Advertisement

09 - सुस्वागतं भो ! अरुणाचलेऽस्मिन्

संस्कृत अभ्यास कार्यम् - अरुणाचल प्रदेशः

अभ्यास कार्यम् - अरुणाचल प्रदेशः 🌄

१. एकपदेन उत्तरत (मौखिक-अभ्यासार्थम्) –
(i) सूर्योदयभूमिः अरुणाचलः कैः सुशोभिता?
उत्तरम्: हिमाद्रितुङ्ग शृङ्गैः
(ii) अरुणाचले कति नद्यः वहन्ति?
उत्तरम्: पञ्चाशदधिकाः
(iii) अरुणाचलस्य पर्यावरणं कीदृशम्?
उत्तरम्: शुद्धम्
(iv) देवानामपि देवः कः कथ्यते?
उत्तरम्: मोपीनः
(v) अरुणाचलस्य राजधानी का?
उत्तरम्: ईटानगरम्
(vi) लामासम्प्रदायस्य प्रमुखं पर्व किम्?
उत्तरम्: लोसर
(vii) अरुणाचलस्य विशिष्टः राजपशुः कः?
उत्तरम्: मिथुनः
(viii) ‘तवाङ्ग गोम्पा’ केषां मठः?
उत्तरम्: बौद्धानाम्
२. एतेषां प्रश्नानाम् उत्तराणि एकवाक्येन लिख्यन्ताम् –
(i) अरुणः कस्य पर्यायः?
उत्तरम्: अरुणः सूर्यस्य पर्यायः।
(ii) सूर्योदयभूमिः इति पदं कस्मै प्रयुक्तम्?
उत्तरम्: सूर्योदयभूमिः इति पदं अरुणाचलप्रदेशाय प्रयुक्तम्।
(iii) अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कानि सन्ति?
उत्तरम्: अरुणाचलप्रदेशस्य जनजातिनां प्रमुखानि आजिविका साधनानि कृषिः, शिल्पकला, वनसम्पद् च सन्ति।
(iv) ‘ओरिया’ इति केषां प्रमुखं पर्व?
उत्तरम्: ‘ओरिया’ इति वाङ्चो जनजातिनां प्रमुखं पर्व।
(v) लामासम्प्रदायस्य ‘लोसर’ इति पर्व कदा मान्यते?
उत्तरम्: लामासम्प्रदायस्य ‘लोसर’ इति पर्व फरवरी मासे मान्यते।
(vi) ‘मोपिन’ इति कीदृशं पर्व अस्ति?
उत्तरम्: ‘मोपिन’ इति ‘होली’ सदृशं पर्व अस्ति।
(vii) लोहितनद्याः उद्गमस्थलं किं मन्यते ?
उत्तरम्: लोहितनद्याः उद्गमस्थलं परशुरामकुण्डं मन्यते।
३. एतानि वाक्यानि आधृत्य प्रश्ननिर्माणम् क्रियताम् –
क. अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति ।
उत्तरम्: कुत्र पञ्चाशदधिकाः नद्यः प्रवहन्ति ?
ख. अरुणस्य प्रदेशः अरुणाचलः ।
उत्तरम्: कस्य प्रदेशः अरुणाचलः ?
ग. अरुणाचले अनेके उत्सवाः मान्यन्ते ।
उत्तरम्: कुत्र अनेके उत्सवाः मान्यन्ते ?
घ. वनौषधीनां तु अयं स्त्रोतः एव अस्ति ।
उत्तरम्: कासाम् तु अयं स्त्रोतः एव अस्ति ?
ङ. ‘ओरिया’ इति पर्वणि अरुणाचले कृषिभूमिपूजनं सामाजिककार्यं च भवति ।
उत्तरम्: ‘ओरिया’ इति पर्वणि अरुणाचले किं किं भवति ?
च. भीष्म-नगर-दुर्गस्य अवशेषाः आर्य-काल-संस्कृति-सम्पद्-परिचायकाः ।
उत्तरम्: कस्य अवशेषाः आर्य-काल-संस्कृति-सम्पद्-परिचायकाः ?
छ. परशुरामकुण्डं लोहितनद्याः किञ्चिद दूरम् अस्ति ।
उत्तरम्: परशुरामकुण्डं कस्याः किञ्चिद दूरम् अस्ति ?
४. अधोलिखितप्रश्नानां यथानिर्देशम् उत्तरत –
क. ‘स्थालानां दर्शनाय प्रबन्धः अपि वर्तते ।’ अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम्: प्रबन्धः
ख. ‘मिथुनः गोमहिषसदृशः एकः विशिष्टः राजपशुः अस्ति ।’ वाक्येऽस्मिन् विशेष्यपदं किं प्रयुक्तम् ?
उत्तरम्: मिथुनः
ग. ‘साडकेन एकम् अन्यत् पर्व अस्ति ।’ अत्र ‘अपरम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तरम्: अन्यत्
घ. ‘जनाः परस्परं मुखे कपोले च शालिचूर्णं लिम्पन्ति ।’ वाक्येऽस्मिन् किं क्रियापदं प्रयुक्तम् ?
उत्तरम्: लिम्पन्ति
ङ. ‘पर्यटनविभागेन प्रकाशितां प्रसिद्धस्थलानां सूचीं पठित्वा ज्ञायताम् ।’ अत्र ‘सूचीम्’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तरम्: प्रकाशितां
५. विशेष्यैः सह समुचितविशेषणानि योजयत –
विशेषणानि विशेष्यानि
(i) विविधवर्णमनोहराप्रकृतिः
(ii) प्रमुखानिआजीविकासाधनानि
(iii) सामाजिकम्कार्यम्
(iv) अन्यत्पर्व
(v) संपूर्णाव्यवस्था
(vi) दर्शनीयानिऐतिहासिकस्थलानि
(vii) गोमहिषसदृशःराजपशुः
६. अधोलिखितपदैः सह समानार्थकपदं योजित्वा लिखत –
पदम् समानार्थकपदम्
क. अभिनंदनम्स्वागतम्
ख. ज्ञातुम्अवगन्तुम्
ग. अरुणःसूर्यः
घ. समम्सदृशम्
ङ. अधुनाइदानीम्
च. प्रत्युतअपितु
छ. अनन्तरम्पश्चात्
७. अधोलिखितवाक्येषु स्थूलपदानि केभ्यः प्रयुक्तानि? –
क. प्रथमं तु अहम् एव एकं प्रश्नं पृच्छामि ।
उत्तरम्: पर्यटनाधिकारिणः कृते
ख. सूर्यस्य प्रकाशः सर्वप्रथमम् इमं स्पृशति ।
उत्तरम्: अरुणाचलप्रदेशस्य कृते
ग. अहं चिन्तयामि यत् अरुणः तु सूर्यस्य पर्यायः ।
उत्तरम्: हिमांशोः कृते
घ. कृषिः, शिल्पकला, वनसंपद् च एतेषां प्रमुखानि आजिविकासाधनानि ।
उत्तरम्: जनजातीनां कृते
ङ. इदम् ‘अप्रैल’ इति मासे मान्यते ।
उत्तरम्: मोपीनपर्वणः कृते
च. अधुना तु वयम् एतानि द्रष्टुम् उत्सुकाः स्मः ।
उत्तरम्: पर्यटनस्थालानां कृते
छ. अत्र अनेके प्रमुखोत्सवाः ।
उत्तरम्: अरुणाचलप्रदेशस्य कृते
८. अधोलिखितपदानां समुचितं विग्रहं समस्तपदं वा लिखत –
क. वनसम्पदा - वनस्य सम्पदा
ख. सेतोः निर्माणम् - सेतुनिर्माणम्
ग. पर्यटनाधिकारी - पर्यटनस्य अधिकारी
घ. हिमाद्रेः तुङ्गशृङ्गानि, तैः - हिमाद्रितुङ्गशृङ्गैः
ङ. बौद्धमठः - बौद्धानां मठः
च. उद्गमस्य स्थलम् - उद्गमस्थलम्
छ. अरुणाचलः - अरुणस्य अचलः
९. रेखांकितपदानां प्रसङ्गानुसारं समुचितार्थं चित्वा लिखत –
क. प्रश्नोत्तरमाध्यमेन भवतां जिज्ञासां शमयितुम् इच्छामि ।
उत्तरम्: (ii) ज्ञातुम् इच्छा
ख. अस्य अवशेषाः तु आर्यकला – संस्कृति – सम्पदः परिचायकाः ।
उत्तरम्: (i) सूचकाः
ग. साधु पृष्टम् ।
उत्तरम्: (iii) सम्यक्
घ. विपुला च अत्र वनसम्पदा ।
उत्तरम्: (ii) विशाला
ङ. वनौषधीनां तु अयं स्त्रोतः एव ।
उत्तरम्: (i) उद्गमस्थलम्
१०. रिक्तस्थानानां पूर्तिं ‘इदम्’ इति सर्वनामपदस्य उचितरुपैः कुरुत –
अरुणस्य प्रदेशः अरुणाचलः । अस्य प्रदेशस्य अस्ति हिमाद्रितुङ्गश्रृङ्गैः सुशोभिता भूमिः । एवञ्च अस्ति विपुलवनसम्पदा अस्मिन् प्रदेशे । अस्मात् प्रदेशात् एव वहति लोहिताख्या नदी । सूर्यस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशम् एव स्पृशति । अनेन प्रदेशेन एव जीवन्ति अस्य प्रदेशस्य जनाः । अद्भुतः सौन्दर्यमयः एव अयं प्रदेशः ।
Advertisement