अभ्यास कार्यम् 🏹
१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) द्रौपद्याः पुत्राः केन हताः ?
उत्तरम्: द्रौणिना / द्रोणपुत्रेण
उत्तरम्: द्रौणिना / द्रोणपुत्रेण
(ख) वारणावते पाण्डवान् कः अरक्षत् ?
उत्तरम्: भीमः
उत्तरम्: भीमः
(ग) नकुलः कस्य सारथिः अभवत् ?
उत्तरम्: भीमस्य
उत्तरम्: भीमस्य
(घ) आपद्गतेन अपि ब्रह्मास्त्रं केषु न प्रयोक्तव्यम् ?
उत्तरम्: मानुषेषु
उत्तरम्: मानुषेषु
(ङ) अश्वत्थामा श्रीकृष्णं किम् अयाचत ?
उत्तरम्: चक्रम्
उत्तरम्: चक्रम्
(च) आकाशात् काः पतन्ति स्म?
उत्तरम्: उल्काः
उत्तरम्: उल्काः
(छ) कः न भासते स्म ?
उत्तरम्: सहस्रांशुः
उत्तरम्: सहस्रांशुः
२. पूर्णवाक्येन उत्तरं लिख्यताम् –
(क) द्रोणाचार्यः प्रीतः भूत्वा कं ब्रह्मास्त्रम् अशिक्षयत् ?
उत्तरम्: द्रोणाचार्यः प्रीतः भूत्वा अर्जुनम् ब्रह्मास्त्रम् अशिक्षयत्।
उत्तरम्: द्रोणाचार्यः प्रीतः भूत्वा अर्जुनम् ब्रह्मास्त्रम् अशिक्षयत्।
(ख) अश्वत्थामा केषां विनाशाय ब्रह्मास्त्रं मोचयति ?
उत्तरम्: अश्वत्थामा पाण्डवानाम् विनाशाय ब्रह्मास्त्रं मोचयति।
उत्तरम्: अश्वत्थामा पाण्डवानाम् विनाशाय ब्रह्मास्त्रं मोचयति।
(ग) भीमसेनः नकुलेन सह कम् अनुगच्छति ?
उत्तरम्: भीमसेनः नकुलेन सह द्रोणिं / द्रोणपुत्रं अनुगच्छति।
उत्तरम्: भीमसेनः नकुलेन सह द्रोणिं / द्रोणपुत्रं अनुगच्छति।
(घ) द्रोणपुत्रः श्रीकृष्णात् किं वाञ्छति स्म ?
उत्तरम्: द्रोणपुत्रः श्रीकृष्णात् सुदर्शनचक्रम् वाञ्छति स्म।
उत्तरम्: द्रोणपुत्रः श्रीकृष्णात् सुदर्शनचक्रम् वाञ्छति स्म।
(ङ) ‘अस्त्रं संहरतम्’ इति कौ वदतः ?
उत्तरम्: ‘अस्त्रं संहरतम्’ इति व्यासनारदौ वदतः।
उत्तरम्: ‘अस्त्रं संहरतम्’ इति व्यासनारदौ वदतः।
(च) ब्रह्मास्त्रस्य निषेधेन के के संरक्ष्याः सन्ति ?
उत्तरम्: ब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः राष्ट्रं च संरक्ष्याः सन्ति।
उत्तरम्: ब्रह्मास्त्रस्य निषेधेन पाण्डवाः, द्रौणिः राष्ट्रं च संरक्ष्याः सन्ति।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) पापकर्मणा द्रौणिना मे पुत्राः हताः ।
उत्तरम्: पापकर्मणा द्रौणिना कस्याः पुत्राः हताः ?
उत्तरम्: पापकर्मणा द्रौणिना कस्याः पुत्राः हताः ?
(ख) अस्मिन् संसारे कश्चिदपि त्वया सदृशः नास्ति ।
उत्तरम्: कुत्र कश्चिदपि त्वया सदृशः नास्ति ?
उत्तरम्: कुत्र कश्चिदपि त्वया सदृशः नास्ति ?
(ग) न जानाति भवान् द्रौणेः चपलां प्रकृतिम् ।
उत्तरम्: न जानाति भवान् कस्य चपलां प्रकृतिम् ?
उत्तरम्: न जानाति भवान् कस्य चपलां प्रकृतिम् ?
(घ) आचार्यः पुत्रं सावधानम् अकरोत् ।
उत्तरम्: कः पुत्रं सावधानम् अकरोत् ?
उत्तरम्: कः पुत्रं सावधानम् अकरोत् ?
(ङ) प्रचण्डज्वालः अग्निः परितः प्रसरति ।
उत्तरम्: कीदृशः अग्निः परितः प्रसरति ?
उत्तरम्: कीदृशः अग्निः परितः प्रसरति ?
(च) गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।
उत्तरम्: गगनात् सहस्रशः काः भूमौ पतन्ति ?
उत्तरम्: गगनात् सहस्रशः काः भूमौ पतन्ति ?
४. अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत -
(क) ‘युधिष्ठिरः, भीमः द्रौपदी च रणभूमौ प्रविशन्ति ।’ अत्र क्रियापदम्: प्रविशन्ति
(ख) ‘वीरजननी त्वं शोचितुं न अर्हसि ।’ अत्र कर्तृपदम्: त्वम्
(ग) ‘आचार्येण कीदृशः अनर्थः कृतः ?’ अत्र विशेष्यपदम्: अनर्थः
(घ) ‘गगनात् सहस्रशः उल्काः भूमौ पतन्ति ।’ अत्र ‘धरायाम्’ इत्यर्थे पदम्: भूमौ
(ङ) ‘सकलं जगद् ध्वस्तं भविष्यति ।’ अत्र विशेषणपदम्: सकलं
(च) ‘अस्त्रशिक्षाप्रदानात् पूर्वम् आचार्यः पुत्रं सावधानम् अकरोत् ।’ अत्र ‘पश्चात्’ इति पदस्य विलोमपदम्: पूर्वम्
५. विशेषणानां विशेष्यैः सह मेलनं क्रियताम् -
| विशेषणम् | विशेष्यम् |
|---|---|
| (क) सव्येन | पाणिना |
| (ख) पापकर्मणा | द्रौणिना |
| (ग) देवदानवपूजितम् | चक्रम् |
| (घ) सकला | मही |
| (ङ) सहस्रशः | उल्काः |
| (च) विषमे | समये |
६. अधोलिखितेषु पदेषु यत् पदम् अर्थदृष्ट्या भिन्नं तत् रेखाङ्कितं कुरुत -
(क) सहस्त्रांशुः, हिमांशुः, दिनकरः, भानुः ।
(ख) वृक्षाः, द्रुमाः, महीधराः, महीरुहाः ।
(ग) पवनः, अनिलः, अनलः, वायुः ।
(घ) शैलाः, भूधराः, खेचराः, पर्वताः ।
(ङ) नरः, मनुष्यः, पन्नगः, मानवः ।
७. श्लोकमाश्रित्य समुचितक्रमेण अन्वयं पूरयत -
(क) तात ! परम-आपद्गतेन अपि त्वया रणे इदम् अस्त्रम् विशेषतः मानुषेषु न एव प्रयोक्तव्यम्।
(ख) नाना शस्त्रविदः ये अपि पूर्वे महारथाः अतीताः तैः एतद् अस्त्रम् मनुष्येषु न कथञ्चन प्रयुक्तम्।
(ग) पाण्डवाः त्वम् च राष्ट्रम् च सदा संरक्ष्यम् एव हि, महाभुज ! तस्मात् त्वम् एतद् दिव्यम् अस्त्रम् संहर।
८. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत -
- द्रौणिना द्रौपद्याः भ्रातरः पुत्राः च हताः।
- द्रौपदी द्रौणपुत्रं दण्डयितुं कथयति।
- युधिष्ठिरः भीमं नकुलेन सह द्रौणिम् अनुगन्तुं कथयति।
- श्रीकृष्णः युधिष्ठिरार्जुनाभ्यां सह युद्धक्षेत्रं गच्छति।
- इदं दृष्ट्वा अश्वत्थामा ब्रह्मास्त्रं मुञ्चति।
- द्रोणपुत्रं दृष्ट्वा अर्जुनः ब्रह्मास्त्रं मुञ्चति।
- एतम् अनर्थं दृष्ट्वा नारदव्यासौ तत्रागच्छतः।
- तौ विश्वस्य संरक्षणार्थं दिव्यम् अस्त्रं संहर्तुम् कथयतः।
९. रेखाङ्कितपदेषु प्रसङ्गानुसारम् उचितम् अर्थचयनं कुरुत –
(क) किम् इदं घोरम् आपतितम् ।
उत्तरम्: (ii) भयङ्करम्
उत्तरम्: (ii) भयङ्करम्
(ख) समीचीनं न कृतं भवता ।
उत्तरम्: (iii) उचितम्
उत्तरम्: (iii) उचितम्
(ग) पवनः स्तब्धः जातः ।
उत्तरम्: (ii) स्थगितः
उत्तरम्: (ii) स्थगितः
(घ) सकलं जगत् ध्वस्तं भविष्यति ।
उत्तरम्: (i) समस्तम्
उत्तरम्: (i) समस्तम्
(ङ) द्वादश समाः पर्जन्यः तद् राष्ट्रं नाभिवर्षति ।
उत्तरम्: (ii) वर्षाणि
उत्तरम्: (ii) वर्षाणि
(च) पर्जन्यः द्वादश समाः तद् राष्ट्रं नाभिवर्षति ।
उत्तरम्: (iii) मेघः
उत्तरम्: (iii) मेघः