अभ्यास कार्यम्
१.
प्रश्नानाम् उत्तरम्
एकपदेन लिखत-
(क)
पिता पुत्राय बाल्ये
किं यच्छति ?
उत्तरम् – विद्याधनं ।
(ख)
मूढमतिः कीदृशीं
वाचं परित्यजति ?
उत्तरम् – धर्मप्रदाम् ।
(ग)
अस्मिन् लोके के
एव चक्षुष्मन्तः प्रकीर्तिताः ?
उत्तरम् – विद्वांसः ।
(घ)
नरः केन गुणेन
कस्यापि कथनस्य तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
उत्तरम् – विवेकेन ।
(ङ)
प्राणेभ्योऽपि
किं रक्षणीयम् ?
उत्तरम् – सदाचारः ।
(च)
आत्मनः श्रेयः
इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
उत्तरम् – अहितंकर्म ।
(छ)
वाचि किं
भवेत् ?
उत्तरम् – अवक्रता ।
(ज)
पाठे ‘वाचि पटुः’ इति स्थाने
किं पदं प्रयुक्तम् ?
उत्तरम् – वाक्पटुः ।
२.
अधोलिखितप्रश्नाम्
उत्तराणि पूर्णवाक्येन लिखत –
(क) पुत्रः पितरं प्रति किम्
अनुभवेत् ?
उत्तरम् – पुत्रः पितरम् प्रति कृतज्ञता अनुभवेत् ।
(ख) आत्मनः हितम् इच्छन् नरः किं
कुर्यात् ?
उत्तरम् – आत्मनः हितम् इच्छन् नरः कदापि परेभ्यः अहितं न कुर्यात् ।
(ग) मूर्खबुद्धिः जनः कीदृशीं
वाणीं त्यजति ?
उत्तरम् – मूर्खबुद्धिः जनः धर्मप्रदां वाचं त्यजति ।
(घ) विदुषां वचः किम् ?
उत्तरम् – आचारः प्रथमः धर्मः इति विदुषां
वचः ।
(ङ) वस्तुतः लोके चक्षुष्मन्तः के
कथिताः ?
उत्तरम् – वस्तुतः विद्वांसः एव लोके चक्षुष्मन्तः कथिताः ।
(च) महात्मानः समत्वं किं कथयन्ति
?
उत्तरम् – यथा चित्ते अवक्रता तथा यदि वाचि भवेत् तदेव महात्मानः समत्वं कथयन्ति ।
(छ) विवेकी जनः कस्य
तत्त्वार्थनिर्णयं कर्तुं शक्नोति ?
उत्तरम् – येन केनापि यत् प्रोक्तम्, विवेकी जनः तस्य तत्त्वार्थनिर्णयः कर्तुम् शक्नोति ।
(ज) कीदृशः जनः परैः न
तिरस्क्रियते ?
उत्तरम् – वाक्पटुः, धैर्यवान् सभायाम्
अपि अकातरः मन्त्री परैः न
तिरस्क्रियते ।
3. स्थूलपदानि आधृत्य
प्रश्ननिर्माणं कुरुत-
(क) विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ।
(ख) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते ।
(ग) जनकेन सुताय शैशवे विद्याधनं
दीयते ।
(घ) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यते ।
(ङ) साधूनां चित्ते वाचि च सरलता भवति ।
(च) धैर्यवान् लोके परिभवं न प्रप्नोति ।
(छ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
उत्तरम् –
(क) कः पक्वं फलं
परित्यज्य अपक्वं फलं भुङ्क्ते ।
(ख) संसारे विद्वांसः कैः नेत्रवन्तः कथ्यन्ते ।
(ग) जनकेन सुताय कदा विद्याधनं
दीयते ।
(घ) तत्त्वार्थस्य निर्णयः केन कर्तुं शक्यते ।
(ङ) केषाम् चित्ते वाचि च
सरलता भवति ।
(च) कः लोके परिभवं न प्रप्नोति ।
(छ) किम्/कम् इच्छन् नरः
परेषाम् अनिष्टं न कुर्यात् ।
4. यथानिर्देशम् उत्तरत् -
(क)
‘भुङ्क्ते ‘ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तरम् – विमूढधीः ।
(ख)
‘परुषाम्’ इति विशेषणस्य किं विशेष्यपदं पाठे प्रयुक्तम् ?
उत्तरम् – वाचम् ।
(ग)
‘अवक्रता यथा
चित्ते तथा वाचि भवेद् यदि ।’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तरम् – भवेत् ।
(घ)
‘य
इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।’ इत्यस्मिन् वाक्ये ‘कल्याणम्’ इति पदस्य किं
पर्यायपदं प्रयुक्तम् ?
उत्तरम् – श्रेयः ।
(ङ)
‘अल्पानि’ इति पदस्य किं विलोमपदं पाठे प्रयुक्तम् ?
उत्तरम् – प्रभूतानि ।
5. अधोलिखितानां शब्दानां पुरतः
उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत –
शब्दः विलोमशब्दः
(क) कृतज्ञता …………… (कृपणता, कृतघ्नता, कातरता)
(ख) पक्वः …………… (परिपक्वः, अपक्वः, क्वथितः)
(ग) परुषा …………… (पौरुषी, कोमला, कठोरा)
(घ) विमूढधीः …………… (सुधीः, निधिः, मन्दधीः)
(ङ) आलस्यम् ………… (उद्विग्नता, विलासिता, उद्योगः)
(च) कातरः …………… (अकरुणः, अधीरः, अकातरः)
उत्तरम् –
(क) कृतज्ञता - कृतघ्नता
(ख) पक्वः - अपक्वः
(ग) परुषा - कोमला
(घ) विमूढधीः - सुधीः
(ङ) आलस्यम् - उद्योगः
(च) कातरः - अकातरः
6. अधोलिखितानां शब्दानां त्रयः
समानार्थकाः शब्दाः शब्दमञ्जूषायाः चित्वा लिखत –
|
शब्द मञ्जूषा |
||
|
वदनम् |
नयनम् |
चेतः |
|
मनः |
कल्याणम् |
बहु |
|
संसद |
भूरि |
नेत्रम् |
|
लोचनं |
वक्त्रम् |
समितिः |
|
शुभं |
मानसम् |
शिवम् |
|
आननम् |
विपुलम् |
परिषद् |
(क) चित्तम …………. ………….. …………….
(ख) मुखम् …………. ………….. …………….
(ग) प्रभूतम् …………. ………….. …………….
(घ) चक्षुः …………. ………….. …………….
(ङ) सभा …………. ………….. …………….
(च) श्रेयः …………. ………….. …………….
(क) चित्तम् = मनः, मानसम्, चेतः ।
(ख) मुखम् = वदनम्, आननम्, वक्त्रम् ।
(ग) प्रभूतम् = भूरि, विपुलम्, बहु ।
(घ) चक्षुः = नयनम्, लोचनम्, नेत्रम् ।
(ङ) सभा = संसद्, समितिः, परिषद् ।
(च) श्रेयः = शुभम्, कल्याणम्, शिवम् ।
7. पाठात् विचित्य समुचितैः
विशेषणपदैः रिक्तस्थानानि पूरयत-
(क) .................. मन्त्री
परैः न परिभूयते ।
(ख) बुद्धिमान् सदा
.................. एव वाचं वदति ।
(ग) यः सुखानि इच्छति सः
.................. कर्म त्यजेत् ।
(घ) पुत्रः शैशवे पितुः ..................
विद्याधनं प्राप्नोति ।
(ङ) .................. आचारः इति विद्वांसः मन्यन्ते ।
उत्तरम् –
(क) वाक्पटुः धैर्यवान् सभायामपि अकातरः मन्त्री परैः न परिभूयते ।
(ख) बुद्धिमान् सदा धर्मप्रदाम् एव वाचं वदति
।
(ग) यः सुखानि इच्छति सः अहितं कर्म त्यजेत् ।
(घ) पुत्रः शैशवे पितुः महत् विद्याधनं प्राप्नोति ।
(ङ) प्रथमो धर्मः आचारः इति
विद्वांसः मन्यन्ते ।
8. पाठात् चित्वा
अधोलिखितपद्यांशानां भावम् उपयुक्तपदैः पूरयत –
(क) चित्ते वाचि च सरलता
महात्मभिः.................. मन्यते ।
(ख) पिता पुत्राय विद्यादानार्थं
महत् कष्टं सहते। पुत्रेण अस्य अनुभूतिः एव .................. कथ्यते।
(ग) .................. एव
धर्मप्रदां वाचं त्यक्त्वा .................. वाचं वदति ।
(घ) अस्मिन् संसारे केवलं ..................
एव .................. मन्तव्याः ।
(ङ) प्रत्येकं कथनस्य
.................. येन क्रियते सः .................. अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु
........ ............ ........ भवति स अन्यैः कदापि न तिरस्क्रियते ।
उत्तरम् –
(क)
चित्ते वाचि च
सरलता महात्मभिः समत्वम् मन्यते ।
(ख) पिता पुत्राय विद्यादानार्थं महत् कष्टं सहते ।
पुत्रेण अस्य अनुभूतिः एव कृतज्ञता कथ्यते।
(ग) विमूढधीः एव धर्मप्रदां वाचं त्यक्त्वा परुषां वाचं वदति ।
(घ) अस्मिन् संसारे केवलं विद्वांसः एव चक्षुष्मन्तः मन्तव्याः ।
(ङ) प्रत्येकं कथनस्य तत्वार्थस्य निर्णयः येन क्रियते सः विवेकः अस्ति।
(च) यः मन्त्री (परामर्शदाता) तु वाक्पटुः धैर्यवान् सभायामप्यकातरः भवति स अन्यैः कदापि न
तिरस्क्रियते ।
9. पाठात् चित्वा अधोलिखितानां
श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत -
(क) पिता पुत्राय बाल्ये महत् ……. यच्छति, अस्य पिता
किम्……. तेपे, इत्युक्तिः………..।
(ख) येन केनापि यत् …… । तस्य तत्त्वार्थनिर्णयः येन…….शक्यः भवेत्, सः…. इति ईतीरितः।
(ग) य आत्मनः श्रेयः……. सुखानि च इच्छति, सः परेभ्यः अहितम् ……कदापि च न………।
उत्तरम् –
(क)
पिता पुत्राय
बाल्ये महत् विद्याधनं यच्छति, अस्य पिता
किम् तपः तेपे, इत्युक्तिः तत्कृतज्ञता ।
(ख)
येन केनापि
यत् प्रोक्तं । तस्य तत्त्वार्थनिर्णयः येन कर्तुम् शक्यः भवेत्, सः विवेकः इति ईरितः ।
(ग)
य आत्मनः
श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितम् कर्म कदापि च न कुर्यात् ।
10. मज्जूषायाः
तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां समक्षं लिखत –
(क) विद्याधनं महत्
..................................
..................................
(ख) आचारः प्रथमो धर्मः
..................................
..................................
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
..................................
..................................
मञ्जूषायाः
सूक्तयः
|
आचारेण तु संयुक्तः
सम्पूर्णफलभाग्भवेत् । |
उत्तरम् –
(क)
विद्याधनं महत्
।
1 विद्याधनं सर्वधनप्रधानम् ।
2 विद्याधनं
श्रेष्ठं तन्मूलमितरद्धनम् ।
(ख)
आचारः प्रथमो धर्मः
।
1 आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ।
2 आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।
(ग)
चित्ते वाचि च
अवक्रता एव समत्वम् ।
1 मनसि एकं वचसि एकं कर्मणि एकं
महात्मनाम् ।
2 सं वो मनांसि
जानतां ।
11. अधस्ताद्
समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समास नाम
(क)
तत्त्वार्थस्य
निर्णयः …………. षष्ठी
तत्पुरुषः
(ख)
वाचि पटुः …………. सप्तमी तत्पुरुषः
(ग)
धर्म प्रददाति
इति (ताम्) …………. उपपदतत्पुरुषः
(घ)
न कातरः …………. नञ् तत्पुरुषः
(ङ)
न हितम् ………… नञ्
तत्पुरुषः
(च)
महान् आत्मा येषाम्
ते ………… बहुव्रीहिः
(छ)
विमूढा धीः यस्य
सः ……….. बहुव्रीहिः
उत्तरम् –
विग्रहः समस्तपदम् समासनाम
तत्त्वार्थस्य
निर्णयः तत्वार्थनिर्णयः षष्ठी
तत्पुरुषः
वाचि पटुः वाक्पटुः सप्तमी
तत्पुरुषः
धर्म प्रददाति
इति (ताम्) धर्मप्रदाम् उपपदतत्पुरुषः
न कातरः अकातरः नञ्
तत्पुरुषः
न हितम् अहितम् नञ्
तत्पुरुषः
महान् आत्मा
येषाम् ते महात्मानः बहुव्रीहिः
विमूढा धीः
यस्य सः विमूढधीः बहुव्रीहिः
12. अधोलिखितेषु
भिन्नप्रकृतिकं शब्दं रेखाङ्कितं कुरुत-
तपः, धर्मः, श्रेयः, वचः। (लिङ्गकारणात्)
तथ्यतः, विशेषतः, मुख्यतः, ईरितः । (प्रत्ययकारणात्)
लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता (प्रत्ययकारणात्)
लोके, चित्ते, वाचि, भुङ्क्ते । (विभक्तिकारणात्)
उत्तरम् –
तपः, धर्मः, श्रेयः, वचः । (लिङ्गकारणात्)
तथ्यतः, विशेषतः, मुख्यतः, ईरितः । (प्रत्ययकारणात्)
लघुता, प्रकीर्तिता, अवक्रता, कृतज्ञता । (प्रत्ययकारणात्)
लोके, चित्ते, वाचि, भुङ्क्ते । (विभक्तिकारणात्)
१३. अधोलिखितवाक्येषु
स्थूलाक्षरपदानां प्रसङ्गानुसारम् उचितम् अर्थ चित्वा लिखत –
(क) य इच्छत्यात्मनः श्रेयः प्रभूतानि
सुखानि च ।
(i) श्रेष्ठः (ii) कल्याणम् (iii) सम्पत्तिम्
उत्तरम् – कल्याणम्
(ख) तदैव आहुः महात्मानः
समत्वमिति तथ्यतः ।
(i) कथयन्ति (ii) शृण्वन्ति (iii) चिन्तयन्ति
उत्तरम् – कथयन्ति
(ग) वाक्पटुः धैर्यवान्
मन्त्री सभायामप्यकातरः परैः न परिभूयते ।
(i) निपुणः (ii) उत्तमः श्रोता (iii) वाक्कुशलः
उत्तरम् – वाक्कुशलः
(घ) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्
।
(i) कठोराम् (ii) कोमलाम् (iii) प्रयुक्ताम्
उत्तरम् – कठोराम्
(ङ) स विवेक इति ईरितः ।
(i) दृष्टः (ii) कथितः (iii) श्रुतः
उत्तरम् – कथितः
.png)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें