08 - बुद्धिः सर्वार्थसाधिकाः

 


अभ्यास प्रश्नाः

 १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?

उत्तरम्: शशकाः |

 

(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?

उत्तरम्: गजानाम् |

 

(ग) शशकराजः कस्य समीपं गच्छति ?

उत्तरम्: गजराजस्य |

 

(घ) के स्वमतं प्रकाशयन्ति ?

उत्तरम्: शशकाः |

 

(ङ) कः चन्द्रं नमति ?

उत्तरम्: गजराजस्य |

 

(च) के सुखेन तिष्ठन्ति ?

उत्तरम्: शशकाः |

 

२. पूर्णवाक्येन उत्तराणि लिखन्तु ।

(क) चन्द्रः कदा प्रसन्नः भवति ?
उत्तरम्: यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति 

 

(ख) सायङ्काले केषां सभा भवति ?
उत्तरम्: सायङ्काले शशकानां सभा भवति ।

 

(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
उत्तरम्: शशकाः स्वर्क्षार्थम् उपायं चिन्तयन्ति ।

 

(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
उत्तरम्: चन्द्रः ‘शशाङ्कः’ इति नाम्ना प्रसिद्धः अस्ति ।

 

(ङ) आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति कः कथयति ?
उत्तरम्: आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति शशकः कथयति ।

 

 ३ पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु ।

         (निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)

उत्तरम्:

(क)   किं चन्द्रः सरोवरे तिष्ठति |

(ख)   सर्वे शशकाः उपायं चिन्तयन्ति

(ग)    सायंकाले शशकानां सभा भवति

(घ)   शशकाः सरोवरस्य तीरे निवसन्ति

(ङ)   सः गजराजं कथयति

 

 ४.  उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु |

उत्तरम्:

पदम्

पुरुषः

वचनम्

यथा - चिन्तयति

प्रथमपुरुषः

एकवचनम्

तिष्ठन्ति

प्रथमपुरुषः

बहुवचनम्

जीवन्ति

प्रथमपुरुषः

बहुवचनम्

नमति

प्रथमपुरुषः

एकवचनम्

कथयति

प्रथमपुरुषः

एकवचनम्

गच्छति

प्रथमपुरुषः

एकवचनम्

 

 ५. उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पूरयन्तु ।

             उत्तरम्:

धातुः 

एकवचनम्

द्विवचनम्

बहुवचनम्

यथा - गम्

गच्छति

गच्छतः

गच्छन्ति

कथ्

कथयति

कथयतः

कथयन्ति

स्था

तिष्ठति

तिष्ठतः

तिष्ठन्ति

कृ

करोमि

कुर्वः

कुर्मः

जीव्

जीवति

जीवतः

जीवन्ति

चल्

चलामि

चलावः

चलामः

 

६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु |


उत्तरम्:

(क)  एतत् चित्रम् उपवनस्य अस्ति |

(ख)  एषः वृक्षः सेवफलस्य अस्ति |

(ग)   वृक्षस्य अधः सेवफलानि सन्ति |

(घ)  सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति |

(ङ)  सेवफलस्य वर्णः रक्तः अस्ति |

 

७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु | 

उत्तरम्:

(क)  गजः      -        हस्ती

(ख)  पदम्            चरणः

(ग)   चन्द्रः      -        शशाङ्कः

(घ)  सरोवरः    -        जलाशयः

(ङ)  प्रजा       -        जनता


07 - अतिथिदेवो भव

 


अभ्यास प्रश्न -

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) राधिका कथं चलति स्म ?

उत्तरम्: कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?

उत्तरम्: पञ्च ।

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?

उत्तरम्: राधिकाम् ।

(घ) मार्जार्याः कति शावकाः ?

उत्तरम्: चत्वारः ।

(ङ) राधिका मार्जार्ये किं ददाति ?

उत्तरम्: क्षीरं / दुग्धम् ।

(च) चित्रवर्णः कः अस्ति ?

उत्तरम्: शबलः ।

  

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति - तन्वी, मृद्वी, शबलः, भीमः च  इति । 

 

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथि देवो भव’ पाठयति । 

 

(ग) विशिष्टाः अतिथयः के ?
उत्तरम्: मार्जारी चत्वारः शावकाः च
विशिष्टाः अतिथयः सन्ति । 

 

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति – राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । 

 

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्: यदा
शावकानां समीपं राधिका गच्छति मार्जारी मन्दं – मन्दं पृष्ठतः आगच्छति |  

 

(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?
उत्तरम्: तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला | शबलः चित्रवर्णः तथा भीमः किञ्चित् स्थूलः
सन्ति । 

 

३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखन्तु ।

यथा - लेखनी अत्र अस्ति । 

         लेखनी कुत्र अस्ति ?

(क) वृक्षः तत्र अस्ति ।
उत्तरम्: वृक्षः कुत्र अस्ति ?

 

(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्: देवालयः कुत्र अस्ति ?

 

(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्: वायुः कुत्र अस्ति ?

 

(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्: बालकाः कुत्र तिष्ठन्ति ?

 

(ङ) माता अत्र अस्ति ।
उत्तरम्: माता कुत्र अस्ति ?

 

 

४. उत्पीठिकायां किम् अस्ति? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु ।
         यथा - उत्पीठिकायां पुस्तकम् अस्ति ।

         उत्पीठिकायां घटी नास्ति ।

(पुस्तकम्, घटी, लेखनी, चषकः, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुकः)




उत्तरम्:

१.   उत्पीठिकायां सङ्गणकम् अस्ति |

२.   उत्पीठिकायां लेखनी नास्ति |

३.   उत्पीठिकायां कन्दुकम् अस्ति |

४.   उत्पीठिकायां वृक्षः नास्ति |

५.   उत्पीठिकायां घटी नास्ति |

६.   उत्पीठिकायां फलम् नास्ति |

७.   उत्पीठिकायां चषकः नास्ति |

८.   उत्पीठिकायां कूपी अस्ति |

९.   उत्पीठिकायां स्यूतः अस्ति |

१०.  उत्पीठिकायां पुस्तकम् अस्ति |

 

 

 ५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा -

मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।

सेवकः कुत्र अस्ति ? सेवकः तत्र अस्ति ।


उत्तरम्: - वाक्यानि – अत्र

1. छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।

2. काकः कुत्र अस्ति ? काकः अत्र अस्ति ।

3. दीपकः कुत्र अस्ति ? दीपकः अत्र अस्ति ।

4. घटः कुत्र अस्ति ? घटः अत्र अस्ति ।

5. सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति ।

6. शिक्षकः कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।

7. बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।

8. लेखनी कुत्र अस्ति ? लेखनी अत्र अस्ति ।

9. माला कुत्र अस्ति ? माला अत्र अस्ति ।

तत्र

10. विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।

11. गायकः कुत्र अस्ति ? गायकः तत्र अस्ति ।

12. घटी कुत्र अस्ति ? घटी तत्र अस्ति ।

13. फलम् कुत्र अस्ति ? फलम् तत्र अस्ति ।

14. गृहम् कुत्र अस्ति ? गृहम् तत्र अस्ति ।

15. वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।

16. हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।

17. अजः कुत्र अस्ति ? अजः तत्र अस्ति ।

18. मूषकः कुत्र अस्ति ? मूषकः तत्र अस्ति ।

सर्वत्र

19. प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।

20. परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।

21. ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति ।

22. आकाशः कुत्र अस्ति ? आकाशः सर्वत्र अस्ति ।

23. अणवः कुत्र सन्ति ? अणवः सर्वत्र सन्ति ।

24. प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।

25. पुष्पाणि कुत्र सन्ति ? पुष्पाणि सर्वत्र सन्ति ।

26. वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति ।

27. प्रेम कुत्र अस्ति ? प्रेम सर्वत्र अस्ति ।

एकत्र

28. बालकौ कुत्र स्तः ? बालकौ एकत्र स्तः ।

29. मयूरौ कुत्र स्तः ? मयूरौ एकत्र स्तः ।

30. मित्रौ कुत्र स्तः ? मित्रौ एकत्र स्तः ।

31. पुत्रौ कुत्र स्तः ? पुत्रौ एकत्र स्तः ।

32. महिलाः कुत्र सन्ति ? महिलाः एकत्र सन्ति ।

33. सेविकाः कुत्र सन्ति ? सेविकाः एकत्र सन्ति ।

34. चटकाः कुत्र सन्ति ? चटकाः एकत्र सन्ति ।

35. दोला कुत्र अस्ति ? दोला एकत्र अस्ति ।

 

 ६. भोजनशालायां किं किम् अस्ति इति पञ्चभिः वाक्यैः लिखन्तु । 

यथा - भोजनशालायां पाचकः अस्ति । 

(सूचकपदानि - पाचकः, पात्रम्, तण्डुलाः, शाकानि, अग्निः, जलम्)

उत्तरम्: -       भोजनशालायां पाचकः अस्ति । 

भोजनशालायां पात्रम् अस्ति । 

भोजनशालायां तण्डुलाः सन्ति । 

भोजनशालायां शाकानि सन्ति । 

भोजनशालायां अग्निः अस्ति । 

भोजनशालायां जलम् अस्ति । 

   

७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु । 

(क) अमितः गृहात् बहिः गच्छति । 

उत्तरम्: - बहिः

(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति । 

उत्तरम्: - उपरि

(ग) सः फलानि अधः क्षिपति । 

उत्तरम्: - अधः

(घ) तत्र एकः बिडालः अस्ति । 

उत्तरम्: - तत्र

(ङ) बिडालः गृहस्य अन्तः प्रविशति । 

उत्तरम्: - अन्तः

 

 ८. उदाहरणानुसारं कः कुत्र अस्तिकुत्र नास्ति इति लिखन्तु ।

    यथा – 

    

उत्तरम्: -

 १.   सिंहः वने अस्ति । सिंहः कार्यालये नास्ति ।

२.   छात्रः आकाशे नास्ति । छात्रः विद्यालये अस्ति ।

३.   मत्स्यः समुद्रे अस्ति । मत्स्यः वृक्षे नास्ति ।

४.   मधुरता लड्डुके अस्ति । मधुरता कषाये नास्ति ।

५.   उष्णता सूर्ये अस्ति । उष्णता चन्द्रे नास्ति ।

६.   वानरः नद्यां नास्ति । वानरः वृक्षे अस्ति ।  

७.   नौका जले अस्ति । नौका पर्वते नास्ति ।  

८.   अज्ञानं पण्डिते नास्ति । अज्ञानं मूर्खे अस्ति ।   

९.   चन्द्रः अमावस्यायां नास्ति । चन्द्रः पूर्णिमायां अस्ति ।  

१०.    अवकाशः सोमवासरे नास्ति । अवकाशः रविवासरे अस्ति ।






08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...