Advertisement

07 - साधुवृत्तिं समाचरेत्

संस्कृत अभ्यास कार्यम् - प्रच्छन्नभाग्यस्य कथा

अभ्यास कार्यम् 🐍📖

१. अधोलिखितान् प्रश्नान् एकपदेन उत्तरत-
(क) प्रच्छन्नभाग्यः कुत्र अवसत् ?
उत्तरम्: कर्मपुरनगरे
(ख) प्रच्छन्नभाग्यः कम् पापमार्ग त्यक्तुम् अकथयत् ?
उत्तरम्: दुष्टबुद्धिम्
(ग) प्रच्छन्नभाग्यस्य पत्नी कीदृशी आसीत् ?
उत्तरम्: बुद्धिमती
(घ) आपदां तरणिः किम् अस्ति ?
उत्तरम्: धैर्यम्
(ङ) पत्न्याः परामर्शेन सः कस्य क्षेत्रे कार्यं प्रारभत ?
उत्तरम्: कृषकस्यक्षेत्रे
(च) कीदृशः प्रच्छन्नभाग्यः स्वगृहं प्रत्यागच्छत् ?
उत्तरम्: समुपजातविवेकः
(छ) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले स्थितः आसीत् ?
उत्तरम्: अश्वत्थस्य
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत –
(क) दुष्टबुद्धिः कलशे कम् अपश्यत् ?
उत्तरम्: दुष्टबुद्धिः कलशे एकं भयङ्करम् विषधरम् अपश्यत्।
(ख) दुष्टबुद्धिः कलशं किमर्थं मित्रस्य गृहे अपातयत् ?
उत्तरम्: दुष्टबुद्धिः कलशम् स्वमित्रम् सर्पेण मारयितुम् इच्छन् मित्रस्य गृहे अपातयत्।
(ग) प्रच्छन्नभाग्यस्य चक्षुषी केन समुन्मीलिते ?
उत्तरम्: प्रच्छन्नभाग्यस्य चक्षुषी गुरूपदेशेन इव बालवचसा समुन्मीलिते।
(घ) सर्पः कं दष्टवान् ?
उत्तरम्: सर्पः दुष्टबुद्धिम् दष्टवान्।
(ङ) नरः कीदृशीं वृत्तिं समाचरेत् ?
उत्तरम्: नरः साधुवृत्तिम् समाचरेत्।
(च) कलशपातशब्देन प्रबुद्धौ दम्पती किम् अपश्यताम् ?
उत्तरम्: कलशपातशब्देन प्रबुद्धौ दम्पती प्रचुरमणिमाणिक्यानाम् आभया भासमानं निजगृहम् अपश्यताम्।
(छ) परद्रव्ये अनासक्ता बुद्धिमती किं न्यवेदयत्?
उत्तरम्: परद्रव्ये अनासक्ता बुद्धिमती न्यवेदयत् – ‘नाथ ! विरम अस्माद् लोभात् ।’
३. अधोलिखितानि वाक्यानि पठित्वा स्थूलपदम् आश्रित्य प्रश्ननिर्माणं क्रियताम् –
(क) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
उत्तरम्: कं/किम् त्यक्त्वा उद्यमः क्रियताम् ?
(ख) जलबिन्दुनिपातेन क्रमशः घटः पूर्यते ।
उत्तरम्: केन क्रमशः घटः पूर्यते?
(ग) कृषकस्य क्षेत्रे श्रमं कृत्वा स धनम् अर्जितवान् ।
उत्तरम्: कृषकस्य क्षेत्रे किम् कृत्वा स धनम् अर्जितवान् ?
(घ) धैर्यम् आपदां तरणिः।
उत्तरम्: धैर्यम् कासाम् तरणिः?
(ङ) नरः साधुवृत्तिं समाचरेत्।
उत्तरम्: नरः कीदृशीम्/काम् वृत्तिं समाचरेत् ?
(च) प्रच्छन्नभाग्यस्य गृहम् मणीनाम् आभया भासमानम् अभवत् ।
उत्तरम्: प्रच्छन्नभाग्यस्य गृहम् कासाम् आभया अभवत् ?
४. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत-
(क) ‘साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् ।’ अत्र कर्तृपदम्: भवान्
(ख) ‘अहो विचित्रः स्वप्नो मया दृष्टः ।’ अत्र विशेषणपदम्: विचित्रः
(ग) ‘पतितात् कलशाद् बहिः निर्गत्य विषधरः दुष्टबुद्धिं दष्टवान् ।’ अत्र ‘प्रविश्य’ इति पदस्य विलोमपदम्: निर्गत्य
(घ) ‘अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत् ।’ अत्र क्रियापदम्: अचिन्तयत्
(ङ) ‘गृहे तस्य भार्या सपदि समागतं पतिं दृष्ट्वा अपृच्छत् ।’ अत्र ‘शीघ्रम्’ इति पदस्य पर्यायपदम्: सपदि
(च) ‘दुष्टबुद्धिः तु तस्य सद्वचनानि तिरस्कृत्य ग्रामाभिमुखं प्राचलत् ।’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम्: प्रच्छन्नभग्याय
(छ) ‘विचित्रा खलु दैवगतिः।’ अत्र विशेष्यपदम्: दैवगतिः
५. घटनाक्रमानुसारं वाक्यानि लिखत –
  1. प्रच्छन्नभाग्यः नामकः एकः कुमारः कर्मपुरनगरे अवसत् ।
  2. बाल्ये सः दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि संलग्नः अभवत् ।
  3. मार्गे गच्छतः प्रच्छन्नभाग्यस्य मनः केनचित् बालवचसा प्रतिहतम् अभवत् ।
  4. सः पापपथं त्यक्त्वा गृहम् आगच्छत् ।
  5. पश्चात्तापेन दग्धमानसः सः सर्वं वृत्तान्तं भार्यायै निवेद्य सकरुणम् अक्रन्दत् ।
  6. पत्न्याः परामर्शेन सः परिश्रमं कृत्वा शनैः शनैः प्रभूतं धनम् अर्जितवान् ।
  7. मित्रस्य धनागमवृत्तान्तं श्रुत्वा दुष्टबुद्धिः तस्यैव गृहे चौर्यार्थम् अगच्छत् ।
  8. प्रच्छन्नभाग्यस्य स्वप्नवार्तां श्रुत्वा सः झटिति क्षेत्रम् अगच्छत् ।
  9. दुष्टबुद्धिः अश्वत्थमूलं खनित्वा सुवर्णकलशं प्राप्तवान् ।
  10. यदा सः सुवर्णकलशस्य आवरणम् अपसारितवान् तदैव तस्मिन् एकं भयङ्करं विषधरं दृष्टवान् ।
६. मञ्जूषायाः उपयुक्तपात्रेण सह विशेषणानि योजयत -
प्रच्छन्नभाग्यः दुष्टबुद्धिः प्रच्छन्नभाग्यस्य पत्नी
विद्यापराङ्मुखः चौरः बुद्धिमती
परिश्रमी कृतघ्नः धैर्यवती
समुपजातविवेकः लोभी लोभरहिता
शान्तचित्तः ईर्ष्यालुः अनासक्ता
७. 'क' स्तम्भस्य 'ख' स्तम्भेन सह उचितं संयोजनम् -
स्तम्भ (क) स्तम्भ (ख)
(क) सखे, यदि मां मित्रस्थाने परिगणयसि तर्हि (iii) साधुजनगर्हितं पन्थानं त्यजतु, भवान्
(ख) जलबिन्दुनिपातेन (iv) क्रमशः पूर्यते घटः ।
(ग) स हलकार्यं कृत्वा श्रमेण (ii) प्रभूतं धनम् अर्जितवान् ।
(घ) बुद्धिमती सा अवदत्-अलं चिन्तया (v) आपदां तरणिः धैर्यम् ।
(ङ) गुरूपदेशेन इव अनेन (i) बालवचसा मम चक्षुषी समुन्मीलिते ।
८. अधोलिखितं कथनं कः कम् कथयति -
कथनम् कः कम्
(क) कथं भवन्तौ सुपथं परित्यज्य कुपथेन गन्तुं प्रवृत्तौ ? उदण्डः बालकः प्रच्छन्नभाग्यम् दुष्टबुद्धिम् च
(ख) सखे! साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् । प्रच्छन्नभाग्यः दुष्टबुद्धिम्
(ग) इदानीम् विषादं त्यक्त्वा उद्यमः क्रियताम् । प्रच्छन्नभाग्यस्य भार्या प्रच्छन्नभाग्यम्
(घ) अहो विचित्रः स्वप्नः मया दृष्टः । प्रच्छन्नभाग्यः स्वभार्याम्
(ङ) नाथ! विरम अस्माद् लोभात् । प्रच्छन्नभाग्यस्य भार्या प्रच्छन्नभाग्यम्
९. अधोदत्तशब्दानाम् त्रयः पर्यायाः -
मूलशब्दः पर्यायपदम् १ पर्यायपदम् २ पर्यायपदम् ३
(क) रात्रिःशर्वरीनिशारजनी
(ख) धनंद्रविणम्अर्थःवित्तम्
(ग) सर्पःभुजंगःअहिःविषधरः
(घ) दृष्ट्वावीक्ष्यविलोक्यप्रेक्ष्य
(ङ) नेत्रंअक्षिलोचनंचक्षुः
(च) त्यक्त्वापरित्यज्यहित्वाविहाय
(छ) गृहंनिकेतनम्गेहम्सदनम्
१०. समस्तपदैः वाक्यानि पूरयत -
(क) क्लेशपरम्परा कस्य मानसं न सन्तापयति ?
(ख) गुरूपदेशः शिष्यस्य कल्याणाय भवति ।
(ग) परद्रव्ये आसक्तिः उचिता नास्ति ।
(घ) कलशपातेन तस्य निद्राभङ्गः अभवत् ।
(ङ) यः नरः विद्यापराङ्मुखः भवति, सः लोके आदरं न लभते ।
(च) साधुवृत्तिम् आचरेत् ।
(छ) रविकिरणाः गृहाभ्यन्तरे प्रविशन्ति ।
११. प्रसङ्गानुसारम् उचितम् अर्थं चित्वा लिखत -
(क) सन्धिं प्रकल्प्य कलशं गृहाभ्यन्तरे क्षिप्तवान् ।
उत्तरम्: (ii) रचयित्वा
(ख) प्रचुरमणिमाणिक्यानाम् आभया भासमानं गृहम् अपश्यताम् ।
उत्तरम्: (i) प्रकाशेन
(ग) आपदां तरणिः धैर्यम् ।
उत्तरम्: (iii) नौका
(घ) झटिति एव क्षेत्रं गतः ।
उत्तरम्: (ii) शीघ्रम्
(ङ) विषादं त्यक्त्वा उद्यमः क्रियताम् ।
उत्तरम्: (i) परिश्रमः
Advertisement