07 - ईशावास्यम् इदं सर्वम्

 

          

अभ्यास कार्यम्

 १. अधः प्रदत्तनां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु -

(क) दैत्यराज: कः?
उत्तर: हिरण्यकशिपुः ।

(ख) के हिरण्यकशिपुं ध्यायन्ति?
उत्तर: सुरासुराः

(ग) किं देवेभ्यः न दास्यन्ति?
उत्तर: अमृतम्

(घ) कस्य दलनेन अपि सः जीवति?
उत्तर: गजस्य

(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः?
उत्तर: पर्वतात्

(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?
उत्तर: ब्रह्मणः 

(छ) हरिः कुत्र अस्ति इति कः वदति?
उत्तर: प्रह्लादः

 

२. . अधः प्रदत्तनां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु -

(क) के भीता: तिष्ठन्ति?
उत्तर: सुरासुराः भीताः तिष्ठन्ति

(ख) प्रह्लादः अहर्निशं किं करोति?
उत्तर: प्रह्लादः अहर्निशं नारायणं स्मरति

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
उत्तर: राक्षसाः प्रह्लादं समुद्रे क्षिप्तवन्तः।

(घ) नृसिंह: कथं बहिः आगच्छति?
उत्तर: नृसिंहः स्तम्भात् बहिः आगच्छति

(ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
उत्तर: हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति

 

३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु (तृतीया विभक्ति)-

उत्तर:

(ख) चमसेन           चमसाभ्याम्,                    चमसैः
(
ग)  आचार्येण         आचार्याभ्याम्                   आचार्यै

(घ) आसन्देन,        आसन्दाभ्याम्                   आसन्दै
(
ङ) बालिकया         बालिकाभ्याम्,                 बालिकाभिः
(
च) पेटिकया,          पेटिकाभ्याम्                   पेटिकाभिः
(
छ) मित्रेण             मित्राभ्याम्,                     मित्रैः
(
ज) वस्त्रेण,            वस्त्राभ्याम्                      वस्त्रै

 

४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु -

(क) हिरण्यकशिपुः आगच्छति ।              

उत्तर: कः आगच्छति?

(ख) सुरासुराः सर्वे भीताः भविष्यन्ति ।       

उत्तर: के भीताः भविष्यन्ति?
(
ग) दैत्यराजः खड्गेन प्रहरति ।               

उत्तर: दैत्यराजः केन प्रहरति?
(
घ) अहं प्रह्लादं मारयिष्यामि ।                 

उत्तर: अहं कं मारयिष्यसि?
(
ङ) तात ! हरिस्तु सर्वत्र अस्ति ।             

उत्तर: तात ! हरिस्तु कुत्र अस्ति?
(
च) पुत्रस्य विषये वक्तुम् इच्छति ।            

उत्तर: कस्य विषये वक्तुम् इच्छति ?
(
छ) नृसिंहः निजनखैः हिरण्यकशिपुं मारितवान् ।

उत्तर: नृसिंहः कैः हिरण्यकशिपुं मारितवान् ?

 

 

५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु -

उत्तर:

(क) खड्गेन
(
ख) पददलनेन
(
ग) नारायणेन
(
घ) निजनखैः
(
ङ) शिक्षिकया

 

६. उदाहरणानुसारं संयोज्य लिखन्तु -

उत्तर:

(क) रमेशः
(
ख) सुरेश्वरः
(
ग) नागेन्द्रः
(
घ) गजेन्द्रः
(
ङ) मातेव
(
च) रामेति
(
छ) परोपकारः
(
ज) ममोपरि
(
झ) सूर्योदयः
(
ञ) रामेणोक्तम्
(
ट) तस्योपरि

 

७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्काले परिवर्तयन्तु -

उत्तर:

(क) सा आपणं गमिष्यति
(
ख) रमा क्रीडाङ्गणे क्रीडिष्यति
(
ग) बाला: फलानि खादिष्यन्ति
(
घ) ताः योगासनं करिष्यन्ति
(
ङ) अहं नित्यं पठिष्यामि
(
च) त्वं कस्मिन् विषये वदिष्यसि?
(
छ) आवां पाठं लेखिष्यावः
(
ज) यूयं शालां गमिष्यथ
(
झ) ते बालिके वैद्ये भविष्यन्ति
(
ञ) वयं श्लोकान् स्मरिष्यामः

 

८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु -

उत्तर:

(ख) सः शालां गमिष्यति ।             तौ शालां गमिष्यतः ।          ते शालां गमिष्यन्ति ।

(ग) त्वं श्लोकं वदिष्यसि ।              युवां श्लोकं वदिष्यथः ।        यूयं श्लोकं वदिष्यथ ।

(घ) अहं पुस्तकानि दास्यामि ।       आवां पुस्तकानि दास्यावः ।    वयं पुस्तकानि दास्यामः ।

(ङ) छात्रः प्रदर्शनीं द्रक्ष्यति ।         छात्रौ प्रदर्शनीं द्रक्ष्यतः ।       छात्राः प्रदर्शनीं द्रक्ष्यन्ति ।

(च) अहं भगवद्गीतां श्रोष्यामि ।         आवां भगवद्गीतां श्रोष्यावः ।   वयं भगवद्गीतां श्रोष्यामः ।

(छ) बालिका कथां लेखिष्यति ।      बालिके कथां लेखिष्यतः ।     बालिकाः कथां लेखिष्यन्ति ।

(ज) त्वं किं खादिष्यसि ?            युवां किं खादिष्यथः ?        यूयं किं खादिष्यथ ।

08 - पश्यत कोणमैशान्यं भारतस्य मनोहरम्

 

 

                                    अभ्यासात् जायते सिद्धिः

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति ?
उत्तराणि : अष्टाविंशतिः

 

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
उत्तराणि : इमाः सप्तभगिन्यः

 

(ग) केषां समवायः सप्तभगिन्यःइति कथ्यते ?
उत्तराणि : अष्टराज्यानां

 

(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ?
उत्तराणि : अष्ट

 

(ङ) सप्तभगिनी प्रदेशे कः उद्योगः सर्वप्रमुख : ?
उत्तराणि : वंशोद्योग :

 

 

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(
क) भ्रातृसहित भगिनीसप्तके कानि राज्यानि सन्ति ?
उत्तराणि : भातृसहित भगिनीसप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च

 

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
उत्तराणि : इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि

 

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
उत्तराणि : ऐशान्यकोणप्रदेशेषु गारो खासी-नागा- मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।

 

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति ?
उत्तराणि : पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला कलासु च निष्णाताः सन्ति ।

 

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उत्तराणि : वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण- पर्यन्तं क्रियते

 

३. अधोलिखितेषु पदेषु प्रकृति प्रत्ययविभागं कुरुत-

यथागन्तुम् = गम् + तुमुन्
(
क) ज्ञातुम् = _________ + _________

(ख) विश्रुतः = _________ + _________

(ग) अतिरिच्य = _________ + _________

(घ) पठनीयम् = _________ + _________

उत्तराणि :
(
क) ज्ञा + तुमुन्

(ख) वि + श्रु + क्त

(ग) अति + ऋच् + ल्यप्

(घ) पठ् + अनीयर्

 

 

४. रेखाङ्कितम् पदम् आधृत्य प्रश्नानिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
उत्तराणि : वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः ?

 

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
उत्तराणि : का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?

 

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते
उत्तराणि : प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?

 

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि 
उत्तराणि : एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?

  

५. यथानिर्देशम् उत्तरत-
(क) महोदये! मम भगिनी कथयति। अत्र ममइति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तराणि : स्वरायै

 

(ख) सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उत्तराणि : उपाधिना

(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र सङ्घटनम्इति कर्तृपदस्य क्रियापदं किम् ?
उत्तराणि : विहितम्

 

(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।अस्मात् वाक्यात् अल्पताइति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
उत्तराणि : प्राचुर्यं

 

(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये सन्तिइति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम् ?
उत्तराणि : वर्तन्ते

  

६. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
उत्तराणि :


1. जनजाति:
2.
भ्राता
3.
सिक्किमः
4.
मणिपुर:
5.
त्रिपुरा
6.
राज्यानि
7.
संस्कृति :
8.
पूर्वोत्तरम्
9.
देशस्य
10.
प्राकृतिक :
11.
वंशवृक्षः
12.
अरुणाचल:
13.
नागालैण्डम्
14.
मेघालय:
15.
भगिनि
16.
भगिन्यः
17.
पुरा
18.
सप्तभगिन्यः
19.
बहवः
20.
गारो
21.
मिजो
22.
नागा


   

७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-

 

सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः,
असम, मणिपुर, मिजोरमः, मेघालय, नागालैण्ड, त्रिपुरा, जनजातिः, प्राचुर्यम्

 

(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति
उत्तराणि : स्वदेशस्य राज्यानाम्

 

(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
उत्तराणि : अष्टाविंशतिः

 

(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते
उत्तराणि : पूर्वोत्तरराज्यानि

 

(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – _________, _________, _________, _________, _________, _________, _________
उत्तराणि : सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।

 

(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति
उत्तराणि : जनजाति:

 

(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते
उत्तराणि : प्राचुर्यं

 

 

८. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति |
उत्तराणि : अहसत्

 

(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक: |
उत्तराणि : लेखिका

 

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् |
उत्तराणि : आम्रः

 

(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह : |
उत्तराणि : शाखा

 

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा |
उत्तराणि : यानम्

 

९. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत-

उत्तराणि :

(i) अयम्

प्रदेश:

(ii) संस्कृतिविशिष्टायाम्

भारतभूमौ

(iii) महत्त्वाधायिनी

संस्कृतिः

(iv) प्राचीने

इतिहासे

(v) एक:

समवायः

 


08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...