10 - त्वं आपणं गच्छ

 



वयम् अभ्यासं कुर्मः

 १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु 

उत्तरम्:


लिखतु

लिखताम्

लिखन्तु

लिख

लिखतम्

लिखत

लिखानि

लिखाव

लिखाम

क्रीडतु

क्रीडताम्

क्रीडन्तु

क्रीड

क्रीडतम्

क्रीड

क्रीडानि

क्रीडाव

क्रीडाम



 

 

 

 


२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।

(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी
     
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।
उतरम् वर्षतु, सन्तु ।

मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु ।
एषः देशः शान्तः भवतु । सर्वे सज्जनाः भयं विना जीवनं यापयन्तु ।

(एवम् परमेश्वरं प्रति प्रार्थना अस्ति )
उत्तरम्: वर्षन्तु, भवतु, यापयन्तु ।

 

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
     
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।
उत्तरम्: भवन्तु, सन्तु, पश्यन्तु ।
सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु । सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।
उत्तरम्: तिष्ठन्तु, भवन्तु, पश्यन्तु, भवतु।

 

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
    
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः । ।
उत्तरम्: सन्तु, सन्तु

जलं सर्वेषां कृतं मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु। जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।
उत्तरम्: भवतु ।

 

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
     
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
    
अद्यैव वा मरणमस्तु युगान्तरं वा
    
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।
उत्तरम्: निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु, अस्तु ।

 

नीतिकारा: प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु । न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।
उत्तरम्: कुर्वन्तु, भवतु, प्रशंसन्तु


३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
              
यथा- पठति पठतु
उत्तरम्:
पठति पठतु                खादति खादतु
क्रीडामि क्रीडानि           पश्यसि पश्य
हसति हसतु                       नयसि नय
नृत्यति नृत्यतु             गच्छामि गच्छानि


४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
       
यथा- उत्तिष्ठतु उत्तिष्ठन्तु
उत्तरम्:
उत्तिष्ठतु उत्तिष्ठन्तु
खादतु खादन्तु                    आगच्छतु आगच्छन्तु
पठतु पठन्तु                        उपविशतु उपविशन्तु
पततु पतन्तु                       गच्छतु गच्छन्तु

 

५. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।

यथा- दशमकक्षायाः छात्रा : वेदिकाम् अलङ्कुर्वन्ति 
      
दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।

(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति 
उत्तरम्: प्रधानाध्यापक: वार्षिकं विवरणं पठतु            

(ख) बालिकाः नृत्यन्ति 
उत्तरम्: बालिकाः नृत्यन्तु

(ग) यूयम् आसन्दान् स्थापयथ 
उत्तरम्: यूयम् आसन्दान् स्थापयत

(घ) छात्रनायक : स्वागतं करोति 
उत्तरम्: छात्रनायकः स्वागतं करोतु

(ङ) मम मित्रं धन्यवादं निवेदयति 
उत्तरम्: मम मित्रं धन्यवादं निवेदयतु

(च) संस्कृत शिक्षिका वेदिका सञ्चालयति 
उत्तरम्: संस्कृत शिक्षिका वेदिकां संचालयतु

(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति 
उत्तरम्: कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु



६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
    (शृण्वन्तु, गच्छन्तु, लिखन्तु, पठन्तु, पृच्छन्तु, कुर्वन्तु, वदन्तु, उत्तिष्ठन्तु, उपविशन्तु, अभिवादयन्तु)

         यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ………… उपचारवाक्येन तम् ……… यदा सः वदति तदा एव सर्वे …….. । तस्य सूचनानुसारं पाठं …….. । गृहपाठ ……. । परस्परं वार्तालापं न ……… प्रश्नस्य उत्तरं ……… । संशयं …….. । तस्य उपदेशम् …… । बहि: मा  …….
उत्तरम्: यदा अध्यापक : कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु उपचार वाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु । तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु

 


७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु । 

उत्तरम्:


  


 

८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।

यथा - छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु (उत् + तिष्ठ्)

(क) अम्ब! अहं क्रीडार्थं ……….। (गच्छ्)
उत्तरम्: अम्ब! अहं क्रीडार्थ गच्छानि

(ख) आगच्छन्तु वयं प्रार्थनागीतं ……..। (गाय्)
उत्तरम्: आगच्छन्तु वयं प्रार्थनागीतं गायाम |

(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ………। (क्रीड्)
उत्तरम्: ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड

(घ) लते! भवती मम उपनेत्रम् ……… । (आ + नय्)
उत्तरम्: लते! भवती मम उपनेत्रम् आनयतु

(ङ) आर्ये! अहम् अन्तः ……… । (प्रविश्)
उत्तरम्: आर्ये! अहम् अन्तः प्रविशानि

(च) अहं पृच्छामि त्वम् उत्तरं ……… । (वद्)
उत्तरम्: अहं पृच्छामि त्वम् उत्तरं वद

(छ) यूयं शीघ्रं नगरम् ……… । (आ + गच्छ्)
उत्तरम्: यूयं शीघ्रं नगरम् आगच्छत

(ज) तात! वयं कदा चलचित्र ………? (पश्य्)
उत्तरम्: तात! वयं कदा चलचित्रं पश्याम

 

९. चिह्नाति (? ! ,) भावानुसारं वाक्ये योजयन्तु ।

         यथा राकेश ! कुत्र असि ? अत्र आगच्छ ।

(क) पुत्र किं करोषि
उत्तरम्: पुत्र ! किं करोषि ?                        


(ख) क: श्लोकं वदति
उत्तरम्: क: श्लोकं वदति ?

(ग) भवान् तत्र तिष्ठतु
उत्तरम्: भवान् तत्र तिष्ठतु ।

(घ) आचार्यः कदा आगच्छति
उत्तरम्: आचार्यः कदा आगच्छति ?

(ङ) अहो रमणीयः पर्वतः
उत्तरम्: अहो ! रमणीयः पर्वतः ।


09 - यो जानाति सः पण्डितः

 


वयम् अभ्यासं कुर्मः


१. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।

(क) भोजनान्ते पातुं योग्यं किम् ?
उत्तरम्: तक्रं

 

(ख) सर्वदेवानां वन्दनीयः कः ?
उत्तरम्: मृत्युञ्जयः

 

(ग) जयन्तः कस्य सुत: ?
उत्तरम्: इन्द्रस्य

 

(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ?
उत्तरम्: कुम्भकर्णः

 

 २. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।

(क) विष्णुपदं कथं प्रोक्तम् ?
उत्तरम्: विष्णुपदं दुर्लभम् प्रोक्तम् ।

 

(ख) कस्य आदिः अन्तः च अस्ति ?
उत्तरम्: नयनम्अस्य पदस्य आदि: अन्तः च अस्ति।

 

(ग) नरः काश्यां किम् इच्छति ?
उत्तरम्: नरः काश्यां मृत्युम् / मोक्षम् इच्छति ।

 

(घ) कुलालस्य गृहे अर्धं किम् अस्ति ?
उत्तरम्: कुलालस्य गृहे अर्धं कुम्भं अस्ति ।

 

 ३. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च ।

उत्तरम्:  छात्र / छात्राएँ शब्द-रूपों को पढ़िए और याद करें

 

 ४. उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा विद्यालयः छात्र:      -       विद्यालयस्य छात्र: गच्छति ।

उत्तरम्:

(क) द्विचक्रिका चक्रम्        -      द्विचक्रिकायाः चक्रं भ्रमति ।
(
ख) वृक्षः फलम्               -      वृक्षस्य फलं खादति ।
(
ग) छात्रा नाम                 -       छात्रायाः नाम पृच्छति ।
(घ) रामः पुस्तकम्            -      रामस्य पुस्तकम् आनयति ।
(ङ) मन्दिरम् शिखरं          -      मन्दिरस्य शिखरं पश्यति ।

 

५. तालिकायां प्रदत्तानां शब्दानां षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।

उत्तरम्:            पुल्लिङ्गम्             स्त्रीलिङ्गम्           नपुंसकलिङ्गम्

देवस्य

रमायाः

भवनस्य

वृक्षस्य

छात्रायाः

उद्यानस्य

द्वारपालस्य

दोलायाः

वनस्य

स्यूतस्य

उपासनायाः

सूत्रस्य

अनुजस्य

पुस्तिकायाः

पत्रस्य

अग्रजस्य

भातृजायाः

यन्त्रस्य

पितामहस्य

अग्रजायाः

वातायनास्य

मातुलस्य

स्नुषायाः

पुष्पस्य

प्राचार्यस्य

लेखन्याः

सङ्गणकस्य

विद्यालयस्य

पत्न्याः

गृहस्य

पितृवयस्य

पुत्र्याः

वार्तापत्रस्य

                                  

                

 

 

 

 

 

 

 

  

 ६. रिक्तस्थानेषु कुटुम्बस्य परिचयं लिखन्तु ।

यथा मम नाम दिनेशः ।            मम पितुः नाम सुरेश: ।

मम मातुः नाम ………          मम अग्रजस्य नाम ……….
मम अनुजायाः नाम ……..      मम पितामहस्य नाम ……….
मम पितामह्याः नाम ……..       मम पितृव्यस्य नाम ……….
मम पितृव्यायाः नाम ……..      एतत् मम् कुटुम्बकम् ।
उत्तरम्:  छात्र/छात्राएँ स्वयं अपने कुटुंब का परिचय लिखें ।

 

  

७. अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।

यथा रामस्य पिता दशरथः


उत्तरम्: (i) रामः
(i)
रामस्य पिता दशरथः ।           दशरथस्य पुत्रः रामः ।
(ii)
रामस्य माता कौशल्या ।         कौशल्यायाः पुत्रः रामः ।
(iii)
रामस्य श्वसुरः जनकः ।         जनकस्य जमाता रामः ।
(iv)
रामस्य पत्नी सीता ।            सीतायाः पतिः रामः ।
(v)
रामस्य श्वश्रूः सुनयना ।          सुनयनायाः जमाता रामः ।
(vi)
रामस्य अनुजः लक्ष्मणः ।       लक्ष्मणस्य अग्रजः रामः ।
(vii)
रामस्य पुत्रः लवः ।             लवस्य पिता रामः ।

           (ii) सीता
(i) सीताया: श्वसुर : दशरथः ।       सीता दशरथस्य स्नुषा ।
(ii)
सीताया: : श्वश्रूः कौशल्या ।     कौशल्याया: स्नुषा सीता ।
(iii)
सीतायाः पिता जनकः ।        जनकस्य पुत्री सीता ।
(iv)
सीताया: पति रामः ।            रामस्य पत्नी सीता ।
(v)
सीतायाः माता सुनयना ।        सुनयनायाः पुत्री सीता ।
(vi)
सीतायाः देवर: लक्ष्मणः ।      लक्ष्मणस्य भ्रातृजाया सीता ।
(vii)
सीताया: : पुत्रः लवः ।         लवस्य माता सीता ।

  

८. निम्नांकित पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।

यथा

1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2.
भगवद्गीतायाः उपरि लीलावती अस्ति ।

उत्तरम्:
(i) लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
(ii)
भगवद्गीतायाः उपरि लीलावती अस्ति
(iii)
रामायणस्य उपरि भगवद्गीता अस्ति ।
(iv)
हितोपदेशस्य उपरि रामायणम् अस्ति ।
(v)
योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
(vi)
रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
(vii)
मनुस्मृत्याः उपरि रघुवंशम् अस्ति ।
(viii)
अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
(ix)
अष्टाध्याय्याः उपरि अमरकोषः अस्ति ।
(x)
महाभारतस्य उपरि अष्टाध्यायी अस्ति ।
(ix)
अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।