8_न धर्मवृद्धेषु वयः समीक्ष्यते

 


अभ्यासः प्रश्नः - न धर्मवृद्धेषु वयः समीक्ष्यते

1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत -

(क) मित्रैः सह क्रीडित्वा कः गृहम् प्रत्यावृत्तः ?

उत्तर – अष्टावक्रः

(ख) अष्टावक्रस्य पिता किमर्थं राजसभां गतः आसीत् ?

उत्तर – शास्त्रार्थाय

(ग) 'त्वं बालोऽसि ! राजसभायां तव प्रवेशो न सुलभः' इति कस्य वचनम् ?

उत्तर – मातुः

(घ) 'ईदृशीं तादृशीं वा आशङ्कां मा विधेहि' इति आश्वासनं कस्मै दीयते ?

उत्तर – मात्रे

(ङ) अष्टावक्रं दृष्ट्वा के उच्चैः अहसन् ?

उत्तर – पण्डिताः

(च) अष्टावक्रः किं कृत्वा पण्डितान् अजयत् ?

उत्तर – शास्त्रार्थम्

(छ) राजसभायां मिथ्याज्ञानगर्विताः के ?

उत्तर – पण्डिताः

(ज) अष्टावक्रः कस्य विषये कथयति 'अस्थि-रुधिर-मांस-मेदोभरिते चर्मवेष्टिते' इति-

उत्तर – शरीरस्य

(झ) 'यदि नदी वक्रा, किं तस्याः जलमपि वक्रम्' इति केन पृष्टम् ?

उत्तर – अष्टावक्रेण

(ञ) किं वस्तु वंशपरम्पराप्राप्तम् ?

उत्तर – राज्यम्

 

2. पूर्णवाक्येन संस्कृतभाषया उत्तरत-

(क) मातुः चिन्तां ज्ञात्वा कः राजसभां गन्तुम् उद्यतः आसीत् ?

उत्तर - मातुः चिन्तां ज्ञात्वा अष्टावक्रः राजसभां गन्तुम् उद्यतः आसीत् |

(ख) राजसभायां कस्य उपहासः अभवत् ?

उत्तर - राजसभायां अष्टावक्रस्य उपहासः अभवत् |

(ग) राजा जनकः अष्टावक्राय किम् अयच्छत् ?

उत्तर - राजा जनकः अष्टावक्राय स्वमनः अयच्छत् |

(घ) मनसः किं कार्यम् ?

उत्तर – ‘संकल्पविकल्पौमनसः कार्यम् |

(ङ) राजा जनकः कस्य पादयोः पतति किमर्थं च ?

उत्तर - राजा जनकः ज्ञानप्राप्त्यर्थम् अष्टावक्रस्य पादयोः पतति |

 

3. एतादृशाम् प्रश्नानां निर्माणं कुरुत येषाम् उत्तराणि अधोलिखितवाक्येषु स्युः-

यथा- (i) अष्टावक्रः जननीम् अपृच्छत् मातः क्व आस्ते मम पिता |

प्रश्न- अष्टावक्रः जनीं किम् अपृच्छत् ?

        (ii) अष्टावक्रस्य पिता जनकस्य सभायां विद्वद्भिः सह शास्त्रार्थं गतः आसीत् |

प्रश्न- अष्टावक्रस्य पिता जनकस्य सभायां कैः सह शास्त्रार्थं गतः आसीत् ?

(क) अष्टावक्रः प्रत्यवदत् 'जननि ! अलं चिन्तया'।

उत्तर - अष्टावक्रः किं प्रत्यवदत् ?

(ख) राजसभायां बालकस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ।

उत्तर - राजसभायां कस्य वक्रदेहस्य उपहासोऽपि सम्भाव्यते ?

(ग) अष्टावक्रः पितरम् आदाय क्षिप्रम् आगमिष्यति ।

उत्तर - अष्टावक्रः म् आदाय क्षिप्रम् आगमिष्यति ?

(घ) मात्रा अनुज्ञातः स राजसभां गतः।

उत्तर - कया अनुज्ञातः स राजसभां गतः।

(ङ) पण्डितानां चेष्टितं दृष्ट्वा अष्टावक्रः हसितुमारभत ।

उत्तर – किं दृष्ट्वा अष्टावक्रः हसितुमारभत ?

(च) राज्ञा हास्यकरणं पृष्टम्

उत्तर - राज्ञा किं पृष्टम् ?

(छ) अष्टावक्रः मिथ्याज्ञानगर्वितान् दृष्ट्वा हसति

उत्तर - अष्टावक्रः कान् दृष्ट्वा हसति ?

(ज) राजर्षिः जनकः आत्मानं धन्यं मन्यते ।

उत्तर - राजर्षिः जनकः कं धन्यं मन्यते ?

 

4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत

(क) 'बालः अष्टावक्रः मित्रैः सह क्रीडित्वा गृहं प्रत्यावृत्तः।' अस्मिन् वाक्ये 'अष्टावक्रः' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?

उत्तर – प्रत्यावृत्तः |

(ख) 'तं हसन्तं विलोक्य सर्वे सभास्थिताः विद्वांसः स्तब्धाः अभवन्।' अस्मात् वाक्यात् 'स्तब्धाः' इति पदस्य विशेष्यपदं चिनुत ।

उत्तर – विद्वांसः |

(ग) 'अहं भवद्दर्शनैः आत्मानं धन्यं मन्ये।' अत्र 'मन्ये' इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?

उत्तर – अहम् |

(घ) 'मात्रा अनुमतः अष्टावक्रः राजसभां गतः।' अस्मिन् वाक्ये 'अष्टावक्रः' इत्यस्य विशेषणं चिनुत ।

उत्तर – अनुमतः |

(ङ) 'तस्य वक्रदेहं वीक्ष्य पण्डिताः तारस्वरेण अहसन्।' अत्र 'दृष्ट्वा' इति पदस्य किं पर्यायपदं प्रयुक्तम् ?

उत्तर – वीक्ष्य |

(च) 'इच्छामि भवद्भ्यः किञ्चिद् दातुम् अस्मिन् वाक्ये 'स्वीकर्तुम्' इति पदस्य किं विलोमपदं प्रयुक्तम् ?

उत्तर – दातुम् |

 

5. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखत -

(क) अष्टावक्रस्य पिता राजर्षेः जनकस्य सभां विद्वद्धिः सह शास्त्रार्थाय गतः आसीत्

(ख) अष्टावक्रः मातरम् अपृच्छत्-मातः ! क्व आस्ते मे पिता ?

(ग) मात्रा अनुमतः अष्टावक्रः राजसभां गतः

(घ) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्

(ङ) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुम् प्रारभन्त ।

(च) हे राजन् ! किं वक्रे देहे आत्माऽपि वक्रः भवति ?

(छ) जनकः अपृच्छत्-भो अष्टावक्र ! किमर्थं हससि ?

(ज) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः अभवन्

(झ) अष्टावक्रः उवाच - एते मे देहं दृष्ट्वा हसन्ति, अहम् एतेषां मूर्खतां दृष्ट्वा हसामि

(ञ) जनकः स्वमनः अष्टावक्राय यच्छति

(ट) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुम् इच्छति

(ठ) जनकः पराजितः भूत्वा अष्टवक्रस्य पादयोः पतति ।

उत्तर –

(क) अष्टावक्रस्य पिता राजर्षेः जनकस्य सभां विद्वद्धिः सह शास्त्रार्थाय गतः आसीत्

(ख) अष्टावक्रः मातरम् अपृच्छत्-मातः ! क्व आस्ते मे पिता ?

(ग) मात्रा अनुमतः अष्टावक्रः राजसभां गतः

(ङ) पण्डिताः तं वक्रदेहं बालं दृष्ट्वा हसितुम् प्रारभन्त ।

(घ) अष्टावक्रः पण्डितानां चेष्टितं दृष्ट्वा उच्चैः अहसत्

(छ) जनकः अपृच्छत्-भो अष्टावक्र ! किमर्थं हससि ?

(झ) अष्टावक्रः उवाच - एते मे देहं दृष्ट्वा हसन्ति, अहम् एतेषां मूर्खतां दृष्ट्वा हसामि।

(च) हे राजन् ! किं वक्रे देहे आत्माऽपि वक्रः भवति ?

(ज) अष्टावक्रस्य शास्त्रपाण्डित्येन सर्वे प्रभाविताः अभवन्

(ट) जनकः प्रभावितः सन् अष्टावक्राय किमपि दातुम् इच्छति

(ञ) जनकः स्वमनः अष्टावक्राय यच्छति

(ठ) जनकः पराजितः भूत्वा अष्टवक्रस्य पादयोः पतति ।

 

 

6. समुचितं पर्यायपदं पाठात् अन्विष्य लिखत-

(क) कुत्र                               ..............................

(ख) विस्मिताः                       ..............................

(ग) विलोक्य                          ..............................

(घ) समीपात्                         ..............................

(ङ) अधुना                            ..............................

उत्तर –

(क) कुत्र                                .........क्व ...........

(ख) विस्मिताः                       .........स्तब्धाः........

(ग) विलोक्य                          ..........वीक्ष्य............

(घ) समीपात्                          ........सकाशात्.........

(ङ) अधुना                            ...........इदानीम्..........

 

 

 

7. उचितविपरीतपदं चित्वा लिखत-

(अ)                                     (आ)

(क) सुलभः                                    (i) शनैः

(ख) क्षिप्रम्                                     (ii) निर्गत्य

                 (ग) अर्पय                                      (iii) अलौकिकम्

(घ) प्रविश्य                                    (iv) दुर्लभः

(ङ) लौकिकम्                                (v) गृहाण

उत्तर –

(अ)                                     (आ)

(क) सुलभः                                    (iv) दुर्लभः

(ख) क्षिप्रम्                                     (i) शनैः

                 (ग) अर्पय                                      (v) गृहाण

(घ) प्रविश्य                                    (ii) निर्गत्य

(ङ) लौकिकम्                                (iii) अलौकिकम्

 

 

8. अधोलिखितानां वाक्यानां पूर्तिः उचितैः विशेषणैः कुरुत -

(निराकारः, ईदृशी, अलङ्कृता, भवदीयम्, सुलभः, सर्वशास्त्रपारङ्गतः, स्तब्धः, मिथ्याज्ञानगर्विताः)

(क) अष्टावक्रः ............................. आसीत् ।

(ख) अहो बालस्य ............................. निपुणता ।

(ग) एतत् धनम् ............................. नास्ति ।

(घ) ये ............................. ते सम्मानं न लभन्ते ।

(ङ) राजसभा विद्वद्भिः ............................. अस्ति।

(च) मित्रस्य कटुव्यवहारं दृष्ट्वा अहं ............................. अभवम्।

(छ) आत्मा ............................. उच्यते |

(ज) उदारतागुणः न ............................. |

 

उत्तर –

(क) अष्टावक्रः ............. सर्वशास्त्रपारङ्गतः................ आसीत् ।

(ख) अहो बालस्य .......... ईदृशी................... निपुणता ।

(ग) एतत् धनम् .............. भवदीयम्............... नास्ति ।

(घ) ये ......... मिथ्याज्ञानगर्विताः.................... ते सम्मानं न लभन्ते ।

(ङ) राजसभा विद्वद्भिः ........... अलङ्कृता.................. अस्ति।

(च) मित्रस्य कटुव्यवहारं दृष्ट्वा अहं .......... स्तब्धः................... अभवम्।

(छ) आत्मा .......... निराकारः................... उच्यते |

(ज) उदारतागुणः न .......... सुलभः................... |

 

 

 

 

 

 

 

 

 


10_भारतीयं विज्ञानम्


 

अभ्यासः प्रश्नः – भारतीयं विज्ञानम्

1. निम्नलिखितानां प्रश्नानामुत्तराणि एकपदेन लिखत -

(क) स्वातिनामकः मुनिः कया पीडितः अभवत् ?

उत्तर – पिपासया

(ख) मुनिना कीदृशः शब्दः श्रुतः ?

उत्तर – आह्लादकरः

(ग) मुनिः किं विस्मृत्य वेगेन आश्रमम् आगतवान् ?

उत्तर – तृषाकुलताम् 

(घ) मुनिना यत् सङ्गीतसाधनं निर्मितम् तस्य किं नाम ?

उत्तर – मृदङ्गः

(ङ) भरतमुनिना किं शास्त्रं विरचितम् ?

उत्तर – नाट्यशास्त्रम्

(च) रेखागणितस्य कः सिद्धान्तः शुल्वसूत्रेषु पूर्वमेव निरूपितः ?

उत्तर – पाइथोगोरस

(छ) कस्मिन् विश्वविद्यालये कृषिः, आयुर्वेदः, पशुविज्ञानम् आदयः विषयाः अध्याप्यन्ते स्म ?

उत्तर – नालन्दा

(ज) प्राचीना भारतीयविज्ञानपरम्परा कीदृशी आसीत् ?

उत्तर – अति उत्कृष्टा

() 'सर्वे भवन्तु सुखिनः' इति कस्याः सभ्यतायाः मूलमन्त्रम् ?

उत्तर – भारतीयसभ्यतायाः

 

2. पूर्णवाक्येन संस्कृतभाषाया उत्तरत -

(क) स्वातिमुनिः किम् अन्विष्टवान् ?

उत्तर - स्वातिमुनिः सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मक्रम आवश्यकः तम्  अन्विष्टवान् |

(ख) प्राचीनभारतीयविज्ञानस्य पञ्चशाखानां नामानि लिखत।

उत्तर – भौतिकविज्ञानम्, जीवविज्ञानम् भूविज्ञानम्, खगोलविज्ञानम्, नक्षत्रविज्ञानम् च |

(ग) वृक्षाणां पर्णः काः क्रियाः क्रियन्ते ?

उत्तर – वृक्षाणां पर्णैः प्रकाशनिस्सारणप्रक्रिया, पर्णस्य अवान्तरभागाः, पर्णकेषु स्थितः प्लाज्मा, बीजनिर्माणमादयः क्रियाः क्रियन्ते |

(घ) बोधयनाचार्येण शुल्वसूत्रेषु किं निरूपितम् ?

उत्तर - बोधयनाचार्येण शुल्वसूत्रेषु “पाइथोगोरस” इति सिद्धान्तः निरूपितः |

(ङ) पञ्चविद्यानां नामानि लिखत।

उत्तर - पञ्चविद्यानां नामानि सन्ति – शब्दविद्या, शिल्पस्थानम्, आयुर्वेदः, हेतुविद्या आध्यात्मिकी विद्या च |

(च) प्राचीना भारतीयविज्ञानपरम्परा कीदृशी आसीत् ?

उत्तर - प्राचीना भारतीयविज्ञानपरम्परा अति उत्कृष्टा मानवीयमूल्ययुक्ता च आसीत् |

(छ) भारतीयसभ्यतायाः मूलमन्त्रः कः अस्ति ?

उत्तर - भारतीयसभ्यतायाः मूलमन्त्रः अस्ति – सर्वे भवन्तु सुखिनः |

 

3. स्थूलाक्षरपदानि उत्तराणि स्युः इति दृष्ट्या प्रश्ननिर्माणं कुरुत-

(क) जलमूलम् अन्विष्यता स्वातिमुनिना आह्लादकरः शब्दः श्रुतः ।

उत्तर – किम्

(ख) अग्रे गत्वा पर्वतात् पततः जलबिन्दून् अपश्यत् सः।

उत्तर – कस्मात्

(ग) जलबिन्दवः मधुरसङ्गीतं जनयन्ति स्म।

उत्तर – किम्

(घ) प्रतिध्वनिविज्ञानं विना सङ्गीतसाधनानां निर्माणम् असाध्यम्।

उत्तर – केषाम्

(ङ) विज्ञाने गभीराध्ययनं कृत्वा अस्माकं पूर्वजैः अभूतपूर्वाः सिद्धयः सम्प्राप्ताः ।

उत्तर – कस्मिन्

(च) वृक्षायुर्वेदः महर्षिपराशरेण विरचितः ।

उत्तर – केन

 

4. अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत-

(क) 'एकदा स्वातिनामकः मुनिः पिपासया पीडितोऽभवत्।' अत्र क्रियापदं किम् ?

उत्तर – अभवत् |

(ख) 'वृक्षायुर्वेदे वृक्षाणां पर्णैः क्रियमाणाः विविधाः क्रियाः वर्णिताः।' अत्र 'विविधाः' इति पदस्य किं विशेष्यपदं प्रयुक्तम् ?

उत्तर – क्रियाः |

(ग) 'प्रथमा शब्दविद्या तु व्याकरणस्य ज्ञानाय अभवत्।' अत्र विशेषणपदं किम् ?

उत्तर – प्रथमा |

(घ) 'सर्वे भवन्तु सुखिनः।' अत्र कर्तृपदं किम् ?

उत्तर – सर्वे |

(ङ) 'सः तृषाकुलतां विस्मृत्य वेगेन आश्रमम् आगतवान्।' अस्मिन् वाक्ये 'स्मृत्वा' इति पदस्य किं विलोमपदं प्रयुक्तम् ?

उत्तर – विस्मृत्य |

(च) 'सर्वे सन्तु निरामयाः' अस्मिन् वाक्ये 'रोगरहिताः' इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तर – निरामयाः |

 

5. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत-

(क) सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः ।

(ख) एकदा स्वातिनामकः मुनिः आसीत्।

(ग) तत्र पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं सङ्गीतं जनयन्ति स्म।

(घ) सः पिपासया पीडितोऽभवत्।

(ङ) एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति।

(च) तं शब्दम् अनुसृत्य स अग्रे गतः ।

(छ) एतद् अवगत्य प्रेरितः स तृषाकुलतां विस्मृत्य वेगेन आश्रमम् आगतवान्।

उत्तर - 

(ख) एकदा स्वातिनामकः मुनिः आसीत्।

(घ) सः पिपासया पीडितोऽभवत्।

(च) तं शब्दम् अनुसृत्य स अग्रे गतः ।

(ग) तत्र पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं सङ्गीतं जनयन्ति स्म।

(छ) एतद् अवगत्य प्रेरितः स तृषाकुलतां विस्मृत्य वेगेन आश्रमम् आगतवान्।

(क) सङ्गीतसाधनेषु प्रतिध्वनेः उत्पादनार्थं यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः ।

(ङ) एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति।

 

6 . विशेषण-विशेष्याणां मेलनं कृत्वा लिखत-

विशेषणानि                                विशेष्याणि

(क) मधुरम्                                    (i) परम्परा

(ख) आह्लादकरः                             (ii) सर्वे

(ग) अत्युत्कृष्टा                                (iii) क्रियाः

(घ) विविधाः                                  (iv) सङ्गीतम्

(ङ) सुखिनः                                   (v) शब्दः

उत्तर -      

विशेषणानि                                विशेष्याणि

(क) मधुरम्                                    (iv) सङ्गीतम्

(ख) आह्लादकरः                             (v) शब्दः

(ग) अत्युत्कृष्टा                                (i) परम्परा

(घ) विविधाः                                  (iii) क्रियाः

(ङ) सुखिनः                                   (ii) सर्वे

 

 

7. अधोलिखितविद्यानां विषयैः सह मेलनं कृत्वा लिखत-

(क) हेतुविद्या                               (i) व्याकरणम्

(ख) शिल्पस्थानम्                        (ii) न्यायादिदर्शनम्         

(ग) आध्यात्मिकी                         (iii) यन्त्रनिर्माणविधिः                         

(घ) आयुर्वेदः                               (iv) जीवनदर्शनम्

(ङ) शब्दविद्या                              (v) शरीरक्षा

उत्तर -

(क) हेतुविद्या                                  (ii) न्यायादिदर्शनम्

(ख) शिल्पस्थानम्                           (iii) यन्त्रनिर्माणविधिः                 

(ग) आध्यात्मिकी                            (iv) जीवनदर्शनम्                 

(घ) आयुर्वेदः                                  (v) शरीरक्षा

(ङ) शब्दविद्या                                (i) व्याकरणम्

 

 

3_कोष्ठकात् पदानि आधृत्य प्रश्ननिर्माणं क्रियाताम्

  अधोलिखित कथनेषु कोष्ठकात् पदानि आधृत्य प्रश्ननिर्माणं क्रियाताम् Lets try It ...