः नकुलेन सह द्रोणिं / द्रोणपुत्रं अनुगच्छति।
(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म ?
उत्तरम्: द्रोणपुत्रः श्रीकृष्णात् सुदर्शनचक्रम् वाञ्छति स्म।
(ङ) ‘अस्त्रं संहरतम्’ इति कौ वदतः ?
उत्तरम्: ‘अस्त्रं संहरतम्’ इति व्यासनारदौ वदतः।
(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति ?
उत्तरम्: ब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः राष्ट्रं च संरक्ष्याः सन्ति।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) पापकर्मणा द्रौणिना मे पुत्राः हताः ।
उत्तरम्: पापकर्मणा द्रौणिना कस्याः पुत्राः हताः ?
(ख) अस्मिन् संसारे कश्चिदपि त्वया सदृशः नास्ति ।
उत्तरम्: कुत्र कश्चिदपि त्वया सदृशः नास्ति ?
(ग) न जानाति भवान् द्रौणेः चपलां प्रकृतिम् ।
उत्तरम्: न जानाति भवान् कस्य चपलां प्रकृतिम् ?
(घ) आचार्यः पुत्रं सावधानम् अकरोत् ।
उत्तरम्: कः पुत्रं सावधानम् अकरोत् ?
(ङ) प्रचण्डज्वालः अग्निः परितः प्रसरति ।
उत्तरम्: कीदृशः अग्निः परितः प्रसरति ?
(च) गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।
उत्तरम्: गगनात् सहस्रशः काः भूमौ पतन्ति ?
४. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) ‘युधिष्ठिरः, भीमः द्रौपदी च रणभूमौ प्रविशन्ति ।’ अत्र क्रियापदम्: प्रविशन्ति
(ख) ‘वीरजननी त्वं शोचितुं न अर्हसि ।’ अत्र कर्तृपदम्: त्वम्
(ग) ‘आचार्येण कीदृशः अनर्थः कृतः ?’ अत्र विशेष्यपदम्: अनर्थः
(घ) ‘गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।’ अत्र ‘धरायाम्’ इत्यर्थे पदम्: भूमौ
(ङ) ‘सकलं जगद् ध्वस्तं भविष्यति ।’ अत्र विशेषणपदम्: सकलं
(च) ‘अस्त्रशिक्षाप्रदानात् पूर्वम् आचार्यः पुत्रं सावधानम् अकरोत् ।’ अत्र ‘पश्चात्’ इति पदस्य विलोमपदम्: पूर्वम्
५. विशेषणानां विशेष्यैः सह मेलनं क्रियताम् -
विशेषणम्विशेष्यम्
(क) सव्येनपाणिना
(ख) पापकर्मणाद्रौणिना
(ग) देवदानवपूजितम्चक्रम्
(घ) सकलामही
(ङ) सहस्रशःउल्काः
(च) विषमेसमये
६. अधोलिखितेषु पदेषु यत् पदम् अर्थदृष्ट्या भिन्नं तत् रेखाङ्कितं कुरुत -
(क) सहस्त्रांशुः, हिमांशुः, दिनकरः, भानुः ।
(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः ।
(ग) पवनः, अनिलः, अनलः, वायुः ।
(घ) शैलाः, भूधराः, खेचराः, पर्वताः ।
(ङ) नरः, मनुष्यः, पन्नगः, मानवः ।
७. श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूरयत -
(क) तात ! परम-आपद्गतेन अपि त्वया रणे इदम् अस्त्रम् विशेषतः मानुषेषु न एव प्रयोक्तव्यम्
(ख) नाना शस्त्रविदः ये अपि पूर्वे महारथाः अतीताः तैः एतद् अस्त्रम् मनुष्येषु न कथञ्चन प्रयुक्तम्।
(ग) पाण्डवाः त्वम् च राष्ट्रम् च सदा संरक्ष्यम् एव हि, महाभुज ! तस्मात् त्वम् एतद् दिव्यम् अस्त्रम् संहर।
८. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत -
  1. द्रौणिना द्रौपद्याः भ्रातरः पुत्राः च हताः।
  2. द्रौपदी द्रौणपुत्रं दण्डयितुं कथयति।
  3. युधिष्ठिरः भीमं नकुलेन सह द्रौणिम् अनुगन्तुं कथयति।
  4. श्रीकृष्णः युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति।
  5. इदं दृष्ट्वा अश्वत्थामा ब्रह्मास्त्रं मुञ्चति।
  6. द्रोणपुत्रं दृष्ट्वा अर्जुनः ब्रह्मास्त्रं मुञ्चति।
  7. एतम् अनर्थं दृष्ट्वा नारदव्यासौ तत्रागच्छतः।
  8. तौ विश्वस्य संरक्षणार्थं दिव्यम् अस्त्रं संहर्तुम् कथयतः।
९. रेखाङ्कितपदेषु प्रसङ्गानुसारम् उचितम् अर्थचयनं कुरुत –
(क) किम् इदं घोरम् आपतितम् ।
उत्तरम्: (ii) भयङ्करम्
(ख) समीचीनं न कृतं भवता ।
उत्तरम्: (iii) उचितम्
(ग) पवनः स्तब्धः जातः ।
उत्तरम्: (ii) स्थगितः
(घ) सकलं जगत् ध्वस्तं भविष्यति ।
उत्तरम्: (i) समस्तम्
(ङ) द्वादश समाः पर्जन्यः तद् राष्ट्रं नाभिवर्षति ।
उत्तरम्: (ii) वर्षाणि
(च) पर्जन्यः द्वादश समाः तद् राष्ट्रं नाभिवर्षति ।
उत्तरम्: (iii) मेघः
Advertisement