अभ्यासः
प्रश्न 1 – एकपदेन उत्तरत
(मौखिक-अभ्यासार्थम्) –
(i) सूर्योदयभूमिः अरुणाचलः कैः सुशोभिता?
उत्तराणि – हिमाद्रितुङ्ग श्रृङ्गैः ।
(ii) अरुणाचले कति नद्यः वहन्ति?
उत्तराणि – पञ्चाशदधिकाः ।
(iii) अरुणाचलस्य
पर्यावरणं कीदृशम्?
उत्तराणि – शुद्धम् ।
(iv) देवानामपि देवः कः कथ्यते?
उत्तराणि – मोपीनः ।
(v) अरुणाचलस्य राजधानी का?
उत्तराणि – ईटानगरम् ।
(vi) लामासम्प्रदायस्य प्रमुखं पर्व
किम्?
उत्तराणि – लोसर ।
(vii) अरुणाचलस्य
विशिष्टः राजपशुः कः?
उत्तराणि – मिथुनः ।
(viii) ‘तवाङ्ग
गोम्पा’ केषां मठः?
उत्तराणि – बौद्धानाम् ।
प्रश्न 2 – एतेषां प्रश्नानाम् उत्तराणि
एकवाक्येन लिख्यन्ताम् –
(i) अरुणः
कस्य पर्यायः?
उत्तराणि –
अरुणः सूर्यस्य पर्यायः ।
(ii) सूर्योदयभूमिः इति पदं कस्मै
प्रयुक्तम्?
उत्तराणि –
सूर्योदयभूमिः इति पदं अरुणाचलप्रदेशाय प्रयुक्तम् ।
(iii) अरुणाचलप्रदेशस्य
जनजातिनां प्रमुखानि आजिविका साधनानि कानि सन्ति?
उत्तराणि –
अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कृषिः, शिल्पकला, वनसम्पद् च
सन्ति ।
(iv) ‘ओरिया’
इति केषां प्रमुखं पर्व?
उत्तराणि –
‘ओरिया’ इति वाङ्चो जनजातिनां प्रमुखं पर्व ।
(v) लामासम्प्रदायस्य ‘लोसर’ इति पर्व
कदा मान्यते?
उत्तराणि –
लामासम्प्रदायस्य ‘लोसर’ इति पर्व फरवरी मासे
मान्यते ।
(vi) ‘मोपिन’
इति कीदृशं पर्व अस्ति?
उत्तराणि –
‘मोपिन’ इति ‘होली’ सदृशं पर्व अस्ति ।
(vii) लोहितनद्याः
उद्गमस्थलं किं मन्यते ?
उत्तराणि – लोहितनद्याः
उद्गमस्थलं परशुरामकुण्डं मन्यते ।
प्रश्न 3 – एतानि वाक्यानि आधृत्य
प्रश्ननिर्माणम् क्रियताम् –
क. अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः
प्रवहन्ति ।
उत्तराणि – कुत्र पञ्चाशदधिकाः नद्यः प्रवहन्ति ?
ख.
अरुणस्य प्रदेशः
अरुणाचलः ।
उत्तराणि – कस्य ?
ग. अरुणाचले अनेके उत्सवाः मान्यन्ते ।
उत्तराणि – कुत्र ?
घ. वनौषधीनां तु अयं स्त्रोतः एव अस्ति ।
उत्तराणि – का ?
ङ.
‘ओरिया’
इति पर्वणि अरुणाचले
कृषिभूमिपूजनं सामाजिककार्यं च भवति ।
उत्तराणि – किं किं ?
च. भीष्म-नगर-दुर्गस्य अवशेषाः
आर्य-काल-संस्कृति-सम्पद्-परिचायकाः ।
उत्तराणि – कस्य ?
छ. परशुरामकुण्डं लोहितनद्याः किञ्चिद
दूरम् अस्ति ।
उत्तराणि – कस्याः ?
प्रश्न 4 – अधोलिखितप्रश्नानां यथानिर्देशम्
उत्तरत –
क. ‘स्थालानां
दर्शनाय प्रबन्धः अपि वर्तते ।‘ अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तराणि – प्रबन्धः
ख. ‘मिथुनः गोमहिषसदृशः एकः विशिष्टः राजपशुः अस्ति
।‘ वाक्येऽस्मिन् विशेष्यपदं किं प्रयुक्तम् ?
उत्तराणि – मिथुनः
ग. ‘साडकेन एकम्
अन्यत् पर्व अस्ति ।‘ अत्र ‘अपरम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तराणि – अन्यत्
घ. ‘जनाः परस्परं
मुखे कपोले च शालिचूर्णं लिम्पन्ति ।‘ वाक्येऽस्मिन् किं क्रियापदं प्रयुक्तम् ?
उत्तराणि – लिम्पन्ति
ङ. ‘पर्यटनविभागेन प्रकाशितां प्रसिद्धस्थलानां सूचीं
पठित्वा ज्ञायताम् ।‘ अत्र ‘सूचीम्’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तराणि – प्रकाशितां
प्रश्न 5 – विशेष्यैः सह समुचितविशेषणानि
योजयत –
उत्तराणि –
|
विशेषणानि |
विशेष्यानि |
|
|
(i) |
विविधवर्णमनोहरा |
प्रकृतिः |
|
(ii) |
प्रमुखानि |
आजीविकासाधनानि |
|
(iii) |
सामाजिकम् |
कार्यम् |
|
(iv) |
अन्यत् |
पर्व |
|
(v) |
संपूर्णा |
व्यवस्था |
|
(vi) |
दर्शनीयानि |
ऐतिहासिकस्थलानि |
|
(vii) |
गोमहिषसदृशः |
राजपशुः |
प्रश्न 6 – अधोलिखितपदैः सह समानार्थकपदं योजित्वा लिखत –
उत्तराणि –
क. अभिनन्दनम्
- स्वागतम्
ख. ज्ञातुम्
- अवगन्तुम्
ग. अरुणः
- सूर्यः
घ. समम्
- सदृशम्
ङ. अधुना
- इदानीम्
च.
प्रत्युत - अपितु
छ. अनन्तरम्
- पश्चात्
प्रश्न 7 – अधोलिखितवाक्येषु स्थूलपदानि केभ्यः प्रयुक्तानि? –
यथा
– अहम् भवतां जिज्ञासां शमयितुम् इच्छामि । छात्राणां कृते/ छात्रेभ्यः
उत्तराणि –
क. प्रथमं तु अहम् एव एकं प्रश्नं
पृच्छामि । पर्यटनाधिकारिणः
कृते
ख. सूर्यस्य प्रकाशः सर्वप्रथमम् इमं स्पृशति । अरुणाचलप्रदेशस्य कृते
ग.
अहं चिन्तयामि यत् अरुणः तु सूर्यस्य पर्यायः । हिमांशोः कृते
घ.
कृषिः, शिल्पकला, वनसंपद्
च एतेषां प्रमुखानि आजिविकासाधनानि । जनजातीनां कृते
ङ. इदम् ‘अप्रैल’ इति मासे
मान्यते । मोपीनपर्वणः कृते
च.
अधुना तु
वयम् एतानि द्रष्टुम् उत्सुकाः स्मः । पर्यटनस्थालानां
कृते
छ. अत्र अनेके प्रमुखोत्सवाः । अरुणाचलप्रदेशस्य कृते
प्रश्न 8 – अधोलिखितपदानां समुचितं विग्रहं समस्तपदं वा लिखत –
उत्तराणि –
क. वनसम्पदा - वनस्य सम्पदा
ख. सेतोः निर्माणम् - सेतुनिर्माणम्
ग. पर्यटनाधिकारी - पर्यटनस्य अधिकारी
घ. हिमाद्रेः तुङ्गशृङ्गानि, तैः - हिमाद्रितुङ्गशृङ्गैः
ङ. बौद्धमठः - बौद्धानां मठः
च. उद्गमस्य स्थलम् - उद्गमस्थलम्
छ. अरुणाचलः - अरुणस्य अचलः
प्रश्न 9 – रेखांकितपदानां प्रसङ्गानुसारं समुचितार्थं चित्वा लिखत –
क. प्रश्नोत्तरमाध्यमेन भवतां जिज्ञासां शमयितुम्
इच्छामि ।
(i)
गन्तुम् इच्छा (ii) ज्ञातुम् इच्छा (iii) गातुम् इच्छा
उत्तराणि – ज्ञातुम्
इच्छा
ख. अस्य अवशेषाः तु आर्यकला – संस्कृति – सम्पदः परिचायकाः
।
(i) सूचकाः (ii) सेवकाः (iii) पर्यटकाः
उत्तराणि – सूचकाः
ग. साधु पृष्टम् ।
(i) संन्यासी (ii) शुद्धम् (iii) सम्यक्
उत्तराणि – सम्यक्
घ. विपुला च अत्र वनसम्पदा ।
(i) पृथ्वी (ii) विशाला (iii) स्थूला
उत्तराणि – विशाला
ङ. वनौषधीनां
तु अयं स्त्रोतः एव ।
(i) उद्गमस्थलम् (ii) प्रवाहः (iii) निर्झरः
उत्तराणि – उद्गमस्थलम्
प्रश्न 10 – अत्र लिखिते गद्यांशे
रिक्तस्थानानां पूर्तिं ‘इदम्’ इति सर्वनामपदस्य उचितरुपैः कुरुत –
अरुणस्य
प्रदेशः अरुणाचलः । ————— प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः
सुशोभिता भूमिः । एवञ्च अस्ति विपुलवनसम्पदा —————– प्रदेशे । —————
प्रदेशात् एव वहति लोहिताख्या नदी । सूर्यस्य प्रकाशः सर्वप्रथमम्
—————- प्रदेशम् एव स्पृशति । —————— प्रदेशेन एव जीवन्ति
————— प्रदेशस्य जनाः । अद्भुतः सौन्दर्यमयः एव ——————
प्रदेशः ।
उत्तराणि –
अरुणस्य प्रदेशः अरुणाचलः । अस्य प्रदेशस्य
अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः । एवञ्च
अस्ति विपुलवनसम्पदा अस्मिन् प्रदेशे । अस्मात् प्रदेशात् एव वहति लोहिताख्या नदी । सूर्यस्य
प्रकाशः सर्वप्रथमम् इमं प्रदेशम्
एव स्पृशति । अनेन प्रदेशेन
एव जीवन्ति अस्य प्रदेशस्य
जनाः । अद्भुतः सौन्दर्यमयः एव अयं प्रदेशः ।
.png)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें