भ्रान्तो बालः – प्रश्नोत्तराणि
प्रश्न: 1. एकपदेन उत्तरं
लिखत--
(क) कः तन्द्रालुः
भवति?
उत्तर: (क) बालकः
(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?
उत्तर: (ख) उद्याने
(ग) के मधुसंग्रहव्यग्राः अवभवन्?
उत्तर: (ग) मधुकराः
(घ) चटकः कया तृणशलाकादिकम् आददाति?
उत्तर: (घ) चञ्चवा
(ङ) चटकः कस्य
शाखायां नीड रचयति?
उत्तर: (ङ) वटदुमस्य
(च) बालकः कीदृशं
श्वानं पश्यति?
उत्तर: (च) पलायमानम्
(छ) श्वानः कीदृशे
दिवसे पर्यटति?
उत्तर: (छ) निदाघदिवसे
प्रश्न: 2. अधोलिखितानां
प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत--
(क) बालः कदा क्रीडितुं अगच्छत्?
उत्तर: (क) बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?
उत्तर: (ख) बालस्य
मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन्।
(ग) मधुकरः
बालकस्य आह्वान केन कारणेन तिरस्कृतवान्?
उत्तर: (ग)
मधुसंग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।
(घ) बालकः कीदृशं
चटकम् अपश्यत्?
उत्तर: (घ) बालकः चञ्च्वा तृणशलाकादिकम्
आददानम् एकं चटकम् अपश्यत्।
(ङ) बालकः चटकाय
क्रीडनार्थं कीदृशं लोभं दत्तवान्?
उत्तर: (ङ) “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते
दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।
(च) खिन्नः बालकः
श्वानं किम् अकथयत्?
उत्तर: (च) खिन्नः बालकः श्वानं अकथयत्, “अस्मिन् निदाघदिवसे किं पर्यटसि? आश्रयस्वेदं प्रच्छायशीतलं
तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”
(छ) भग्नमनोरथः
बालः किम् अचिन्तयत्?
उत्तर: (छ) भग्नमनोरथः बालः अचिन्तयत्, “अस्मिन् जगति प्रत्येकं
स्व-स्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे
तन्द्रालुतायाम् कुत्सा समापादिता।”