📚 अभ्यासात् जायते सिद्धिः 📚
१. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’-
(पाठ के आधार पर उदाहरण के अनुसार 'आम्' (हाँ) अथवा 'न' (नहीं) लिखिए-)
यथा: किं राज्ञः शूद्रकस्य नगर्या : नाम शोभावती आसीत्? ➔ आम्
यथा: किं वीरवरः अनेकशास्राणां ज्ञाता आसीत् ? ➔ न
यथा: किं वीरवरः अनेकशास्राणां ज्ञाता आसीत् ? ➔ न
(क) किं वीरवरः राजपुत्रः आसीत्?
उत्तरम् : आम्
उत्तरम् : आम्
(ख) “किं ते वर्तनम्?” इति किं शूद्रक : अपृच्छत्?
उत्तरम् : आम्
उत्तरम् : आम्
(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्?
उत्तरम् : आम्
उत्तरम् : आम्
(घ) किं राजा शूद्रक: राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत्?
उत्तरम् : न
उत्तरम् : न
(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म?
उत्तरम् : आम्
उत्तरम् : आम्
(च) किं करुण – रोदन – ध्वनिं राजा श्रुतवान्?
उत्तरम् : आम्
उत्तरम् : आम्
(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत्?
उत्तरम् : न
उत्तरम् : न
(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्?
उत्तरम् : आम्
उत्तरम् : आम्
(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्?
उत्तरम् : आम्
उत्तरम् : आम्
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए-)
(क) शूद्रकः कीदृशः राजा आसीत् ?
उत्तरम् : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत् ।
उत्तरम् : शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत् ।
(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ?
उत्तरम् : वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म ।
उत्तरम् : वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म ।
(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्?
उत्तरम् : वीरवरः अवदत् - मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति ।
उत्तरम् : वीरवरः अवदत् - मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति ।
(घ) वीरवरः स्वगृहं कदा गच्छति स्म ?
उत्तरम् : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।
उत्तरम् : यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म ।
(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ?
उत्तरम् : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म ।
उत्तरम् : वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म ।
(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ?
उत्तरम् : राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत् ।
उत्तरम् : राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत् ।
(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ?
उत्तरम् : वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:?
उत्तरम् : वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:?
३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
(उदाहरण के अनुसार निम्नलिखित वाक्यों को अन्वय रूप में लिखिए-)
यथा: वृत्त्यर्थमागतो राजपुत्रोऽस्मि तस्मान्नय मां स्वामिनः समीपम् ।
➔ (अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।
➔ (अहं) राजपुत्रः वृत्त्यर्थम् आगतः अस्मि, तस्माद् मां स्वामिनः समीपं नय ।
(क) आसीत् शोभावती नाम काचन नगरी ।
उत्तरम् : शोभावती नाम काचन नगरी आसीत् ।
उत्तरम् : शोभावती नाम काचन नगरी आसीत् ।
(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
उत्तरम् : देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।
उत्तरम् : देव! प्रतिदिनं सुवर्णंचतुष्टयम् ।
(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति ।
उत्तरम् : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम् । किम् एतत् वेतनम् उपपन्नं न वेति ।
उत्तरम् : देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम् । किम् एतत् वेतनम् उपपन्नं न वेति ।
(घ) क्रन्दनमनुसर राजपुत्र !
उत्तरम् : राजपुत्र ! क्रन्दनम् अनुसर ।
उत्तरम् : राजपुत्र ! क्रन्दनम् अनुसर ।
(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
उत्तरम् : अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः ।
उत्तरम् : अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः ।
(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
उत्तरम् : अस्मिन् सूचिभेद्ये तिमिरे एषः राजपुत्रः एकाकी गन्तुं न अर्हति ।
उत्तरम् : अस्मिन् सूचिभेद्ये तिमिरे एषः राजपुत्रः एकाकी गन्तुं न अर्हति ।
(छ) भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी?
उत्तरम् : भगवति ! अस्ति अत्र कश्चिद् उपायः ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।
उत्तरम् : भगवति ! अस्ति अत्र कश्चिद् उपायः ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति ।
(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
उत्तरम् : तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।
उत्तरम् : तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति ।
४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत-
(उदाहरण के अनुसार सन्धि-विच्छेद द्वारा रिक्त स्थानों की पूर्ति कीजिए-)
यथा: अथैकदा = अथ + एकदा
1. वृत्त्यर्थम् ➔ वृत्ति + अर्थम्
2. कस्मादपि ➔ कस्मात् + अपि
3. कोऽपि ➔ कः + अपि
4. राजपुत्रोऽस्मि ➔ राजपुत्र: + अस्मि
5. यथेष्टम् ➔ यथा + इष्टम्
6. वेतनार्पणेन ➔ वेतन + अर्पणेन
7. तदालोक्य ➔ तद् + आलोक्य
8. ततोऽसौ ➔ ततः + असौ
9. वर्त्तनार्थिनो ➔ वर्तन + अर्थिनः
10. तदवशिष्टं ➔ तद् + अवशिष्टम्
11. राजदर्शनादनन्तरं ➔ राजदर्शनात् + अनन्तरम्
12. वेति ➔ वा + इति
13. राजलक्ष्मीरुवाच ➔ राजलक्ष्मीः + उवाच
14. चार्द्धं ➔ च + अर्धम्
15. बहिर्नगरादालोकिता ➔ बहिः + नगराद् + आलोकिता
16. कापि ➔ का + अपि
17. प्रत्युवाच ➔ प्रति + उवाच
18. राजलक्ष्मीरस्मि ➔ राजलक्ष्मीः + अस्मि
19. स्थास्यामीति ➔ स्थास्यामि + इति
20. भुजच्छायायां ➔ भुज + छायायाम्
21. अस्त्यत्र ➔ अस्ति + अत्र
22. कश्चिदुपायो ➔ कश्चिद् + उपायः
५. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि केभ्यः प्रयुक्तानि इति लिखत-
(वाक्यों में प्रयुक्त पद किसके लिए प्रयोग किए गए हैं, लिखिए-)
यथा: अहं भवतः सेवायां नियोजितः । ➔ राज्ञे
(क) ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम् : वीरवराय
उत्तरम् : वीरवराय
(ख) तत् अहम् अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम् : राज्ञे
उत्तरम् : राज्ञे
(ग) चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम् : राज्ञे
उत्तरम् : राज्ञे
(घ) सा चातीव दुःसाध्या ।
उत्तरम् : प्रवृत्यै
उत्तरम् : प्रवृत्यै
(ङ) किं ते वर्तनम्?
उत्तरम् : वीरवराय
उत्तरम् : वीरवराय
६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
(वाक्य पढ़कर उनसे संबंधित पाठगत पंक्ति/श्लोक लिखिए-)
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्याति ।
उत्तरम् : यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।
उत्तरम् : यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि ।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति ।
उत्तरम् : नैतच्छक्यम् ।
उत्तरम् : नैतच्छक्यम् ।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति ।
उत्तरम् : एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत् ।
उत्तरम् : एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत् ।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति ।
उत्तरम् : ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।
उत्तरम् : ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् ।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति ।
उत्तरम् : अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
उत्तरम् : अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
(निम्नलिखित वाक्यों का पदच्छेद कीजिए-)
यथा: अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत् ।
➔ अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत् ।
➔ अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत् ।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
उत्तरम् : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।
उत्तरम् : वृत्त्यर्थम् आगतः राजपुत्रः अस्मि ।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
उत्तरम् : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
उत्तरम् : अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
उत्तरम् : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।
उत्तरम् : तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति ।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति ।
उत्तरम् : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुनः इह चिरवासः भवति ।
उत्तरम् : अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुनः इह चिरवासः भवति ।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या।
उत्तरम् : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या ।
उत्तरम् : एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या ।