07 - मञ्जुलमञ्जूषा सुन्दरसुरभाषा

 

अभ्यास प्रश्न -

 

1.    अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत  -

(क) सुन्दरसुरभाषा कस्य वचनातीता ?

उत्तरम् - वेदानां |

 

(ख) संस्कृतभाषा कुत्र विजयते ?

उत्तरम् - विश्वे |

 

(ग) संस्कृतभाषा कस्य आशा ?

उत्तरम् - जनानाम् |

 

(घ) संस्कृते कति रसाः सन्ति ?

उत्तरम् - नव |

 

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?

उत्तरम् - संस्कृतभाषायाः |

 

  

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -   

(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?

उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति । 

 

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?

उत्तरम् – वेद – उपनिषद् – वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति । 

 

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?

उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते । 

 

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?

उत्तरम् - संस्कृतभाषा वेदेषु, उपनिषत्सु, पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु च विहरति ।

 

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?

उत्तरम् - अत्र संस्कृतभाषायाः सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननी' इत्यादीनि प्रयुक्तानि ।

 

  

. रेखा‌ङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -

(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः। 

उत्तरम् -  मुनिगणाः कस्याः विकासं कृतवन्तः?

 

(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति। 

उत्तरम् -  सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?

 

(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः। 

उत्तरम् -  कवयः अपि कीदृशानि काव्यानि रचितवन्तः?

 

(घ) संस्कृतभाषा पृथिव्यां विहरति। 

उत्तरम् -  संस्कृतभाषा कुत्र विहरति?

 

(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति। 

उत्तरम् -  संस्कृतभाषा काः परिपोषयति?

 

(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति। 

उत्तरम् -  वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

 

  

4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत -

उत्तरम् -

पदम्

विभक्तिः

वचनम्

मातः

संबोधनम्

एकवचनम्

तव

षष्ठी

एकवचनम्

मञ्जूषा

प्रथमा

एकवचनम्

संस्कृतिः

प्रथमा

एकवचनम्

जनानाम्

षष्ठी

बहुवचनम्

जीवनस्य

षष्ठी

एकवचनम्

धरायाम्

सप्तमी

एकवचनम्

शास्त्रेषु

सप्तमी

बहुवचनम्

 

5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत -

उत्तरम् -

(क) अयि मातस्तव पोषणक्षमता        -        मम वचनातीता, सुन्दरसुरभाषा |

(ख) वेदव्यास-वाल्मीकि-मुनीनां        -        कालिदासबाणादिकवीनाम् |

(ग) पौराणिक-सामान्यजनानाम्         -        जीवनस्य आशा, सुन्दरसुरभाषा |

(घ) श्रुतिसुखनिनदे सकलप्रमोदे        -        स्मृतिहितवरदे सरसविनोदे |

(ङ) वैद्यव्योम-शास्त्रादिविहारा          -        विजयते धरायाम् |

 

 6. उदाहरणानुसारं अधः प्रदत्तानां पदानाम् एकपदेन अर्थ लिखत -

यथा,   देवस्य आलयः         =       देवालयः

 उत्तरम् -       (क) सुराणां भाषा      =       सुरभाषा 

(ख) सुन्दरी सुरभाषा  =       सुन्दरसुरभाषा 

(ग) नवरसैः रुचिरा    =       नवरसरुचिरा 

(घ) पोषणस्य क्षमता   =       पोषणक्षमता 

(ङ) मञ्जुला भाषा     =       मञ्जुलभाषा 

 

 ७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत -

यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा ।

उत्तरम् –

(क) अयि मातः तव पोषणक्षमता आशा वचनातीता । 

(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् । 

(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः 

(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । 

(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा । 

(च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा । 

(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा ।

 

८. अधोलिखितविकल्पेषु प्रस‌ङ्गानुसारम् अर्थं चिनुत -

(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?

उत्तरम् -  (iii) मनोहररूपेण संकलिता |

 

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

उत्तरम् -  (iii) पौराणिक-सामान्यजनानाम् |

 

(ग) सुन्दरसुरभाषा कुत्र विजयते ?

उत्तरम् -  (iii) धरायाम् |

 

(घ) सुन्दरसुरभाषायां किं नास्ति ?

उत्तरम् -  (iv) अशुद्धिः |

 

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?

उत्तरम् -  (ii) मातः |


06 - डिजिभारतम् - युगपरिवर्तनम्

 


अभ्यास कार्यम्

 

1.    पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ?

उत्तरम् - डिजिटल् प्रौद्योगिकी |

 

(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ?

उत्तरम् -  प्रधानमन्त्रिणः |

 

(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ?
उत्तरम् - डिजिटल् योजनायाः |

 

(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति ?
उत्तरम् - डिजिटल इण्डिया |

 

(ङ) 'फ़ास्टॅग्' इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति ?
उत्तरम् - मार्गशुल्कस्य |

 

2.    पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –

(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम् - प्रधानमन्त्रिसङ्ग्रहालये अत्याधुनिक-प्रदर्शन-प्रणाल्यः, होलोग्राम्, संवर्धित-वास्तविकता (Augmented Reality), अन्तर्क्रियात्मक-किओस्क (Interactive Kiosks)  डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति ।

 

(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम् - जनाः अङ्कीय-साक्षरतायाः अभावात्, सुरक्षा-नियमानाम् अनभिज्ञतायाः, तथा च अनधिकृत-लिङ्क्स्-उपरि क्लिक्-करणात् साङ्गणिक-अपराधेन पीडिताः भवन्ति।

 

( ग) यशिका 'डिजि-लॉकर्' इत्यस्य उपयोगं कथं करोति ?

उत्तरम् - मम आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति |

 

(घ) डिजिटल्-भारतस्य वित्तीय-समावेशने काः योजनाः सन्ति ?
उत्तरम् जनधन-योजना, भीम्-आप् (BHIM App), रूपे-कार्ड्, आधार-संलग्न-बैंक-खाता, डिजिटल्-पेमेंट्-सुविधाः, मोबाइल्-बैंकिङ् इत्यादयः योजनाः वित्तीय-समावेशने प्रयुक्ताः सन्ति।

 

(ङ) डिजिटल्-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः ?
उत्तरम् स्वयम् (SWAYAM), दीक्षा (DIKSHA), ई- पाठशाला, एनपीटीईएल् (NPTEL), ई-विद्याभारती, राष्ट्रीय-डिजिटल्-पुस्तकालयः, इत्येते पटलाः शिक्षायाम् उपयोग्याः सन्ति।

 

(च) ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या कथं निराकर्तुं शक्यते ?
उत्तरम् ग्रामेषु द्रुतगत्याः इन्टरनेट्-सेवा-विस्तारः, डिजिटल्-शिक्षणस्य प्रसारः, किफायतदरेण मोबाइल्-डाटाप्लान्-प्रदानम्, ग्राम्य-जनानां डिजिटल्-साक्षरता-वर्धनम्, शासनस्य सहायता-केन्द्राणि स्थापयित्वा समस्याः निराकर्तुं शक्यन्ते।

 

 

3. अधः दत्तान् शब्दान् सम्यक् संयोजयत –

उत्तरम् - क्रमः   शब्दः                    -       संयोजनीयः शब्दः

क.       हॉलोग्राम्                -        आभासीया-वास्तविकता

ख.       यूपीआय् (UPI)        -        शीघ्रं, सुरक्षितं, सुगमं च डिजिटल्-धनदेय-प्रत्यर्पणम्

ग.        डिजि-लॉकर्            -        डिजिटल्-प्रमाणपत्रम्

घ.       फ़ास्टॅग् (FASTag)   -        राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणम्

ङ.       वीआर (VR)           -        कृत्रिम-बुद्धिः (AI)

 

 

 

4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –

  (यूपीआई, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवन)

उत्तरम् -

(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते ।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं 
यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं 
स्वचालितं पारदर्शकं च सेवां प्रददाति ।
(घ) डिजिटल्-भारतस्य शिक्षाक्षेत्रे 
दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल्-परिवर्तनं सर्वाणि 
जीवन क्षेत्राणि स्पृशति ।




5. अधः अस्मिन् पाठे आगतानां शब्दान् आधारेण शब्दजालं प्रदत्तम् अस्ति | अत्र वामतः दक्षिणम् उपरितः अधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत –


 
उत्तरम् -

            डिजिटल्         सेवा             भारत          ज्ञानम्       

            

            शिक्षा             स्वयं            तन्त्र            अर्थम्



6. अधोलिखितान् शब्दान् वर्गद्वये विभजत – सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च –

(शब्दाः – अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल, लेखनी)

उत्तरम् -

सङ्गणकसम्बद्धाः                     असङ्गणकसम्बद्धाः

           अन्तर्जालम्,                             शिक्षिका

           सङ्गणकः                               विद्यालयः

           ई-पत्रम्                                   पाठ्यपुस्तकम्

           डिजिटल                                लेखनी

 

 

7. शुद्धम् () वा अशुद्धम् (x) वा चिह्नीकुरुत –

उत्तरम् -

(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति ।                                      (x)

(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक घटनानां प्रत्यक्षानुभवाय अस्ति ।            ()

(ग) डिजिटल्-प्रक्षेपण-मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति ।                          ()

(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति ।            ()

(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते ।                  (x)

(च) भारतस्य डिजिटल्-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न ।           (x)

(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति ।                     ()

 

 

 

8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत -

उदाहरणम् -      वेयवित्तीसमानशम्      =       वित्तीयसमावेशनम्

उत्तरम् -          (क)    कसङ्गम्ण              =       संगणकम्

(ख) कार्वसरः                =       सर्वरः

(ग)   लयःविद्या               =       विद्यालयः

(घ)   जिकडिलॉर्             =       डिजिलॉकर

(ङ)   शक्तसुम्                 =       सक्षमम्

 

 

9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

(क) अद्यतनं युगं कीदृशम् अस्ति ?

उत्तरम् - अद्यतनं युगं विज्ञानयुगम् अस्ति ।

 

(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?

उत्तरम् - मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ।

 

(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?

उत्तरम् - ई-अधिगम-प्रणाल्याः प्रयोगं विद्यार्थिनः कुर्वन्ति ।






08 - हितं मनोहारि च दुर्लभं वचः

  अभ्यास प्रश्न   १. अधोलिखितानि वाक्यानि पठित्वा ‘ आम् ’ अथवा ‘ न ’ इति वदन्तु लिखन्तु च । ( क) किं वयं पृथिव्याः पुत्राः पुत्र्यः ...