12 - सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

 


अभ्यासात् जायते सिद्धिः

१. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।

उत्तरम् : छात्रा : स्वयं करिष्यन्ति ।

 

 २. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत-

(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तरम् : वर्णानां

 

(ख) किम् अवश्यमेव पठनीयम् ?
उत्तरम् : व्याकरणम्

 

(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तरम् : सम्यग्वर्णप्रयोगेन

 

(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तरम् : षड्

 

(ङ) धैर्यं केषां गुण: ?
उत्तरम् : उत्तमपाठकस्य


 

३. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखित-
(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तरम् : व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति ।

 

(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तरम् : वर्णाः स्पष्टतया सम्यक् उच्चारणेन प्रयोक्तव्याः ।

 

(ग) पाठकानां षड्-गुणाः के भवन्ति ?
उत्तरम् : माधुर्यम्, अक्षर व्यक्तिः, पदच्छेदः, धैर्य:, ,सुस्वरः लयसमर्थं च षट् एते पाठकानां श्रेष्ठगुणाः भवन्ति ।

 

(घ) के अधमाः पाठकाः भवन्ति ?
उत्तरम् : गीति, शीघ्री, शिरःकम्पी, लिखितपाठक : अनर्थज्ञः अल्पकण्ठः च अधमाः पाठकाः भवन्ति ।

 

(ङ) स्वजन:’ ‘श्वजनच इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम् : स्वजन:इति शब्दः बान्धवाचक:, ‘श्वजन:इति शुनकः (कुक्कुरः) भवति ।

 

(च) सकलं’ ‘शकलंच इत्यनयोः अर्थदृष्टया कः भेद: ?
उत्तरम् : सकलंइति सम्पूर्णवाचकः विशेषणपदं । शकलंइति खण्डाय प्रयुक्तम् ।

 

  

४. अधोलिखितानि लक्षणानि पाठकस्य गुणाः वा दोषाः वा इति विभजत-

अक्षरव्यक्तिः, शीघ्री, लिखितपाठकः, लयसमर्थम्, अनर्थः,
अल्पकण्ठः, माधुर्यम्, गीति, पदच्छेदः, शिर: कम्पी, अनर्थज्ञः, धैर्यम्, सुस्वर:


उत्तरम् :

                          

गुणाः

दोषाः

यथाअक्षरव्यक्ति:

शीघ्री

माधुर्यम्

लिखितपाठकः

पदच्छेदः

गीति

सुस्वरः

अल्पकण्ठः

धैर्यम्

शिरःकम्पी

लयसमर्थम्

अनर्थज्ञः

 

 

 

 

 

 

 

 

 

५. श्लोकानुसारं रिक्तस्थानानि उचितैः शब्दैः पूरयत-

(क) भीता _________ तद्वद् वर्णान् प्रयोजयेत् ।
उत्तरम् : पतनभेदाभ्याम्

(ख) _________ लयसमर्थं च षडेते पाठका गुणाः ।
उत्तरम् : धैर्यं

(ग) गीती शीघ्री _________ तथा लिखितपाठकः ।
उत्तरम् : शिरःकम्पी

(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च _________
उत्तरम् : पीड़िता:

(ङ) स्वजन: _________ माभूत् सकलं शकलं सकृत् शकृत् ।
उत्तरम् : श्वजनो

 

  

६. अधोलिखितानि वाक्यानि सत्यम् वा असत्यम् वा इति लिखत-
यथा- पदच्छेदः पाठकानां गुणः अस्ति । सत्यम्/असत्यम्
(
क) गानसहितपठनं पाठकानां दोषः भवति ।
उत्तरम् : सत्यम्

(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति ।
उत्तरम् : सत्यम्

(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति ।
उत्तरम् : असत्यम्

(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति ।
उत्तरम् : असत्यम्

(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत् ।
उत्तरम् : सत्यम्


11 - सन्निमित्ते वरं त्यागः (ख-भागः)

 


अभ्यासात् जायते सिद्धिः

 

१. निम्नलिखितेषु वाक्येषु रक्तवर्णीयानि स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ।
उत्तरम् : क: पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ?

 

(ख) ततस्ते सर्वे सर्वमङ्गलायाः आयतनं गताः ।
उत्तरम् : ततस्ते सर्वे कस्याः आयतनं गताः?

 

(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत्
उत्तरम् : वीरवरः वर्तनस्य निस्तारं केन / कथम् अकरोत् ?

 

(घ) राजा स्वप्रासादं प्राविशत् ।
उत्तरम् : राजा कुत्र प्राविशत् ?

 

(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत्
उत्तरम् : महीपतिः कस्मै समग्र कर्णाटप्रदेशम् अयच्छत्?

 

 

 

२. अधोलिखितान् प्रश्नान् उत्तरत-
(क) वीरवरः किम् अवर्णयत् ?
उत्तरम् : वीरवर : अखिलराजलक्ष्मीसंवादम् अवर्णयत्

 

(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत् ?
उत्तरम् : प्राज्ञः धनानि जीवितं च परार्थे उत्सृजेत् ।

 

(ग) केन सदृशः लोके न भूतो न भविष्यति ?
उत्तरम् : वीरवरेण सदृशः लोके न भूतो न भविष्यति ।

 

(घ) का अदृश्या अभवत्?
उत्तरम् : भगवती सर्वमङ्गला अदृश्या अभवत्

 

(ङ) सपरिवारः वीरवरः कुत्र गतवान्?
उत्तरम् : सपरिवारः वीरवरः स्वगृहं गतवान्

 

 

 

३. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
उदाहरणम् - धन्यः अहम् स्वामिजीवितरक्षार्थं विनियुक्तः । शक्तिधराय
(
क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा ।
उत्तरम् : नृपाय / राज्ञे

 

(ख) वत्स! अनेन ते॒ सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तरम् : नृपाय / राज्ञे

 

(ग) धन्याहं यस्या ईदृशो जनको भ्राता च ।
उत्तरम् : वीरंवत्यै

 

(घ) तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ।
उत्तरम् : नृपस्य/शूद्रकाय/राज्ञे

 

(ङ) अयम् अपि सपरिवारो जीवतु ।
उत्तरम् : वीरवराय/राजपुत्राय ।

 

 

 

४. उदाहरणानुसारं अन्वयरूपेण लिखत-
यथा- कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।

        गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः ।

(क) नेदानीं राज्यभङ्गस्ते भविष्यति ।
उत्तरम् : इदानीं ते राज्यभङ्गः न भविष्यति ।

 

(ख) तेन पातितं स्वशिरः स्वकरस्थखड्गेन
 
उत्तरम् : तेन स्वकरस्थखड्गेन स्वशिरः पातितम्

 

(ग) तदा ममायुः शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च ।
उत्तरम् : तदा ममायुः शेषेणापि राजपुत्रो वीरवरः पुत्रेण पत्न्या दुहित्रा च सह जीवतु ।

 

(घ) तत्क्षणादेव देवी गताऽदर्शनम् ।
उत्तरम् : तत्क्षणादेव देवी अदर्शनम् गता

 

(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
उत्तरम् : महीपति: तस्मै राजपुत्राय वीरवराय समग्र-कर्णाट-प्रदेशं प्रायच्छत् ।

 

(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः
उत्तरम् : मादृशाः क्षुद्रजन्तवः जायन्ते मिय्रन्ते च

 

 

 

५. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत-
यथा-यद्येवमस्मत्कुलोचितम् = यदि-एवम्-अस्मत्-कुलोचितम्
सत्त्वोत्कर्षेण = सत्त्व-उत्कर्षेण

उत्तरम् :

(क) गृहीतस्वामिवर्तनस्य = गृहीत स्वामि-वर्तनस्य
(
ख) निस्तारोपायः = निस्तार उपायः
(
ग) गृह्यतामेष = गृह्यताम्-एषः
(
घ) स्वपुत्रोत्सर्गेण = स्वपुत्र उत्सर्गेण
(
ङ) स्वकरस्थखड्गेन = स्वकरस्थ-खड्गेन
(
च) तदेतत्परित्यक्तेन = तत्-एतत्-परित्यक्तेन
(
छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = स्वशिरः-छेदनार्थम्-उत्क्षिप्तः
(
ज) मद्दर्शनाददृश्यताम् = मत्-दर्शनात् अदृश्यताम्
(
झ) तत्क्षणादेव = तत्-क्षणात्-एव
(
ञ) लब्धजीवितः = लब्ध- जीवितः


 

 

६. (क) उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य सन्धियुक्तपवैः रिक्तस्थानानि पूरयत-
                          यथा - स्व + आवासम् = स्वावासम्

उत्तरम् :
1. तत् + श्रुत्वा = तच्छ्रुत्वा

2. दुहितरम् + च = दुहितरञ्च

3. धन्यः + अहम् = धन्योऽहम्

4. जीवितम् + च + एव = जीवितञ्चैव

5. विलम्बः + तात = विलम्बस्तात

6. कः + अधुना = कोऽधुना

7. न + आचरितव्यम् = नाचरितव्यम्

8. धन्या + अहम् = धन्याहं

9. निस्तारः + उपायः = निस्ताररुपाय

10. वीरवरः + अवदत् = वीरवरोऽवदत्

11. ततः + असौ = ततोऽसौ

12. ततः + ते = ततस्ते

 

 

 

(ख) निम्नलिखितपदानां सन्धिच्छेदं कुरुत-

उत्तरम् :
1.
शूद्रकोऽपि = शूद्रक : + अपि

2. पुनर्भूपालेन = पुनः + भूपालेन

3. महीपतिस्तस्मै = महीपालः + तस्मै

4. प्रायच्छत् = प्र + अयच्छत्

5. नृपतिरपि = नृपतिः + अपि

6. सर्वेषामदृश्य = सर्वेषाम् + अदृश्य

7. वार्ताऽन्या = वार्ता + अन्याः

8. राज्यभङ्गस्ते = राज्यभङ्गः + ते

9. गतिर्गन्तव्या = गतिः + गन्तव्या

10. इत्युक्त्वा = इति + उक्त्वा

11. नेदानीं = न + इदानीं

12. प्रीतास्मि = प्रीता + अस्मि

 

 

 

७. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत-

(क) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्
(
ख) पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्
(
ग) प्रातः राजा वीरवरम् अपृच्छत् ह्यः रात्रौ किम् अभवत्”?
(
घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्
(
ङ) वीरवरेण उक्तम् स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत्
(
च) भगवती प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः
(
छ) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्
उत्तरम् : -

(क)        प्रातः राजा वीरवरम् अपृच्छत् ह्यः रात्रौ किम् अभवत्”?

(ख)       वीरवरेण उक्तम् स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत्

(ग)         भगवती प्रसन्ना अभवत् । भगवत्याः कृपया सर्वे जीवितवन्तः

(घ)         वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्

(ङ)        पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत् ।

(च)         वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्

(छ)        सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्व समर्पणार्थं सिद्धः अभवत्