अभ्यास कार्यम् 📝
१. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
- (क) श्रद्धा सर्वत्र किं पश्यति ? ➡ सौन्दर्यम्
- (ख) शुकः केन वर्णेन शोभते ? ➡ हरिद्वर्णेन
- (ग) श्रद्धायाः इष्टवर्णः कः ? ➡ नीलः
- (घ) कः महान् चित्रकारः ? ➡ ईश्वरः
- (ङ) आदित्यः कान् द्रष्टुम् इच्छति ? ➡ चित्रवर्णशुकान्
२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
- (क) आचार्यस्य प्रावारकस्य वर्णः कः ? ➡ आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति ।
- (ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ? ➡ उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।
- (ग) किं बहवर्णमयम् इति मञ्जुलस्य अभिप्रायः ? ➡ मञ्जुलस्य अभिप्रायः अस्ति यत् प्रकृतिः बहुवर्णमयी अस्ति ।
- (घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ? ➡ चित्रवर्णशुकाः अतिसुन्दराः भवन्ति ।
- (ङ) कस्य कस्य वर्णः कृष्णः ? ➡ काकस्य, केशस्य च वर्णः कृष्णः अस्ति ।
३. उचितवर्णेन सह शब्दं योजयन्तु ।
४. राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु ।
- (क) उपरि केसर वर्णः अस्ति ।
- (ख) मध्ये श्वेत वर्णः अस्ति ।
- (ग) अधः हरित वर्णः अस्ति ।
- (घ) ध्वजस्य केन्द्रे नील वर्णः अस्ति ।
५. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
- (क) केशानां वर्णः कः? ➡ कृष्णः
- (ख) आकाशस्य वर्णः कः ? ➡ नीलः
- (ग) कदलीफलस्य वर्णः कः? ➡ पीतः
- (घ) तृणस्य वर्णः कः? ➡ हरितः
- (ङ) महिषस्य वर्णः कः? ➡ कृष्णः
- (च) मयूरस्य वर्णः कः? ➡ नीलः
६. रेखाचित्रेषु निर्दिष्टान् वर्णान् पूरयन्तु । (छात्र स्वयं रंग भरे)