अभ्यास कार्यम् 🐍📖
१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत-
(क) प्रच्छन्नभाग्यः कुत्र अवसत् ?
उत्तरम्: कर्मपुरनगरे
उत्तरम्: कर्मपुरनगरे
(ख) प्रच्छन्नभाग्यः कम् पापमार्ग त्यक्तुम् अकथयत् ?
उत्तरम्: दुष्टबुद्धिम्
उत्तरम्: दुष्टबुद्धिम्
(ग) प्रच्छन्नभाग्यस्य पत्नी कीदृशी आसीत् ?
उत्तरम्: बुद्धिमती
उत्तरम्: बुद्धिमती
(घ) आपदां तरणिः किम् अस्ति ?
उत्तरम्: धैर्यम्
उत्तरम्: धैर्यम्
(ङ) पत्न्याः परामर्शेन सः कस्य क्षेत्रे कार्यं प्रारभत ?
उत्तरम्: कृषकस्यक्षेत्रे
उत्तरम्: कृषकस्यक्षेत्रे
(च) कीदृशः प्रच्छन्नभाग्यः स्वगृहं प्रत्यागच्छत् ?
उत्तरम्: समुपजातविवेकः
उत्तरम्: समुपजातविवेकः
(छ) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले स्थितः आसीत् ?
उत्तरम्: अश्वत्थस्य
उत्तरम्: अश्वत्थस्य
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत –
(क) दुष्टबुद्धिः कलशे कम् अपश्यत् ?
उत्तरम्: दुष्टबुद्धिः कलशे एकं भयङ्करम् विषधरम् अपश्यत्।
उत्तरम्: दुष्टबुद्धिः कलशे एकं भयङ्करम् विषधरम् अपश्यत्।
(ख) दुष्टबुद्धिः कलशं किमर्थं मित्रस्य गृहे अपातयत् ?
उत्तरम्: दुष्टबुद्धिः कलशम् स्वमित्रम् सर्पेण मारयितुम् इच्छन् मित्रस्य गृहे अपातयत्।
उत्तरम्: दुष्टबुद्धिः कलशम् स्वमित्रम् सर्पेण मारयितुम् इच्छन् मित्रस्य गृहे अपातयत्।
(ग) प्रच्छन्नभाग्यस्य चक्षुषी केन समुन्मीलिते ?
उत्तरम्: प्रच्छन्नभाग्यस्य चक्षुषी गुरूपदेशेन इव बालवचसा समुन्मीलिते।
उत्तरम्: प्रच्छन्नभाग्यस्य चक्षुषी गुरूपदेशेन इव बालवचसा समुन्मीलिते।
(घ) सर्पः कं दष्टवान् ?
उत्तरम्: सर्पः दुष्टबुद्धिम् दष्टवान्।
उत्तरम्: सर्पः दुष्टबुद्धिम् दष्टवान्।
(ङ) नरः कीदृशीं वृत्तिं समाचरेत् ?
उत्तरम्: नरः साधुवृत्तिम् समाचरेत्।
उत्तरम्: नरः साधुवृत्तिम् समाचरेत्।
(च) कलशपातशब्देन प्रबुद्धौ दम्पती किम् अपश्यताम् ?
उत्तरम्: कलशपातशब्देन प्रबुद्धौ दम्पती प्रचुरमणिमाणिक्यानाम् आभया भासमानं निजगृहम् अपश्यताम्।
उत्तरम्: कलशपातशब्देन प्रबुद्धौ दम्पती प्रचुरमणिमाणिक्यानाम् आभया भासमानं निजगृहम् अपश्यताम्।
(छ) परद्रव्ये अनासक्ता बुद्धिमती किं न्यवेदयत्?
उत्तरम्: परद्रव्ये अनासक्ता बुद्धिमती न्यवेदयत् – ‘नाथ ! विरम अस्माद् लोभात् ।’
उत्तरम्: परद्रव्ये अनासक्ता बुद्धिमती न्यवेदयत् – ‘नाथ ! विरम अस्माद् लोभात् ।’
३. अधोलिखितानि वाक्यानि पठित्वा स्थूलपदम् आश्रित्य प्रश्ननिर्माणं क्रियताम् –
(क) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
उत्तरम्: कं/किम् त्यक्त्वा उद्यमः क्रियताम् ?
उत्तरम्: कं/किम् त्यक्त्वा उद्यमः क्रियताम् ?
(ख) जलबिन्दुनिपातेन क्रमशः घटः पूर्यते ।
उत्तरम्: केन क्रमशः घटः पूर्यते?
उत्तरम्: केन क्रमशः घटः पूर्यते?
(ग) कृषकस्य क्षेत्रे श्रमं कृत्वा स धनम् अर्जितवान् ।
उत्तरम्: कृषकस्य क्षेत्रे किम् कृत्वा स धनम् अर्जितवान् ?
उत्तरम्: कृषकस्य क्षेत्रे किम् कृत्वा स धनम् अर्जितवान् ?
(घ) धैर्यम् आपदां तरणिः।
उत्तरम्: धैर्यम् कासाम् तरणिः?
उत्तरम्: धैर्यम् कासाम् तरणिः?
(ङ) नरः साधुवृत्तिं समाचरेत्।
उत्तरम्: नरः कीदृशीम्/काम् वृत्तिं समाचरेत् ?
उत्तरम्: नरः कीदृशीम्/काम् वृत्तिं समाचरेत् ?
(च) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् आभया भासमानम् अभवत् ।
उत्तरम्: प्रच्छन्नभाग्यस्य गृहम् कासाम् आभया अभवत् ?
उत्तरम्: प्रच्छन्नभाग्यस्य गृहम् कासाम् आभया अभवत् ?
४. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत-
(क) ‘साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् ।’ अत्र कर्तृपदम्: भवान्
(ख) ‘अहो विचित्रः स्वप्नो मया दृष्टः ।’ अत्र विशेषणपदम्: विचित्रः
(ग) ‘पतितात् कलशाद् बहिः निर्गत्य विषधरः दुष्टबुद्धिं दष्टवान् ।’ अत्र ‘प्रविश्य’ इति पदस्य विलोमपदम्: निर्गत्य
(घ) ‘अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत् ।’ अत्र क्रियापदम्: अचिन्तयत्
(ङ) ‘गृहे तस्य भार्या सपदि समागतं पतिं दृष्ट्वा अपृच्छत् ।’ अत्र ‘शीघ्रम्’ इति पदस्य पर्यायपदम्: सपदि
(च) ‘दुष्टबुद्धिः तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत् ।’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्: प्रच्छन्नभग्याय
उत्तरम्: प्रच्छन्नभग्याय
(छ) ‘विचित्रा खलु दैवगतिः।’ अत्र विशेष्यपदम्: दैवगतिः
५. घटनाक्रमानुसारं वाक्यानि लिखत –
- प्रच्छन्नभाग्यः नामकः एकः कुमारः कर्मपुरनगरे अवसत् ।
- बाल्ये सः दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि संलग्नः अभवत् ।
- मार्गे गच्छतः प्रच्छन्नभाग्यस्य मनः केनचित् बालवचसा प्रतिहतम् अभवत् ।
- सः पापपथं त्यक्त्वा गृहम् आगच्छत् ।
- पश्चात्तापेन दग्धमानसः सः सर्वं वृत्तान्तं भार्यायै निवेद्य सकरुणम् अक्रन्दत् ।
- पत्न्याः परामर्शेन सः परिश्रमं कृत्वा शनैः शनैः प्रभूतं धनम् अर्जितवान् ।
- मित्रस्य धनागमवृत्तान्तं श्रुत्वा दुष्टबुद्धिः तस्यैव गृहे चौर्यार्थम् अगच्छत् ।
- प्रच्छन्नभाग्यस्य स्वप्नवार्तां श्रुत्वा सः झटिति क्षेत्रम् अगच्छत् ।
- दुष्टबुद्धिः अश्वत्थमूलं खनित्वा सुवर्णकलशं प्राप्तवान् ।
- यदा सः सुवर्णकलशस्य आवरणम् अपसारितवान् तदैव तस्मिन् एकं भयङ्करं विषधरं दृष्टवान् ।
६. मञ्जूषायाः उपयुक्तपात्रेण सह विशेषणानि योजयत -
| प्रच्छन्नभाग्यः | दुष्टबुद्धिः | प्रच्छन्नभाग्यस्य पत्नी |
|---|---|---|
| विद्यापराङ्मुखः | चौरः | बुद्धिमती |
| परिश्रमी | कृतघ्नः | धैर्यवती |
| समुपजातविवेकः | लोभी | लोभरहिता |
| शान्तचित्तः | ईर्ष्यालुः | अनासक्ता |
७. 'क' स्तम्भस्य 'ख' स्तम्भेन सह उचितं संयोजनम् -
| स्तम्भ (क) | स्तम्भ (ख) |
|---|---|
| (क) सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि | (iii) साधुजनगर्हितं पन्थानं त्यजतु, भवान् |
| (ख) जलबिन्दुनिपातेन | (iv) क्रमशः पूर्यते घटः । |
| (ग) स हलकार्यं कृत्वा श्रमेण | (ii) प्रभूतं धनम् अर्जितवान् । |
| (घ) बुद्धिमती सा अवदत्-अलं चिन्तया | (v) आपदां तरणिः धैर्यम् । |
| (ङ) गुरूपदेशेन इव अनेन | (i) बालवचसा मम चक्षुषी समुन्मीलिते । |
८. अधोलिखितं कथनं कः कम् कथयति -
| कथनम् | कः | कम् |
|---|---|---|
| (क) कथं भवन्तौ सुपथं परित्यज्य कुपथेन गन्तुं प्रवृत्तौ ? | उदण्डः बालकः | प्रच्छन्नभाग्यम् दुष्टबुद्धिम् च |
| (ख) सखे! साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् । | प्रच्छन्नभाग्यः | दुष्टबुद्धिम् |
| (ग) इदानीम् विषादं त्यक्त्वा उद्यमः क्रियताम् । | प्रच्छन्नभाग्यस्य भार्या | प्रच्छन्नभाग्यम् |
| (घ) अहो विचित्रः स्वप्नः मया दृष्टः । | प्रच्छन्नभाग्यः | स्वभार्याम् |
| (ङ) नाथ! विरम अस्माद् लोभात् । | प्रच्छन्नभाग्यस्य भार्या | प्रच्छन्नभाग्यम् |
९. अधोदत्तशब्दानाम् त्रयः पर्यायाः -
| मूलशब्दः | पर्यायपदम् १ | पर्यायपदम् २ | पर्यायपदम् ३ |
|---|---|---|---|
| (क) रात्रिः | शर्वरी | निशा | रजनी |
| (ख) धनं | द्रविणम् | अर्थः | वित्तम् |
| (ग) सर्पः | भुजंगः | अहिः | विषधरः |
| (घ) दृष्ट्वा | वीक्ष्य | विलोक्य | प्रेक्ष्य |
| (ङ) नेत्रं | अक्षि | लोचनं | चक्षुः |
| (च) त्यक्त्वा | परित्यज्य | हित्वा | विहाय |
| (छ) गृहं | निकेतनम् | गेहम् | सदनम् |
१०. समस्तपदैः वाक्यानि पूरयत -
(क) क्लेशपरम्परा कस्य मानसं न सन्तापयति ?
(ख) गुरूपदेशः शिष्यस्य कल्याणाय भवति ।
(ग) परद्रव्ये आसक्तिः उचिता नास्ति ।
(घ) कलशपातेन तस्य निद्राभङ्गः अभवत् ।
(ङ) यः नरः विद्यापराङ्मुखः भवति, सः लोके आदरं न लभते ।
(च) साधुवृत्तिम् आचरेत् ।
(छ) रविकिरणाः गृहाभ्यन्तरे प्रविशन्ति ।
११. प्रसङ्गानुसारम् उचितम् अर्थं चित्वा लिखत -
(क) सन्धिं प्रकल्प्य कलशं गृहाभ्यन्तरे क्षिप्तवान् ।
उत्तरम्: (ii) रचयित्वा
उत्तरम्: (ii) रचयित्वा
(ख) प्रचुरमणिमाणिक्यानाम् आभया भासमानं गृहम् अपश्यताम् ।
उत्तरम्: (i) प्रकाशेन
उत्तरम्: (i) प्रकाशेन
(ग) आपदां तरणिः धैर्यम् ।
उत्तरम्: (iii) नौका
उत्तरम्: (iii) नौका
(घ) झटिति एव क्षेत्रं गतः ।
उत्तरम्: (ii) शीघ्रम्
उत्तरम्: (ii) शीघ्रम्
(ङ) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
उत्तरम्: (i) परिश्रमः
उत्तरम्: (i) परिश्रमः