13 - वर्णोच्चारण-शिक्षा १

 



अभ्यासात् जायते सिद्धिः

१. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा उत्तरत-
(
क) उरसि किं तन्त्रं भवति ?
उत्तरम् : वायु-बल-तन्त्रम्

 

(ख) नाभिप्रदेशे स्थिताः मांसपेश्यः किं नोदयन्ति ?
उत्तरम् : उर:

 

(ग) आस्यस्य आभ्यन्तरे वार्णानाम् उत्पत्त्यर्थं द्वितीयं तत्त्वं किम् अस्ति ?
उत्तरम् : करणम्

 

(घ) आस्ये कति स्थानानि सन्ति?
उत्तरम् : षट्

 

(ङ) स्थानस्य कार्यनिदर्शनार्थं किं समुचितम् उदाहरणम् अस्ति ?
उत्तरम् : मुरली

 

(च) करणानि मुरल्याः कस्य भागम् इव व्यवहरन्ति ?
उत्तरम् : आस्यस्य स्थानानि

 

२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) करणं किं भवति ?
उत्तरम् : वर्णस्य उच्चारण-समये, आस्यस्य यः भागः स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः भागः–‘करणम्इति कथ्यते ।

 

(ख) उरः श्वासकोशस्थितं वायुं कुत्र निःसारयति ?
उत्तरम् : उरः श्वासकोशस्थितं वायुम् ऊर्ध्वं निःसारयति ।

 

(ग) मुरल्याः अङ्गुलिच्छिद्राणि कीदृशं व्यवहरन्ति ?
उत्तरम् : मुरल्याः अङ्गुलिच्छिद्राणि आस्यस्य स्थानानि इव व्यवहरन्ति ।

 

(घ) केषां वार्णानाम् उच्चारणे जिह्वा प्रायः निष्क्रिया भवति ?
उत्तरम् : कण्ठ्यानाम्, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणे जिह्वा निष्क्रिया भवति।

 

(ङ) तालव्यानां, मूर्धन्यानां दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं किम् अस्ति ?
उत्तरम् : तालव्यानां, मूर्धन्यानां दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं जिह्वा करणं अस्ति ।

 

(च) कण्ठ्यानां, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये किं भवति?
उत्तरम् : कण्ठ्यानां, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये स्वस्थानंभवति ।

  

 

३. अधोलिखितेषु वाक्येषु आम् / न इति लिखित्वा उचितभावं सूचयत-
(क) श्वासकोशस्थितः वायुः ऊर्ध्वं चरन् पूर्वम् आस्यं प्राप्नोति ।
उत्तरम् : न ।

(ख) सर्वप्रथमं नाभि प्रदेशे स्थिताः मांसपेश्याः कण्ठं नोदयन्ति।
उत्तरम् : न ।

(ग) आस्यस्य आभ्यन्तरे वर्णानाम् उत्पत्त्यर्थम् आभ्यन्तर-प्रयत्नः आवश्यकम् अस्ति ।
उत्तरम् : आम् ।

(घ) तालव्य-वर्णनाम् उच्चारणार्थं दन्तः स्थानं स्पृशति ।
उत्तरम् : न ।

(ङ) मूर्धन्यानां वर्णानाम् उच्चारणार्थं जिह्वा स्थानं स्पृशति।
उत्तरम् : आम् ।

 

(च) तत्तत्स्थानस्य एव कश्चित् पूर्वभागः, तत्तत्स्थानस्य परभागं स्पृशति ।
उत्तरम् : न ।

  

४. मुखे उपलभ्यमानानि स्थानानि बहिष्ठात् अन्तः यथाक्रमं (अर्थात् विपरीत क्रमेण) लिखन्तु-
 
            

उत्तरम्
:

(ङ) ओष्ठः
(
ख) दन्तः
(
ग) तालु
(
क) मूर्धा
(
घ) कण्ठः

  

५. यथायोग्यं मेलनं कुरुत-
उत्तरम् :

        

सामान्य- स्थानम्

विशेष- स्थानम्

सामान्य- करणम्

विशेष-करणम्

ओष्ठः

उत्तरोष्ठः

स्वस्थानं करणम्

अधरोष्ठः

दन्तः

दन्तः

जिह्वा करणम्

जिह्वोपाग्र:

नासिका

नासिकामूलस्य उपरिभागः

स्वस्थानं करणम्

कण्ठस्य अग्र

कण्ठः

कण्ठस्य पृष्ठभाग:

जिह्वा करणम्

जिह्वामध्यः

मूर्धा

मूर्धा

स्वस्थानं करणम्

नासिकामूलस्य अधोभागः

तालु

तालु

जिह्वा करणम्

जिह्वाग्र:

     

12 - सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

 


अभ्यासात् जायते सिद्धिः

१. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।

उत्तरम् : छात्रा : स्वयं करिष्यन्ति ।

 

 २. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत-

(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तरम् : वर्णानां

 

(ख) किम् अवश्यमेव पठनीयम् ?
उत्तरम् : व्याकरणम्

 

(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तरम् : सम्यग्वर्णप्रयोगेन

 

(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तरम् : षड्

 

(ङ) धैर्यं केषां गुण: ?
उत्तरम् : उत्तमपाठकस्य


 

३. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखित-
(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तरम् : व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति ।

 

(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तरम् : वर्णाः स्पष्टतया सम्यक् उच्चारणेन प्रयोक्तव्याः ।

 

(ग) पाठकानां षड्-गुणाः के भवन्ति ?
उत्तरम् : माधुर्यम्, अक्षर व्यक्तिः, पदच्छेदः, धैर्य:, ,सुस्वरः लयसमर्थं च षट् एते पाठकानां श्रेष्ठगुणाः भवन्ति ।

 

(घ) के अधमाः पाठकाः भवन्ति ?
उत्तरम् : गीति, शीघ्री, शिरःकम्पी, लिखितपाठक : अनर्थज्ञः अल्पकण्ठः च अधमाः पाठकाः भवन्ति ।

 

(ङ) स्वजन:’ ‘श्वजनच इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम् : स्वजन:इति शब्दः बान्धवाचक:, ‘श्वजन:इति शुनकः (कुक्कुरः) भवति ।

 

(च) सकलं’ ‘शकलंच इत्यनयोः अर्थदृष्टया कः भेद: ?
उत्तरम् : सकलंइति सम्पूर्णवाचकः विशेषणपदं । शकलंइति खण्डाय प्रयुक्तम् ।

 

  

४. अधोलिखितानि लक्षणानि पाठकस्य गुणाः वा दोषाः वा इति विभजत-

अक्षरव्यक्तिः, शीघ्री, लिखितपाठकः, लयसमर्थम्, अनर्थः,
अल्पकण्ठः, माधुर्यम्, गीति, पदच्छेदः, शिर: कम्पी, अनर्थज्ञः, धैर्यम्, सुस्वर:


उत्तरम् :

                          

गुणाः

दोषाः

यथाअक्षरव्यक्ति:

शीघ्री

माधुर्यम्

लिखितपाठकः

पदच्छेदः

गीति

सुस्वरः

अल्पकण्ठः

धैर्यम्

शिरःकम्पी

लयसमर्थम्

अनर्थज्ञः

 

 

 

 

 

 

 

 

 

५. श्लोकानुसारं रिक्तस्थानानि उचितैः शब्दैः पूरयत-

(क) भीता _________ तद्वद् वर्णान् प्रयोजयेत् ।
उत्तरम् : पतनभेदाभ्याम्

(ख) _________ लयसमर्थं च षडेते पाठका गुणाः ।
उत्तरम् : धैर्यं

(ग) गीती शीघ्री _________ तथा लिखितपाठकः ।
उत्तरम् : शिरःकम्पी

(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च _________
उत्तरम् : पीड़िता:

(ङ) स्वजन: _________ माभूत् सकलं शकलं सकृत् शकृत् ।
उत्तरम् : श्वजनो

 

  

६. अधोलिखितानि वाक्यानि सत्यम् वा असत्यम् वा इति लिखत-
यथा- पदच्छेदः पाठकानां गुणः अस्ति । सत्यम्/असत्यम्
(
क) गानसहितपठनं पाठकानां दोषः भवति ।
उत्तरम् : सत्यम्

(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति ।
उत्तरम् : सत्यम्

(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति ।
उत्तरम् : असत्यम्

(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति ।
उत्तरम् : असत्यम्

(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत् ।
उत्तरम् : सत्यम्


13 - वर्णोच्चारण-शिक्षा १

  अभ्यासात् जायते सिद्धिः १. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा उत्तरत- ( क) उरसि किं तन्त्रं भवति ? उत्तरम् : वायु-बल-तन्...