अन्योक्तयः – प्रश्नोत्तराणि

 

अन्योक्तयः – प्रश्नोत्तराणि

प्रश्न 1.  एकपदेन उत्तरं लिखत
(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तर:- (क) सरोवरस्य/सरसः

(ख) सरसः तीरे के वसन्ति?
उत्तर:- (ख) बकाः


(
ग) कः पिपासितः म्रियते?
उत्तर:- (ग) चातकः

(घ) के रसालमुकुलानि समाश्रयन्ते?
उत्तर:- (घ) भृङ्गाः

(ङ) अम्भोदाः कुत्र सन्ति?
उत्तर:- (ङ) गगने

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) सरसः शोभा केन भवति?
उत्तर:- (क) सरसः शोभा राजहंसेन भवति।

(ख) चातक: किमर्थं मानी कथ्यते?
उत्तर:- (ख) पिपासितः चातकः, पुरन्तरं जलं याचते म्रियते वा। अतः चातक: मानी कथ्यते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तर:- (ग) सरोवरस्य सङ्कोचम् अञ्चति मीनः दीनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
उत्तर:- (घ) नानानदीनदशतानि पूरयित्वा जलद: रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर:- (ङ) वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

 

प्रश्न 3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(
क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तर:- (क) मालाकारः कैः तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तर:- (ख) भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर:- (ग) के अम्बरपथम् आपेदिरे?

(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तर:- (घ) कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तर:- (ङ) चातकः कुत्र वसति?

 

प्रश्न 4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत
(
अ) तोयैरल्पैरपि ……………….. वारिदेन। भावार्थ:-धाराप्रवाहं जलं वर्षयता …. (i). .. जलदेन वृक्षाः पादपाः च तादृशाः …(ii)……… न भवन्ति। यथा ………..(iii)……….. मालाकारेण दत्तं अल्पमपि जलं वृक्षान् पोषयति। इत्येवं आवश्यकतायां विपत्तौ वा अत्यल्पं …………(iv)……….. अपि महत्त्वपूर्ण वर्तते।
उत्तर:- (i) वर्षाकालिकेन  (ii) तृप्ताः/सन्तुष्टाः  (iii) ग्रीष्म?  (iv) सहायम्

(आ) रे रे चातक ……………………. दीनं वचः।
भावार्थ:- मेघस्य जलबिन्दवैः एव तृप्तं ……. (i)………. कविः कथयति यत् ……. (ii)……… बहवः मेघाः सन्ति परम् सर्वे न वर्षन्ति। केचित् वृथा गर्जन्ति। जलपूर्णाः मेघाः एव वर्षित्वा … (iii)……… आर्द्रयन्ति। अतः त्वम् यस्य कस्यापि अग्रे ..(iv)……. मा ब्रूहि।
उत्तर:- (i) चातकं  (ii) आकाशे   (iii) पृथ्वी  (iv) दीनवचनानि

 

प्रश्न 5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत
(अ) आपेदिरे ……… कतमां गतिमभ्युपैति ।
उत्तर:- (अ) पतङ्गाः परितः अम्बरपथत् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सङ्कोचम्
अञ्चति, हन्त दीनदीनः मीनः तु कतमां गतिम् अभ्युपैतुः।

(आ) आश्वास्य ………… सैव तवोत्तमा श्रीः॥
उत्तर:- (आ) तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च नानानदीनदशतानि पूरयित्वा
च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।

 

प्रश्न 6. उदाहरणमनुसत्य सन्धिं/सन्धिविच्छेदं वा कुरुत
 
(i) यथा- अन्यः + उक्तयः = अन्योक्तयः

(क) _______ + _______ = निपीतान्यम्बूनि
(
ख) _______ + उपकार: = कृतोपकार:
(
ग) तपन + _______ = तपनोष्णतप्तम्
(
घ) तव + उत्तमा = _______
(
ङ) न + एतादृशाः = _______
 

उत्तराणि:
(
क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(
ख) कृत + उपकारः = कृतोपकारः
(
ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्
(
घ) तव + उत्तमा = तवोत्तमा
(
ङ) न + एतादृशाः = नैतादृशाः

 

 

 

(ii) यथा- पिपासितः + अपि = पिपासितोऽपि
(
क) _______ + _______ = कोऽपि
(
ख) _______ + _______ = रिक्तोऽसि
(
ग) मीनः + अयम् = _______
(
घ) सर्वे + अपि = _______
उत्तराणि:
(
क) को + अपि = कोऽपि
(
ख) रिक्तो + असि = रिक्तोऽसि
(
ग) मीनः + अयम् = मीनोऽयम्
(
घ) सर्वे + अपि = सर्वेऽपि

 

(iii) यथा- सरसः + भवेत् = सरसो भवेत्
(
क) खगः + मानी = _______
(
ख) _______ + नु = मीनो नु
(
ग) पिपासितः + वा = _______
(
घ) _______ + _______ = पुरतो मा
 

उत्तराणि:
(क) खगः + मानी = खगोमानी
(
ख) मीनः + नु = मीनो नु
(
ग) पिपासितः + वा = पियासितो वा
(
घ) पुरतः + मा = पुरतो मा

 

 

(iv) यथा- मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = _______
(
ख) _______ + अपि = अल्पैरपि
(
ग) तरोः + अपि = _______
(
घ) _______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति
 

उत्तराणि:
(
क) तोयैः + अल्पैः = तोयैरल्पैः
(
ख) अल्पैः + अपि = अल्पैरपि
(
ग) तरोः + अपि = तरोरपि
(
घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति



 

प्रश्न 7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत
               विग्रहपदानि           समस्त पदानि
यथा- पीतं च तत् पङ्कजम्      =      पीतपङ्कजम्
(
क) राजा च असौ हंसः = ……………     उत्तर:- (क) राजहंसः

(
ख) भीमः च असौ भानुः = ……………   उत्तर:- (ख) भीमभानुः

(
ग) अम्बरम् एव पन्थाः = ……………     उत्तर:- (ग) अम्बरपंथाः

(
घ) उत्तमा च इयम् श्रीः = ……………    उत्तर:- (घ) उत्तमश्री:

(
ङ) सावधानं च तत् मनः, तेन = …………… उत्तर:- (ङ) सावधानमनसा




एक टिप्पणी भेजें

0 टिप्पणियाँ