वयम् अभ्यासं कुर्मः
१. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?
उत्तरम्: आतपे
(ख) परोपकाराय का वहन्ति ?
उत्तरम्: नद्यः
(ग) दशवापीसमः कः भवति ?
उत्तरम्: हृदः
(घ) सत्पुरुषाः इव के सन्ति?
उत्तरम्: वृक्षा:
(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
उत्तरम्: वृक्षेभ्यः महीरुहेभ्यः
(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तरम्: फलानि
३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) नद्यः किं न पिबन्ति ?
उत्तरम्: नद्यः स्वयमेव अम्भः न पिबन्ति ।
(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति ?
उत्तरम्: वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं वल्कलं, दारूं च यच्छन्ति ।
(ग) इदं शरीरं किमर्थम् अस्ति ?
उत्तरम्: इदं शरीरं परोपकाराय अस्ति ।
(घ) दशपुत्रसमः कः भवति ?
उत्तरम्: दशपुत्रसम: द्रुमः भवति ।
(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्: सतां विभूतयः परोपकाराय भवन्ति ।
(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तरम्: अन्यस्य छायां वृक्षाः कुर्वन्ति ।
४. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु ।
(तिष्ठन्ति, सुजनस्येव, विभूतयः, वृक्षा:, फलानि, दशपुत्रः, परोपकाराय)
यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति
स्वयमातपे ।
(क) फलान्यपि परार्थाय ………… सत्पुरुषा इव ।
उत्तरम्: वृक्षा:
(ख) दशह्रदसमः पुत्र ……… समो द्रुमः ।
उत्तरम्: दशपुत्रः
(ग) ……….. येषां वै विमुखा यान्ति नार्थिनः ।
उत्तरम्: सुजनस्येव
(घ) ………. इदं शरीरम् ।
उत्तरम्: परोपकाराय
(ङ) स्वयं न खादन्ति ……… वृक्षाः ।
उत्तरम्: फलानि
(च) परोपकाराय सतां ……… ।
उत्तरम्: विभूतयः
५. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु ।
यथा – वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । द्वितीया विभक्तिः
(क) वृक्षाः परार्थाय फलानि यच्छन्ति ।
उत्तरम्: फलानि – द्वितीया विभक्ति
(ख) वृक्षाः सत्पुरुषाः इव सन्ति ।
उत्तरम्: सत्पुरुषाः – प्रथमा विभक्ति
(ग) द्रुमः दशसन्तानसमः भवति ।
उत्तरम्: द्रुमः – प्रथमा विभक्ति
(घ) वृक्ष: प्राणिभ्यः काष्ठानि यच्छति ।
उत्तरम्: प्राणिभ्यः – चतुर्थी विभक्ति
(ङ) नद्यः जलं स्वयमेव न पिबन्ति ।
उत्तरम्: नद्यः – प्रथमा विभक्ति
(च) सज्जनानां सङ्गतिं करोतु ।
उत्तरम्: सङ्गतिं – द्वितीया विभक्ति
६. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु ।
यथा- वृक्षः वृक्षौ वृक्षा:
(क) मेघः ………….. ……………..
(ख) हृदः ………….. ……………..
(ग) सत्पुरुषः ………….. ……………..
(घ) छाया ………….. ……………..
(ङ) वापी ………….. ……………..
(च) नदी ………….. ……………..
(छ) शरीरम् ………….. ……………..
(ज) पुष्पम् ………….. ……………..
उत्तरम्:
(क) मेघ: मेघौ मेघाः
(ख) हृदः हृदौ हृदा:
(ग) सत्पुरुषः सत्पुरुषौ सत्पुरुषाः
(घ) छाया छाये छाया:
(ङ) वापी वाप्यौ वाप्यः
(च) नदी नद्यौ नद्यः
(छ) शरीरम् शरीरे शरीराणि
(ज) पुष्पम् पुष्पे पुष्पाणि
७. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा ‘कः किं ददाति’ इति लिखन्तु ।
(क) वृक्षः दुग्धम् वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: प्रकाशं …………………
(ग) सूर्य: विद्यां ……………..
(घ) नदी शुद्धं वायुं ……………
(ङ) अग्निः जलम्ं ………………
(च) शिक्षक: तापं ……………
उत्तरम्:
(क) वृक्षः –
वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: –
गौ: दुग्धं ददाति ।
(ग) सूर्य: –
सूर्य: प्रकाशं ददाति ।
(घ) नदी –
नदी जलं ददाति ।
(ङ) अग्निः –
अग्निः तापं ददाति
(च) शिक्षक: –
शिक्षक: विद्यां ददाति ।
८. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु
।
यथा – कुर्वन्ति – करोति कुरुतः कुर्वन्ति
तिष्ठन्ति – …… …….. ………
फलन्ति – …… …….. ………
यान्ति – …… …….. ………
पिबन्ति – …… …….. ………
खादन्ति – …… …….. ………
उत्तरम्:
तिष्ठन्ति – तिष्ठति तिष्ठतः तिष्ठन्ति
फलन्ति – फलति फलतः फलन्ति
यान्ति – याति यातः यान्ति
पिबन्ति – पिबति पिबतः पिबन्ति
खादन्ति – खादति खादतः खादन्ति

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें