Advertisement

12 - सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

अभ्यासात् जायते सिद्धिः - संस्कृतम्

📚 अभ्यासात् जायते सिद्धिः 📚

१. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।
(पाठ में दिए गए श्लोकों का उच्चारण, स्मरण और लेखन कीजिए-)
उत्तरम् : छात्राः स्वयं करिष्यन्ति ।
२. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(निम्नलिखित प्रश्नों के उत्तर एक पद में दीजिए-)
(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तरम् : वर्णानाम्
(ख) किम् अवश्यमेव पठनीयम् ?
उत्तरम् : व्याकरणम्
(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तरम् : सम्यग्वर्णप्रयोगेन
(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तरम् : षड्
(ङ) धैर्यं केषां गुण: ?
उत्तरम् : उत्तमपाठकस्य
३. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखत-
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए-)
(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तरम् : व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति ।
(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तरम् : वर्णाः स्पष्टतया सम्यक् उच्चारणेन प्रयोक्तव्याः ।
(ग) पाठकानां षड्-गुणाः के भवन्ति ?
उत्तरम् : माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, धैर्यम्, सुस्वरः, लयसमर्थं च षट् एते पाठकानां श्रेष्ठगुणाः भवन्ति ।
(घ) के अधमाः पाठकाः भवन्ति ?
उत्तरम् : गीति, शीघ्री, शिरःकम्पी, लिखितपाठकः, अनर्थज्ञः, अल्पकण्ठः च अधमाः पाठकाः भवन्ति ।
(ङ) ‘स्वजनः’ ‘श्वजनः’ च इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम् : ‘स्वजनः’ इति शब्दः बान्धववाचकः, ‘श्वजनः’ इति शुनकः (कुक्कुरः) भवति ।
(च) ‘सकलं’ ‘शकलं’ च इत्यनयोः अर्थदृष्टया कः भेदः ?
उत्तरम् : ‘सकलं’ इति सम्पूर्णवाचकः विशेषणपदम् । ‘शकलं’ इति खण्डाय प्रयुक्तम् ।
४. अधोलिखितानि लक्षणानि पाठकस्य गुणाः वा दोषाः वा इति विभजत-
(नीचे लिखे लक्षणों को पाठक के गुणों अथवा दोषों में विभाजित कीजिए-)
पट्टिका: अक्षरव्यक्तिः, शीघ्री, लिखितपाठकः, लयसमर्थम्, अनर्थः, अल्पकण्ठः, माधुर्यम्, गीति, पदच्छेदः, शिरःकम्पी, अनर्थज्ञः, धैर्यम्, सुस्वरः
गुणाः (उत्तम पाठकों के गुण) दोषाः (अधम पाठकों के दोष)
अक्षरव्यक्तिः (यथा—) शीघ्री
माधुर्यम् लिखितपाठकः
पदच्छेदः गीति
सुस्वरः अल्पकण्ठः
धैर्यम् शिरःकम्पी
लयसमर्थम् अनर्थज्ञः / अनर्थः
५. श्लोकानुसारं रिक्तस्थानानि उचितैः शब्दैः पूरयत-
(श्लोक के अनुसार उचित शब्दों से रिक्त स्थानों की पूर्ति कीजिए-)
(क) भीता _________ तद्वद् वर्णान् प्रयोजयेत् ।
उत्तरम् : पतनभेदाभ्याम्
(ख) _________ लयसमर्थं च षडेते पाठका गुणाः ।
उत्तरम् : धैर्यं
(ग) गीती शीघ्री _________ तथा लिखितपाठकः ।
उत्तरम् : शिरःकम्पी
(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च _________ ।
उत्तरम् : पीड़िताः
(ङ) स्वजनः _________ माभूत् सकलं शकलं सकृत् शकृत् ।
उत्तरम् : श्वजनो
६. अधोलिखितानि वाक्यानि सत्यम् वा असत्यम् वा इति लिखत-
(निम्नलिखित वाक्य सत्य हैं या असत्य, बताइए-)
यथा: पदच्छेदः पाठकानां गुणः अस्ति । ➔ सत्यम्
(क) गानसहितपठनं पाठकानां दोषः भवति ।
उत्तरम् : सत्यम्
(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति ।
उत्तरम् : सत्यम्
(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति ।
उत्तरम् : असत्यम्
(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति ।
उत्तरम् : असत्यम्
(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत् ।
उत्तरम् : सत्यम्
Advertisement