📚 अभ्यास कार्यम् - संस्कृतम् 📚
१. प्रश्नानाम् उत्तरम् एकपदेन लिखत-
(क) पिता पुत्राय बाल्ये किं यच्छति ?
उत्तरम् – विद्याधनम् ।
उत्तरम् – विद्याधनम् ।
(ख) मूढमतिः कीदृशीं वाचं परित्यजति ?
उत्तरम् – धर्मप्रदाम् ।
उत्तरम् – धर्मप्रदाम् ।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः ?
उत्तरम् – विद्वांसः ।
उत्तरम् – विद्वांसः ।
(घ) नरः केन गुणेन कस्यापि कथनस्य तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
उत्तरम् – विवेकेन ।
उत्तरम् – विवेकेन ।
(ङ) प्राणेभ्योऽपि किं रक्षणीयम् ?
उत्तरम् – सदाचारः ।
उत्तरम् – सदाचारः ।
(च) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
उत्तरम् – अहितंकर्म ।
उत्तरम् – अहितंकर्म ।
(छ) वाचि किं भवेत् ?
उत्तरम् – अवक्रता ।
उत्तरम् – अवक्रता ।
(ज) पाठे ‘वाचि पटुः’ इति स्थाने किं पदं प्रयुक्तम् ?
उत्तरम् – वाक्पटुः ।
उत्तरम् – वाक्पटुः ।
२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) पुत्रः पितरं प्रति किम् अनुभवेत् ?
उत्तरम् – पुत्रः पितरम् प्रति कृतज्ञता अनुभवेत् ।
उत्तरम् – पुत्रः पितरम् प्रति कृतज्ञता अनुभवेत् ।
(ख) आत्मनः हितम् इच्छन् नरः किं कुर्यात् ?
उत्तरम् – आत्मनः हितम् इच्छन् नरः कदापि परेभ्यः अहितं न कुर्यात् ।
उत्तरम् – आत्मनः हितम् इच्छन् नरः कदापि परेभ्यः अहितं न कुर्यात् ।
(ग) मूर्खबुद्धिः जनः कीदृशीं वाणीं त्यजति ?
उत्तरम् – मूर्खबुद्धिः जनः धर्मप्रदां वाचं त्यजति ।
उत्तरम् – मूर्खबुद्धिः जनः धर्मप्रदां वाचं त्यजति ।
(घ) विदुषां वचः किम् ?
उत्तरम् – आचारः प्रथमः धर्मः इति विदुषां वचः ।
उत्तरम् – आचारः प्रथमः धर्मः इति विदुषां वचः ।
(ङ) वस्तुतः लोके चक्षुष्मन्तः के कथिताः ?
उत्तरम् – वस्तुतः विद्वांसः एव लोके चक्षुष्मन्तः कथिताः ।
उत्तरम् – वस्तुतः विद्वांसः एव लोके चक्षुष्मन्तः कथिताः ।
(च) महात्मानः समत्वं किं कथयन्ति ?
उत्तरम् – यथा चित्ते अवक्रता तथा यदि वाचि भवेत् तदेव महात्मानः समत्वं कथयन्ति ।
उत्तरम् – यथा चित्ते अवक्रता तथा यदि वाचि भवेत् तदेव महात्मानः समत्वं कथयन्ति ।
(छ) विवेकी जनः कस्य तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
उत्तरम् – येन केनापि यत् प्रोक्तम्, विवेकी जनः तस्य तत्त्वार्थनिर्णयः कर्तुम् शक्नोति ।
उत्तरम् – येन केनापि यत् प्रोक्तम्, विवेकी जनः तस्य तत्त्वार्थनिर्णयः कर्तुम् शक्नोति ।
(ज) कीदृशः जनः परैः न तिरस्क्रियते ?
उत्तरम् – वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न तिरस्क्रियते ।
उत्तरम् – वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न तिरस्क्रियते ।
३. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ।
प्रश्नः – कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ?
प्रश्नः – कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ?
(ख) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते ।
प्रश्नः – संसारे विद्वांसः कैः नेत्रवन्तः कथ्यन्ते ?
प्रश्नः – संसारे विद्वांसः कैः नेत्रवन्तः कथ्यन्ते ?
(ग) जनकेन सुताय शैशवे विद्याधनं दीयते ।
प्रश्नः – जनकेन सुताय कदा विद्याधनं दीयते ?
प्रश्नः – जनकेन सुताय कदा विद्याधनं दीयते ?
(घ) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यते ।
प्रश्नः – तत्त्वार्थस्य निर्णयः केन कर्तुं शक्यते ?
प्रश्नः – तत्त्वार्थस्य निर्णयः केन कर्तुं शक्यते ?
(ङ) साधूनां चित्ते वाचि च सरलता भवति ।
प्रश्नः – केषाम् चित्ते वाचि च सरलता भवति ?
प्रश्नः – केषाम् चित्ते वाचि च सरलता भवति ?
(च) धैर्यवान् लोके परिभवं न प्राप्नोति ।
प्रश्नः – कः लोके परिभवं न प्राप्नोति ?
प्रश्नः – कः लोके परिभवं न प्राप्नोति ?
(छ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
प्रश्नः – किम्/कम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ?
प्रश्नः – किम्/कम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ?
४. यथानिर्देशम् उत्तरत् -
(क) ‘भुङ्क्ते‘ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तरम् – विमूढधीः ।
उत्तरम् – विमूढधीः ।
(ख) ‘परुषाम्’ इति विशेषणस्य किं विशेष्यपदं पाठे प्रयुक्तम् ?
उत्तरम् – वाचम् ।
उत्तरम् – वाचम् ।
(ग) ‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि ।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तरम् – भवेत् ।
उत्तरम् – भवेत् ।
(घ) ‘य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।’ इत्यस्मिन् वाक्ये ‘कल्याणम्’ इति पदस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तरम् – श्रेयः ।
उत्तरम् – श्रेयः ।
(ङ) ‘अल्पानि’ इति पदस्य किं विलोमपदं पाठे प्रयुक्तम् ?
उत्तरम् – प्रभूतानि ।
उत्तरम् – प्रभूतानि ।
५. विलोमशब्दचयनम्
(क) कृतज्ञता ➔ कृतघ्नता
(ख) पक्वः ➔ अपक्वः
(ग) परुषा ➔ कोमला
(घ) विमूढधीः ➔ सुधीः
(ङ) आलस्यम् ➔ उद्योगः
(च) कातरः ➔ अकातरः
६. समानार्थकाः शब्दाः
शब्द मञ्जूषा: वदनम्, नयनम्, चेतः, मनः, कल्याणम्, बहु, संसद, भूरि, नेत्रम्, लोचनम्, वक्त्रम्, समितिः, शुभम्, मानसम्, शिवम्, आननम्, विपुलम्, परिषद्।
| मूल शब्दः | समानार्थकाः शब्दाः |
|---|---|
| (क) चित्तम् | मनः, मानसम्, चेतः |
| (ख) मुखम् | वदनम्, आननम्, वक्त्रम् |
| (ग) प्रभूतम् | भूरि, विपुलम्, बहु |
| (घ) चक्षुः | नयनम्, लोचनम्, नेत्रम् |
| (ङ) सभा | संसद्, समितिः, परिषद् |
| (च) श्रेयः | शुभम्, कल्याणम्, शिवम् |
७. विशेषणपदैः रिक्तस्थानानि पूरयत-
(क) वाक्पटुः धैर्यवान् सभायामपि अकातरः मन्त्री परैः न परिभूयते ।
(ख) बुद्धिमान् सदा धर्मप्रदाम् एव वाचं वदति ।
(ग) यः सुखानि इच्छति सः अहितं कर्म त्यजेत् ।
(घ) पुत्रः शैशवे पितुः महत् विद्याधनं प्राप्नोति ।
(ङ) प्रथमो धर्मः आचारः इति विद्वांसः मन्यन्ते ।
८. भावपूरणम्
(क) चित्ते वाचि च सरलता महात्मभिः समत्वम् मन्यते ।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते । पुत्रेण अस्य अनुभूतिः एव कृतज्ञता कथ्यते।
(ग) विमूढधीः एव धर्मप्रदां वाचं त्यक्त्वा परुषां वाचं वदति ।
(घ) अस्मिन् संसारे केवलं विद्वांसः एव चक्षुष्मन्तः मन्तव्याः ।
(ङ) प्रत्येकं कथनस्य तत्वार्थस्य निर्णयः येन क्रियते सः विवेकः अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु वाक्पटुः धैर्यवान् सभायामप्यकातरः भवति स अन्यैः कदापि न तिरस्क्रियते ।
९. अन्वयपूरणम्
(क) पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किम् तपः तेपे, इत्युक्तिः तत्कृतज्ञता ।
(ख) येन केनापि यत् प्रोक्तम् । तस्य तत्त्वार्थनिर्णयः येन कर्तुम् शक्यः भवेत्, सः विवेकः इति ईरितः ।
(ग) य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितम् कर्म कदापि च न कुर्यात् ।
१०. तद्भावात्मकसूक्तयः
(क) विद्याधनं महत्
- विद्याधनं सर्वधनप्रधानम् ।
- विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।
(ख) आचारः प्रथमो धर्मः
- आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ।
- आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
- मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।
- सं वो मनांसि जानताम् ।
११. समासविग्रहाः एवं समस्तपदानि
| विग्रहः | समस्तपदम् | समासनाम |
|---|---|---|
| तत्त्वार्थस्य निर्णयः | तत्त्वार्थनिर्णयः | षष्ठी तत्पुरुषः |
| वाचि पटुः | वाक्पटुः | सप्तमी तत्पुरुषः |
| धर्मं प्रददाति इति (ताम्) | धर्मप्रदाम् | उपपदतत्पुरुषः |
| न कातरः | अकातरः | नञ् तत्पुरुषः |
| न हितम् | अहितम् | नञ् तत्पुरुषः |
| महान् आत्मा येषाम् ते | महात्मानः | बहुव्रीहिः |
| विमूढा धीः यस्य सः | विमूढधीः | बहुव्रीहिः |
१२. भिन्नप्रकृतिकं शब्दम्
(क) तपः, धर्मः, श्रेयः, वचः ।
(लिङ्गकारणात् - धर्मः पुल्लिंगम् अस्ति, अन्यानि नपुंसकलिङ्गानि)
(लिङ्गकारणात् - धर्मः पुल्लिंगम् अस्ति, अन्यानि नपुंसकलिङ्गानि)
(ख) तथ्यतः, विशेषतः, मुख्यतः, ईरितः ।
(प्रत्ययकारणात् - ईरितः त्सिल्-प्रत्ययान्तः नास्ति)
(प्रत्ययकारणात् - ईरितः त्सिल्-प्रत्ययान्तः नास्ति)
(ग) लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता ।
(प्रत्ययकारणात्)
(प्रत्ययकारणात्)
(घ) लोके, चित्ते, वाचि, भुङ्क्ते ।
(विभक्तिकारणात् - भुङ्क्ते क्रियापदम् अस्ति, अन्यानि सप्तमी-विभक्ति-पदानि)
(विभक्तिकारणात् - भुङ्क्ते क्रियापदम् अस्ति, अन्यानि सप्तमी-विभक्ति-पदानि)
१३. प्रसङ्गानुसारम् उचितम् अर्थम्
(क) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च । ➔ (ii) कल्याणम्
(ख) तदैव आहुः महात्मानः समत्वमिति तथ्यतः । ➔ (i) कथयन्ति
(ग) वाक्पटुः धैर्यवान् मन्त्री सभायामप्यकातरः परैः न परिभूयते । ➔ (iii) वाक्कुशलः
(घ) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् । ➔ (i) कठोराम्
(ङ) स विवेक इति ईरितः । ➔ (ii) कथितः