Advertisement

09 - अन्नाद् भवन्ति भूतानि

अभ्यास प्रश्नाः

📚 अभ्यास प्रश्नोत्तर 📚

१. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु।
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(क) पुत्र्याः जिज्ञासा का ?
उत्तरः पुत्र्याः जिज्ञासा यत् वयं मनुष्याः प्राणिनः कीटाः च कथं भूलोके आगताः ।
(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
उत्तरः ब्रह्मणः आकाशस्य उत्पत्तिः अभवत् ।
(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
उत्तरः अग्नेः जलस्य उत्पत्तिः अभवत् ।
(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
उत्तरः पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत् ।
(ङ) आहारात् के उत्पन्नाः ?
उत्तरः आहारात् कीटाः प्राणिनः मनुष्याः उत्पन्नाः ।
(च) माता किं किं पठितवती ?
उत्तरः माता आधुनिक रसायनशास्त्रम् उपनिषद-ग्रन्थान् च पठितवती ।
२. पाठं पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु।
(पाठ को पढ़कर खाली स्थानों में उचित पद लिखिए।)
(क) अम्ब ! मम काचिद् ………… अस्ति ।
उत्तरः जिज्ञासा
(ख) प्रथमं ………. आकाशस्य उत्पत्तिः अभवत् ।
उत्तरः ब्रह्मणः
(ग) साक्षात् ………… उत्पत्तिं वदतु।
उत्तरः मनुष्याणाम्
(घ) ………. कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब ?
उत्तरः आहारात्
(ङ) अहम् आधुनिकं ………., ………… च पठितवती ।
उत्तरः रसायनशास्त्रम्; उपनिषद्-ग्रन्थान्
(च) अस्माकं ………. ज्ञानं तेषु एव निहितम् अस्ति ।
उत्तरः मौलिकं
३. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु।
(उदाहरण के अनुसार नीचे दिए गए शब्दों के वचन परिवर्तन कीजिए।)
शब्दः एकवचनम् द्विवचनम् बहुवचनम्
आहार आहारात् आहाराभ्याम् आहारेभ्यः
मनुष्य मनुष्यात् मनुष्याभ्याम् मनुष्येभ्यः
वृक्ष वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः
अग्नि अग्नेः अग्निभ्याम् अग्निभ्यः
मुनि मुनेः मुनिभ्याम् मुनिभ्यः
पेटिका पेटिकायाः पेटिकाभ्याम् पेटिकाभ्यः
वाटिका वाटिकायाः वाटिकाभ्याम् वाटिकाभ्यः
माला मालायाः मालाभ्याम् मालाभ्यः
कूपी कूप्याः कूपीभ्याम् कूपीभ्यः
नदी नद्याः नदीभ्याम् नदीभ्यः
नगरी नगर्याः नगरीभ्याम् नगरीभ्यः
४. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु।
(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)
(क) माता आपणात् गृहम् आगच्छति ।
उत्तरः माता कस्मात् / कुतः गृहम् आगच्छति ?
(ख) राजेश विद्यालयात् पुस्तकम् आनयति ।
उत्तरः राजेश कस्मात् / कुतः पुस्तकम् आनयति ?
(ग) विकासः महेशात् लेखनीं स्वीकृतवान् ।
उत्तरः विकासः कस्मात् / कुतः लेखनीं स्वीकृतवान् ?
(घ) माता गृहात् पुत्रं पश्यति ।
उत्तरः माता कस्मात् / कुतः पुत्रं पश्यति ?
(ङ) हिमालयात् गङ्गा प्रवहति ।
उत्तरः कस्मात् / कुतः गङ्गा प्रवहति ?
५. सङ्केतान् आधृत्य वर्गपहेलीं पूरयत।
(संकेतों के आधार पर वर्ग-पहेली को पूरा कीजिए।)
वामतः दक्षिणम् (बाएँ से दाएँ):
(१) जन्म (त्रीणि अक्षराणि)
(२) मातः (अक्षरद्वयम्)
(३) सत्यम् (अक्षरद्वयम्)
(४) अपि (एकम् अक्षरम्)
(५) ओषधीनाम् (त्रीणि अक्षराणि)
(६) तदर्थम् (अक्षरद्वयम्)
(७) कस्मिन् समये (अक्षरद्वयम्)
उपरिष्टात् अधः (ऊपर से नीचे):
(१) उन्नतिः (त्रीणि अक्षराणि)
(२) समाप्तम् (चत्वारि अक्षराणि)
(३) गगनस्य (चत्वारि अक्षराणि)
(४) बुद्धिमती (त्रीणि अक्षराणि)
(५) सकलम् (अक्षरद्वयम्)
(६) ततः परम् (चत्वारि अक्षराणि)
(८) किल (अक्षरद्वयम्)
1 त्प तिः 2 म्ब
त्क न्ति 3 म्
र्षः 6 तः का 4
म् तु
8 न्त 5 स्य रा
लु रं र्वम् 7 दा
६. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु।
(किसने किससे विद्या प्राप्त की, इसे पूर्ण वाक्य में लिखिए।)
(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान् ।
उत्तरः शुक्राचार्यः महादेवात् विद्यां प्राप्तवान् ।
(ख) पद्मपादः शङ्कराचार्यात् विद्यां प्राप्तवान् ।
उत्तरः पद्मपादः शङ्कराचार्यात् विद्यां प्राप्तवान् ।
(ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान् ।
उत्तरः विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान् ।
(घ) रामः वशिष्ठात् विद्यां प्राप्तवान् ।
उत्तरः रामः वशिष्ठात् विद्यां प्राप्तवान् ।
(ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान् ।
उत्तरः भीष्मः परशुरामात् विद्यां प्राप्तवान् ।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान् ।
उत्तरः चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान् ।
(छ) अर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान् ।
उत्तरः अर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान् ।
७. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषाया / आङ्ग्लभाषाया वा अनुवादं कुर्वन्तु।
(नीचे दिए गए वाक्यों का हिंदी/अंग्रेज़ी में अनुवाद कीजिए।)
(क) राधा नगरात् आगच्छति ।
उत्तरः राधा शहर से आती है । (Radha comes from the city.)
(ख) विनयः वृक्षात् पुष्पाणि चिनोति ।
उत्तरः विनय पेड़ से फूल चुनता है । (Vinay plucks flowers from the tree.)
(ग) सन्दीप कार्यालयात् गृहं गतवान् ।
उत्तरः सन्दीप कार्यालय से घर गया । (Sandeep went home from the office.)
(घ) भगिनी दूरात् वाहनं पश्यति ।
उत्तरः बहन दूर से वाहन को देखती है । (Sister sees the vehicle from a distance.)
(ङ) मित्रं शालाया: गृहम् आगतवान् ।
उत्तरः मित्र शाला से घर आया । (The friend came home from school.)
(च) बालः कपाटिकायाः धनं स्वीकरोति ।
उत्तरः बालक अलमारी से धन लेता है । (The boy takes money from the cupboard.)
Advertisement