पुष्पाणि

सुरभी गांधीधामनगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय जयपुरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं सा जोधपुरस्थं पितरं प्रति पत्रम् एकं लिखति।
छात्रावासः
राजकीयः विद्यालयः
गांधीधामतः
तिथि: 21-05-2023
माननीयाः पितृवर्याः,
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम प्रथमसत्रीया परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् |आगामिमासस्य प्रथमसप्ताहे मम विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिकभ्रमणाय जयपुरं नेष्यन्ति। अहम् अपि ताभिः सह गन्तुम् इच्छामि। एतदर्थम् मया कक्षाध्यापिकायै पञ्चशतम् रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः स्यात् तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं च पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
सर्वेभ्यः मम प्रणामाः निवेदनीयाः।
भवतां प्रिया पुत्री
सुरभी
वेष्टनम्-
श्री लक्षण, पिङ्ग्लुसर
1/21 उदयनगर, जोधपुर:
छात्रावासतः
गांधीधामनगरम्
दिनाङ्क: 03.05.2023
समादरणीये भगिनी।
नमोनमः।
पत्रेण ज्ञातम् यत् अम्बा ज्वरपीडिता अस्ति। अहम् अतीव चिन्तितः अस्मि परम् परीक्षाकारणात् गृहम् आगन्तुं सक्षमः न अस्मि। भवती यथासमयम् तस्यै औषधिम् यच्छतु, भगवत्कृपया सा शीघ्रम् स्वस्था भविष्यति। कृपया पत्रोत्तरम् शीघ्रम् प्रेषयतु।
तव भ्राता
कुणाल
अधोलिखित कथनेषु कोष्ठकात् पदानि आधृत्य प्रश्ननिर्माणं क्रियाताम् Lets try It ...