05 - गीता सुगीता कर्तव्या

 


अभ्यास प्रश्न

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत -

(क) श्रद्धावान् जनः किं लभते?

उत्तर -  ज्ञानम्

(ख) कस्मात् सम्मोहः जायते?

उत्तर -  सङ्गात्

(ग) सम्मोहात् किं जायते?

उत्तर -  स्मृतिविभ्रमः

(घ) अर्जुनाय गीतां कः उपदिष्टवान्?

उत्तर -  कृष्णः

(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति?

उत्तर -  मम (ईश्वरस्य)

 

२. पूर्णवाक्येन उत्तरं लिखत -

(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते?

उत्तर -  अनुद्वेगकरं सत्यं प्रियं हितं च यत् वाक्यं तत् वाङ्मयं तपः उच्यते।

(ख) कीदृशः जनः स्थितधीः उच्यते?

उत्तर -  दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः च यः जनः सः स्थितधीः उच्यते।

(ग) जनः कथं प्रणश्यति?

उत्तर - ध्यायतो विषयान् पुंसः सङ्गः तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ।

(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति?

उत्तर -  यः सर्वकामान् त्यक्त्वा निर्ममो निरहङ्कारः चरति, सः उत्तमां शान्तिं प्राप्नोति।

(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति?

उत्तर -  उपदेशप्राप्तये त्रयः उपायाः भवन्ति - प्रणिपातेन, परिप्रश्नेन, सेवया च।

 

3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत -

उत्तर -  (क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च 
योगी भवति।
(ग) अनुद्विग्नमनाः मुनिः 
स्थितधीः उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन 
सेवया च विद्धि।
(ङ) सम्मोहात् 
स्मृतिविभ्रमः भवति।

 

4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत -

उत्तर -  (क) उच्यते    - गुरुः शिष्यं धर्मं उच्यते।
           (ख)           - रामः लक्ष्मणः च वनं गतौ।
           (ग)             - सः सत्यं न वदति।
           (घ) लब्ध्वा    - सः धनं लब्ध्वा प्रसन्नः अभवत्।
           (ङ) कुर्यात्     - सः कार्यं कुर्यात्।

 

5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत -

उत्तर -  (क) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेंद्रियः
(ख) 
स्वाध्यायाभ्यसनं चैव वाङ्गयं तप उच्यते।
(ग) सन्तुष्टः सततं योगी यतात्मा 
दृढनिश्चयः
(घ)
क्रोधात् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः 
(ङ) तद्विद्धि 
प्रणिपातेन परिप्रश्नेन सेवया।

 

6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत -

उत्तर - 

उदाहरणम् – श्रद्धावान्           -         श्रद्धावती

        बुद्धिमान्           -         बुद्धिमती        

क. गुणवान्             -       गुणवती

ख. आयुष्मान्          -       आयुष्मती

ग. क्षमावान्             -       क्षमावती

घ. ज्ञानवान्            -       ज्ञानवती

ङ. श्रीमान्              -       श्रीमती

 

 

7. समुचितेन पदेन सह स्तम्भौ मेलयत -

उत्तर -  (क) सर्वभूतानाम्      -        सर्वेषां प्राणिनाम् 

(ख) अनुद्विग्नमनाः     -        यस्य मनः विचलितं न भवति 

(ग) स्थितधीः           -        स्थिरमतिमान् 

(घ) परिप्रश्नेन           -        पुनः पुनः प्रश्नकरणेन 

(ङ) संयतेन्द्रियः        -        इन्द्रियसंयमी 

 

8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत -

उत्तर -  (क) श्रीमद्भगवद्गीता हिन्दुधर्मस्य प्रमुखः ग्रन्थः अस्ति । 
          (ख) एषः ग्रन्थः महाभारतस्य भीष्मपर्वणः भागः अस्ति । 
          (ग) अत्र भगवान् श्रीकृष्णः अर्जुनाय उपदेशं दत्तवान् । 

          (घ) गीता कर्मयोगं, ज्ञानयोगं, भक्तियोगं च प्रतिपादयति । 

          (ङ) इयं जीवनस्य सारं, धर्मस्य च मार्गं दर्शयति ।

 


04 - प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः


अभ्यास प्रश्न

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत

(क) समाज-दिनपत्रिकायाः प्रतिष्ठाता कः?
उत्तरम्: गोपबन्धुः

(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान्?
उत्तरम्: दुर्भिक्षपीडिताय

(ग) मरणासन्नः कः आसीत्?
उत्तरम्: पुत्रः

(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्?
उत्तरम्: उत्कलमणिः

(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्?
उत्तरम्: द्वे


२. एकवाक्येन उत्तरं लिखत

(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तरम्: गोपबन्धुः दुर्भिक्षपीडितस्य बालकस्य दीनदशां दृष्ट्वा अश्रुपूर्णनयनः अभवत्।

(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्?
उत्तरम्: मरणासन्नं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्।

(ग) गोपबन्धोः कृते उत्कलमणिः इति उपाधिः किमर्थं प्रदत्तः?
उत्तरम्: गोपबन्धोः उत्कलस्य कृते असाधारणं योगदानं, त्यागं, समाजसेवाभावं च दृष्ट्वा सः उत्कलमणिः इति उपाधिना सम्मानितः अभवत्।

(घ) गोपबन्धुः कुत्र जन्म लब्धवान् ?

उत्तरम्: गोपबन्धुः पुरीमण्डले सुण्डो ग्रामे जन्म लब्धवान्।

(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान् ?

उत्तरम्: गोपबन्धुः सर्वदा स्वदेशवस्त्राणाम् उपयोगं कृतवान्।


३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत –

उत्तरम्:  (क) सः दीनजनानां सेवाम् अकरोत्।
           (ख) माता
सुस्वादूनि मोदकानि पचति।
            (ग) सः मित्रस्य
सहायताम् अकरोत्।
           (घ) वयं
स्वदेशवस्त्राणि धारयामः।
           (ङ) सः श्रेष्ठपुरुषेषु
अन्यतमः अस्ति।

 

 

४. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत -

उत्तरम्:  (क) चित्रे एकः वृद्धः पुरुषः एकस्य बालकस्य स्कन्धे हस्तं संस्थाप्य चलति।
           (ख) बालकः वृद्धस्य सहायतां करोति।
           (ग) तौ ग्राम्यमार्गे चलतः।
           (घ) वृद्धः श्वेतवस्त्रं धृतवान् अस्ति।
           (ङ) बालकः प्रसन्नः दृश्यते।

 

५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु

उत्तरम्:  (क) स्वदेशभूमौ मम लीयतां तनुः,

            (ख) उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः |

            (ग) स्वदेशलोकास्तदनु प्रयान्तु नु |

            (घ) स्वराज्यमार्गे यदि गर्तमालिका |

            (ङ) ममास्थिमांसैः परिपुरितास्तु सा |

 

६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत -

यथा गतवान्                        गतवती

उत्तरम्:         (क) प्राप्तवान्                  प्राप्तवती

(ख) उपविष्टवान्              उपविष्टवती

(ग) भुक्तवान्                  भुक्तवती

(घ) कृतवान्                  कृतवती

(ङ) गृहीतवान्                गृहीतवती

 

७. समुचितेन पदेन सह स्तम्भौ मेलयत -

उत्तरम्:         1. समाजः                    दिनपत्रिका

2. ममास्थिमांसैः             परिपूरितास्तु

3. उत्कलमणिः                       गोपबन्धुः

4. आँ आँ.. इति              क्रन्दनध्वनिः

5. सुस्वादूनि                 व्यञ्जनानि

 

८. घटनाक्रमेण वाक्यानि पुन: लिखत -

उत्तरम्:         १. (घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः ।

२. (ङ) दिनत्रयात् किमपि न भुक्तम् ।
३. (ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
४. (क) भिक्षुकञ्च तद्भोजितवान् ।
५. (ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान् ।


06 - सः एव महान् चित्रकारः

 


अभ्यास कार्यम्

१. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) श्रद्धा सर्वत्र किं पश्यति ?

उत्तरम् – सौन्दर्यम् |

(ख) शुकः केन वर्णेन शोभते ?

उत्तरम् – हरिद्वर्णेन |

(ग) श्रद्धायाः इष्टवर्णः कः ?

उत्तरम् – नीलः |

(घ) कः महान् चित्रकारः ?

उत्तरम् – ईश्वरः |

(ङ) आदित्यः कान् द्रष्टुम् इच्छति ?

उत्तरम् – चित्रवर्णशुकान् |

 

२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(क) आचार्यस्य प्रावारकस्य वर्णः कः ?

उत्तरम् - आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति ।

(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ?

उत्तरम् - उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।

(ग) किं बहवर्णमयम् इति मञ्जुलस्य अभिप्रायः ?

उत्तरम् - मञ्जुलस्य अभिप्रायः अस्ति यत् प्रकृतिः बहुवर्णमयी अस्ति ।

(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ?

उत्तरम् - चित्रवर्णशुकाः अतिसुन्दराः भवन्ति ।

(ङ) कस्य कस्य वर्णः कृष्णः ?

उत्तरम् - काकस्य, केशस्य च वर्णः कृष्णः अस्ति ।


       


४. राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु ।

उत्तरम् – (क) उपरि श्वेत वर्णः अस्ति 

            (ख) मध्ये हरित वर्णः अस्ति ।

            (ग) अधः केसर वर्णः अस्ति ।
   

            (घ) ध्वजस्य केन्द्रे नील वर्णः अस्ति ।

 

५. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) केशानां वर्णः कः

उत्तरम् – कृष्णः |

(ख) आकाशस्य वर्णः कः

उत्तरम् – नीलः |

(ग) कदलीफलस्य वर्णः कः

उत्तरम् – पीतः |

(घ) तृणस्य वर्णः कः

उत्तरम् – हरितः |

(ङ) महिषस्य वर्णः कः

उत्तरम् – कृष्णः |

(च) मयूरस्य वर्णः कः

उत्तरम् – नीलः |




09 - यो जानाति सः पण्डितः

  वयम् अभ्यासं कुर्मः १. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु । ( क) भोजनान्ते पातुं योग्यं किम् ? उत्तरम्:...