Advertisement

11 - सन्निमित्ते वरं त्यागः (ख-भागः)

अभ्यासात् जायते सिद्धिः - संस्कृतम्

📚 अभ्यासात् जायते सिद्धिः 📚

१. निम्नलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(रेखांकित/स्थूल पदों के आधार पर प्रश्न निर्माण कीजिए-)
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ।
उत्तरम् : क: पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ?
(ख) ततस्ते सर्वे सर्वमङ्गलायाः आयतनं गताः ।
उत्तरम् : ततस्ते सर्वे कस्याः आयतनं गताः?
(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत् ।
उत्तरम् : वीरवरः वर्तनस्य निस्तारं केन / कथम् अकरोत् ?
(घ) राजा स्वप्रासादं प्राविशत् ।
उत्तरम् : राजा कुत्र प्राविशत् ?
(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत् ।
उत्तरम् : महीपतिः कस्मै समग्र कर्णाटप्रदेशम् अयच्छत्?
२. अधोलिखितान् प्रश्नान् उत्तरत-
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए-)
(क) वीरवरः किम् अवर्णयत् ?
उत्तरम् : वीरवर : अखिलराजलक्ष्मीसंवादम् अवर्णयत् ।
(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत् ?
उत्तरम् : प्राज्ञः धनानि जीवितं च परार्थे उत्सृजेत् ।
(ग) केन सदृशः लोके न भूतो न भविष्यति ?
उत्तरम् : वीरवरेण सदृशः लोके न भूतो न भविष्यति ।
(घ) का अदृश्या अभवत्?
उत्तरम् : भगवती सर्वमङ्गला अदृश्या अभवत् ।
(ङ) सपरिवारः वीरवरः कुत्र गतवान्?
उत्तरम् : सपरिवारः वीरवरः स्वगृहं गतवान् ।
३. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि केभ्यः प्रयुक्तानि इति लिखत-
(वाक्यों में प्रयुक्त पद किसके लिए प्रयोग किए गए हैं, लिखिए-)
उदाहरणम् : धन्यः अहम् स्वामिजीवितरक्षार्थं विनियुक्तः । ➔ शक्तिधराय
(क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा ।
उत्तरम् : नृपाय / राज्ञे
(ख) वत्स! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तरम् : नृपाय / राज्ञे
(ग) धन्याहं यस्या ईदृशो जनको भ्राता च ।
उत्तरम् : वीरंवत्यै
(घ) तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ।
उत्तरम् : नृपस्य / शूद्रकाय / राज्ञे
(ङ) अयम् अपि सपरिवारो जीवतु ।
उत्तरम् : वीरवराय / राजपुत्राय
४. उदाहरणानुसारं अन्वयरूपेण लिखत-
(उदाहरण के अनुसार अन्वय रूप में लिखिए-)
यथा: कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।
गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः ।
(क) नेदानीं राज्यभङ्गस्ते भविष्यति ।
उत्तरम् : इदानीं ते राज्यभङ्गः न भविष्यति ।
(ख) तेन पातितं स्वशिरः स्वकरस्थखड्गेन ।
उत्तरम् : तेन स्वकरस्थखड्गेन स्वशिरः पातितम् ।
(ग) तदा ममायुः शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च ।
उत्तरम् : तदा ममायुः शेषेणापि राजपुत्रो वीरवरः पुत्रेण पत्न्या दुहित्रा च सह जीवतु ।
(घ) तत्क्षणादेव देवी गताऽदर्शनम् ।
उत्तरम् : तत्क्षणादेव देवी अदर्शनम् गता ।
(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
उत्तरम् : महीपति: तस्मै राजपुत्राय वीरवराय समग्र-कर्णाट-प्रदेशं प्रायच्छत् ।
(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
उत्तरम् : मादृशाः क्षुद्रजन्तवः जायन्ते म्रियन्ते च ।
५. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत-
(उदाहरण के अनुसार पदों का पदच्छेद कीजिए-)
यथा: यद्येवमस्मत्कुलोचितम् = यदि - एवम् - अस्मत् - कुलोचितम्
यथा: सत्त्वोत्कर्षेण = सत्त्व - उत्कर्षेण
(क) गृहीतस्वामिवर्तनस्य ➔ गृहीत – स्वामि - वर्तनस्य
(ख) निस्तारोपायः ➔ निस्तार – उपायः
(ग) गृह्यतामेष ➔ गृह्यताम् - एषः
(घ) स्वपुत्रोत्सर्गेण ➔ स्वपुत्र – उत्सर्गेण
(ङ) स्वकरस्थखड्गेन ➔ स्वकरस्थ - खड्गेन
(च) तदेतत्परित्यक्तेन ➔ तत् - एतत् - परित्यक्तेन
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः ➔ स्वशिरः - छेदनार्थम् - उत्क्षिप्तः
(ज) मद्दर्शनाददृश्यताम् ➔ मत् - दर्शनात् – अदृश्यताम्
(झ) तत्क्षणादेव ➔ तत् - क्षणात् - एव
(ञ) लब्धजीवितः ➔ लब्ध - जीवितः
६. (क) सन्धियुक्तपदैः रिक्तस्थानानि पूरयत तथा (ख) सन्धिच्छेदं कुरुत-
(सन्धि करके रिक्त स्थान भरिए तथा सन्धि-विच्छेद कीजिए-)

(क) सन्धियुक्तपदानि:

1. तत् + श्रुत्वा ➔ तच्छ्रुत्वा
2. दुहितरम् + च ➔ दुहितरञ्च
3. धन्यः + अहम् ➔ धन्योऽहम्
4. जीवितम् + च + एव ➔ जीवितञ्चैव
5. विलम्बः + तात ➔ विलम्बस्तात
6. कः + अधुना ➔ कोऽधुना
7. न + आचरितव्यम् ➔ नाचरितव्यम्
8. धन्या + अहम् ➔ धन्याहं
9. निस्तारः + उपायः ➔ निस्ताररुपाय
10. वीरवरः + अवदत् ➔ वीरवरोऽवदत्
11. ततः + असौ ➔ ततोऽसौ
12. ततः + ते ➔ ततस्ते

(ख) सन्धिच्छेदः:

1. शूद्रकोऽपि ➔ शूद्रकः + अपि
2. पुनर्भूपालेन ➔ पुनः + भूपालेन
3. महीपतिस्तस्मै ➔ महीपालः + तस्मै
4. प्रायच्छत् ➔ प्र + अयच्छत्
5. नृपतिरपि ➔ नृपतिः + अपि
6. सर्वेषामदृश्य ➔ सर्वेषाम् + अदृश्य
7. वार्ताऽन्या ➔ वार्ता + अन्याः
8. राज्यभङ्गस्ते ➔ राज्यभङ्गः + ते
9. गतिर्गन्तव्या ➔ गतिः + गन्तव्या
10. इत्युक्त्वा ➔ इति + उक्त्वा
11. नेदानीं ➔ न + इदानीं
12. प्रीतास्मि ➔ प्रीता + अस्मि
७. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत-
(घटनाक्रम के अनुसार कथा के वाक्यों को सही क्रम में लिखिए-)
सही घटनाक्रम (उचित-क्रमेण):
  1. वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत् ।
  2. पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत् ।
  3. वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत् ।
  4. सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्व समर्पणार्थं सिद्धः अभवत् ।
  5. भगवती प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः ।
  6. प्रातः राजा वीरवरम् अपृच्छत् “ह्यः रात्रौ किम् अभवत्”?
  7. वीरवरेण उक्तम् – स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत् ।
Advertisement